श्रीरामानुजसुप्रभातम्

श्रीरामानुजसुप्रभातम्

श्रीवादिभीकरगुरुभिरनुगृहीतं ॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीवादिभीकरगुरवे नमः ॥ जय जय यतिसार्वभौमामलस्वान्त ! तुभ्यं नमः जय जय जनिसिन्धुमग्नात्मसन्तारकग्रामणीः ! । जय जय भजनीय ! कूरेशमुख्यैः प्रसीद प्रभो ! जय जय विदुषां निधे ! जागृहि श्रीनिधे ! जागृहि ॥ १॥ पूर्णार्यपूर्णकरुणापरिलब्धबोध ! वैराग्यभक्तिमुखदिव्यगुणामृताब्धे ! । श्रीयामुनार्यपदपङ्कजराजहंस ! रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ २॥ आनेतुमद्य वरदस्य गजाद्रिभर्तुः पानीयमच्छमतिशीतमगाधकूपात् । ध्वान्तं निरस्तमरुणस्य करैस्समन्तात् रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ३॥ श्रीरङ्गराजपदपङ्कजयोरशेष- कैङ्कर्यमाकलयितुं सकुतूहलस्त्वम् । उत्तिष्ठ नित्यकृतिमप्यखिलां च कर्तुं रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ४॥ त्वां वीक्षितुं समुपयाति वृषाचलेन्द्रः त्वत्सम्प्रक्लृप्तवरशङ्खरथाङ्गपाणिः । संयोजितामुरसि मां भवतैव बिभ्रत् रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ५॥ श्रीमत्कुरङ्गपरिपूर्णविभुस्त्वदुक्तं श्रीभाष्यशास्त्रममलं त्वयि भक्तियुक्तः । श्रोतुं समिच्छति यतीन्द्र ! सितोर्ध्वपुण्ड्रः तं बोधयार्थमखिलं तव सुप्रभातम् ॥ ६॥ श्रीभाष्यमालिखितुमात्तविशाललेख्यः श्रीवत्सचिह्नगुरुरानतदिव्यगात्रः । वेदान्तसूत्रमपि वक्तुममुष्य सर्वं उत्तिष्ठ लक्ष्मणमुने ! तव सुप्रभातम् ॥ ७॥ श्रीमान् स पूर्णवटुरादरतः प्रगृह्य श्रीपादुकां यतिपते ! पदयोः प्रयोक्तुम् । द्वारि स्थितिं वितनुते प्रणतार्तिहारिन् ! रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ८॥ काषायवस्त्रकटिसूत्रकमण्डलूंश्च श्रीदन्तकाष्ठमपि देशिकसार्वभौमाः । पाणौ निधाय निवसन्ति विशुद्धगात्राः रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ९॥ त्वां बोधयन्ति गुरवः प्रथिता महान्तः श्रीवैष्णवाश्च यमिनस्तव पादभक्ताः । एकान्तिनश्च विमलास्त्वदनन्यभावाः तान् पालयाद्य यतिशेखर ! सुप्रभातम् ॥ १०॥ ब्राह्मे प्रबुध्य विबुधाः स्वगुरून् प्रणम्य रामानुजाय नम इत्यसकृत् ब्रुवाणाः । अष्टाक्षरं सचरमं द्वयमुच्चरन्ति रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ ११॥ प्रातः पठन्ति परमद्रविडप्रपन्न गायत्रिमन्त्रशतमष्टशिरस्कमच्छम् । श्रीवैष्णवास्तव पदाब्जनिविष्टभावाः रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १२॥ आराधनं रचयितुं कमलासखस्य श्रीयादवाचलपतेः विविधोपचारैः । पातुं च दृष्टिकमलेन नतानशेषान् रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १३॥ ससेव्य ! सप्तशतसंयमिसार्वभौमैः सद्देशिकैः सकलशास्त्रविदां वरिष्ठैः । एकान्तिभिः परमभागवतैर्निषेव्य ! रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १४॥ गद्यत्रयं निगमशेखरदीपसारौ वेदार्थसङ्ग्रहमपि प्रथितं च नित्यम् । गीतार्थभाष्यमपि देशिकपुङ्गवानां दातुं प्रसीद यतिशेखर ! सुप्रभातम् ॥ १५॥ पादाम्बुजं यतिपते ! शरणं विहर्तुं सङ्गत्य संसरणवारिविलङ्घनोत्काः । आयान्ति हस्तकमलाभिधृतोपचाराः तान् पाहि करुणया तव सुप्रभातम् ॥ १६॥ स्नातुं कवेरतनयासलिलेषु शिष्यैः आचार्यपूरुषवरैः यतिभिर्विशुद्धैः । श्रीवैष्णवैश्च सह सेव्य ! महानुभावैः रामानुजार्य ! भगवन् ! तव सुप्रभातम् ॥ १७॥ रामानुजार्य ! रमणीयगुणाभिराम ! रागादिदूरगगुरो ! गुरुसार्वभौम ! । सत्त्वप्रधान ! शरणागतवत्सल ! त्वत्पादाब्जयोरिह परत्र च किङ्करः स्याम् ॥ १८॥ इति श्रीवादिभीकरगुरुभिरनुगृहीतं श्रीरामानुजसुप्रभातम् । ॥ श्रीवादिभीकरगुरवे नमः ॥ Proofread by Aruna Narayanan
% Text title            : Shri Ramanuja Suprabhatam
% File name             : rAmAnujasuprabhAtam.itx
% itxtitle              : rAmAnujasuprabhAtam (vAdibhIkaragurubhiranugRihItaM)
% engtitle              : rAmAnujasuprabhAtam
% Category              : deities_misc, stotra, gurudev, suprabhAta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : Ramanujastotraratnavali, Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya)
% Indexextra            : (Scans 1, 2)
% Latest update         : December 25, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org