श्रीराघवेन्द्रकरावलम्बनस्तोत्रम्
श्रीधराङ्घ्रिसरोरुहे दिश दासतामनुदासतां
तद्वधूपवनादिकेष्वनुदासतामनुदासताम् ।
राघवेन्द्र कराश्रयं तव देहि मे वर देहि मां
राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ १॥
रामया हृतहृत्त्वहं न लभे सुखं न लभे सुखं
किं करोमि हताशयश्चरितास्म्यहं मृगतृष्णया । हताशयश्चरिष्णुरहं
राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां
राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ २॥
घातुकं मम पूर्वकर्म विभाधते प्रविबाधते
तेन संसृतिसागरे भ्रमतो मम भ्रमतो मम ।
राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां
राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ३॥
वेद्मि किञ्चन साधनं न हि सद्गतेर्मम सद्गते
मार्गमाशु विमुक्तिदं प्रतिदर्शय प्रतिदर्शय ।
राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां
राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ४॥
द्रावयाऽशु ममापदं नियतायतामनयाऽगतां
अन्यथा तव भक्तदुःखहरप्रथा तु भवेद्वृथा ।
राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां
राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ५॥
यामि कं त्वदृते पितः शरणं वदाशरणः प्रभो
पुत्रवत्सलता पितुस्तव नास्ति किं तव नास्ति किम् ।
राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां
राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ६॥
मानयस्व सुतस्य मे बहु भाषणं करुणेषणं
वक्रवागपि बालकस्य मुदं पितुः कुरुते न किम् ।
राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां
राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ७॥
कृष्णनामयुतावधूतकृतं तव स्तवमादरात्
यःपठेदिह तस्य तत्सुखमादिशाभयमादिश ।
राघवेन्द्र कराश्रयं तव देहि मे वरदैहि मां
राघवेन्द्र कराश्रयं दिश रक्षतां कुरु चाक्षताम् ॥ ८॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले
करावलम्बनस्तोत्रं नाम चतुर्थोऽध्यायः सम्पूर्णः ।
Proofread by Gopalakrishnan, PSA Easwaran