श्रीराघवेन्द्रक्षमापणस्तोत्रम्
श्रीलक्ष्म्योपेतं दक्षिणाङ्के वसन्त्या
चण्डज्योतिर्ज्योतिषं ताम्रवर्णम् ।
शय्याकारोऽनन्तभोगोपविष्टं
विष्णुं स्वप्नेऽदर्शयद्यो गरुर्मे ॥ १॥
मुख्यप्राणं स्वर्णघण्टोपरिस्थं
सन्दर्श्यारादाभिमुख्येन पश्चात् ।
स्वापत्यं मां स्वान्तिके सूपवेश्य
स्वात्मानं मेऽदर्शयद्यः प्रमोदात् ॥ २॥
साक्षात् पुत्रापेक्षया वत्सलं म-
य्येनं नित्यं मानसे मे वसन्तम् ।
स्मारं स्मारं स्थारतापाविलोऽपि
स्वच्छोऽहं श्रीराघवेन्द्रप्रसादात् ॥ ३॥
यस्मादस्मिन् राघवेन्द्रार्यतन्त्रे
पूर्णे जाते स्वप्न एवं विधोऽभूत् ।
तस्मादस्य श्रावणात् पाठतोऽपि
प्राणद्वारेणापरोक्ष्यं हरेः स्यात् ॥ ४॥
लक्ष्मीकान्ते स्वापरोक्षीकृतेऽस्मिन्
किं दुस्साध्यं दुःखबन्धं कथं स्यात् ।
ग्रन्थं चामुं राघवेन्द्रार्यतातः
स्वीचक्रे यत्तेन चासं कृतार्थः ॥ ५॥
त्वं मे माता त्वं पिता त्वं सखा च
त्व मे बन्धुः त्वं च दाता दयालुः ।
त्वं मे राजा पालकस्त्वं गुरुश्च
पुत्रोऽहं ते पाहि मां राघवेन्द्र ॥ ६॥
सर्वज्ञ त्वं मामकं सर्ववृत्तं
जानस्येव प्रत्यहं किं वदामि ।
ये ये पापाः सन्ति लोकेषु तेषां
अग्रे गण्ये नास्ति मे तद्गुणोऽणुः ॥ ७॥
एतादृक्षं चोद्धरेर्मां विधेयं
सत्यं ख्यातं ते दयालुत्वमेतत् ।
सर्वं त्वय्येवार्पितं मद्गुरुत्वात्
कार्याकार्यं कर्म तत्तत्फलं च ॥ ८॥
तत्र स्वीकुर्वात्मनो यद्यदिष्टं
पुत्रत्वान्मेऽथेतरत्वं सहस्व ।
अत्र प्रोक्तं मे ऋतं वाऽनृतं वा
तात क्षान्त्वा मोदमुच्चैरुपागाः ॥ ९॥
तात श्रीगुरुराघवेन्द्रयतिराट् श्रीराघवेन्द्रप्रभो
लोकागण्यगुणौघलालित तव स्तोत्राय नाऽलं वचः ।
नाऽलं बुद्धिरभूत्तव स्तवविधिप्रोत्साहमानस्य मे
किन्तु श्रुतृपठज्जनालसतया ते चाज्ञया पूर्यते ॥ १०॥
यस्य यस्यास्ति दुर्दैवमूलनिर्नाशनार्हता ।
तस्य तस्यैव तन्त्रेऽस्मिन् आस्थास्तीत्यब्रवीद्गुरुः ॥ ११॥
अहं श्रीगुरुराजेन पित्रा प्रत्यक्षचोदितः ।
रहस्यं सफलं चष्टा न दूष्ये विदुषां धुरि ॥ १२॥
इति कृष्णावधूतेन वश्यवाणी विलासिना ।
श्रीगुरुप्रेमपुत्रेण गुरुराजप्रसादतः ॥ १३॥
कृतं श्रीराघवेन्द्रार्यतत्रं सद्यः फलप्रदम् ।
प्रीयतां तेन गुरुराट् हृद्गतौ मध्वमाधवौ ॥ १४॥
गुरुराज पिताऽसि मे कृपावानिति निश्चित्य मयोद्धतं व्यभाणि ।
त्वदनन्यगतेर्ममानृतोक्तिः सुतवात्सल्यतया कुरुष्व सत्याः ॥ १५॥
अनृणमयाचनमश्रममभयं न्याय्यं यथेष्टमप्रयत्नम् ।
अशनं वसनं सदनं दातुं भोक्तुं ददासि चेत् तदलम् ॥ १६॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे चतुर्दशपटले
क्षमापणस्तोत्रं सम्पूर्णम् ।
Proofread by Gopalakrishnan, PSA Easwaran