श्रीरामानुजवैभवहेतुश्लोकः
श्रीवरदविष्णुमहागुरुभिरनुगृहीतः श्रीरामानुजवैभवहेतुश्लोकः (१)
॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीवात्स्यवरदविष्णुमहागुरवे नमः ॥
यस्मिन् पदं यतिवरस्य मुखात् प्रणेतुः
निष्कामदेव विदधे निगमान्तभाष्यम् ।
तस्यैव तं भगवतः प्रियभागिनेयं
वन्दामहे वरदविष्णुपदाभिधेयम् ॥
Footnote
(१) कदाचित् श्रीरामानुजपदाश्रयाः विद्वांसः
``श्री भगवद्रामानुजस्य महिम्नः को हेतुः ?'' इति
श्रीभगवद्रामानुजप्रियभागिनेयं (श्रीभगवद्रामानुजमुनेः कनीयस्याः
भगिन्याः कमलानाम्न्याः कुमारं) ``सत्कुर्वता संसदि शिष्यवर्गान्
अनन्यलभ्यैरखिलैः स्वचिह्नैः । श्रीभाष्यसिंहासनमात्मनीनं यस्मै
च दत्तं यतिशेखरेण ॥'' इत्यादिकविगिरा वर्ण्यमानविभवं
श्रीवात्स्यवरदविष्ण्वार्यमहागुरुं अपृच्छन् । तदानीं तेन अनेन
श्लोकेन तेषामुत्तरमुक्तमिति सम्प्रदायविदः ॥)
श्रीमद्रङ्गपतिश्च वेङ्कटपतिः श्रीवारणाद्रेः पतिः
श्रीयद्वद्रिपतिश्च केचन तथा दिव्यस्थलाधीश्वराः ।
आचार्यश्च स यामुनो मुनिवरः श्रीशैलपूर्णस्तथा
श्रीरामानुजसंयमीन्द्रगुरवे तादृक्प्रसादं ददुः ॥ १॥
इति श्रीवरदविष्णुमहागुरुभिरनुगृहीतः श्रीरामानुजवैभवहेतुश्लोकः ।
श्रुत्यन्तद्वयपीठदेशिकमणिः श्रीवत्सवंशाग्रणीः
श्रीरामानुजभागिनय इति यः ख्यातः क्षमामण्डले ।
स श्रीहस्तिगिरीशसेवनपरः प्रत्यस्तबाह्यागमः
माहाकारुणुकिर्गुणैः वरदविष्ण्वाख्योचितैरेघते ॥
॥ श्रीवात्स्यवरदविष्णुमहागुरवे नमः ॥
Proofread by Aruna Narayanan