श्रीराघवेन्द्रसंसारोद्धरणस्तोत्रम्
श्रितलोकामरभूरुहसदृशाङ्घ्रे कृपया भोः ।
गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ १॥
रमणी रै सुत मोहित मनसं मोदद भो भोः ।
गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ २॥
घनसच्छित्सुखपूरित करुणासागर भो भोः ।
गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ३॥
वरदेशामित चित्रचरित भूभासुर भो भोः ।
गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ४॥
दरचक्राङ्कित कण्ठग तुलसीमालिक भो भोः ।
गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ५॥
यतिवरामितबोध सुमतविस्तारक भो भो ।
गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ६॥
नमतामिष्टद कुष्ठमुख महाकष्टहर भो भोः ।
गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ७॥
ममता भक्तजने सुत इव जाग्रति ते भो भोः ।
गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ८॥
स्तवनं कृष्णावधूतरचितं यः पठतीदम् ।
गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ९॥
इति श्रीकृष्णावधूतविरचिते श्रीराघवेन्द्रतन्त्रे नवमपटले
संसारोद्धरणस्तोत्रं नाम पञ्चमोऽध्यायः सम्पूर्णः ।
Proofread by Gopalakrishnan, PSA Easwaran