रामकृष्णप्रणतिः
ब्रह्मानन्दं शिवं शान्तं प्रेमरूपं निरञ्जनम् ।
योगीशमद्भुतं नित्यमखण्डाद्वैतलक्षणम् ॥ १॥
विज्ञानं त्रिगुणातीतं तुरीयाभेदसंज्ञितम् ।
सुबोधं सारदं चैव विवेकशशिभूषणम् ॥ २॥
समन्वयमहाचार्यं युगधर्मस्वरूपिणम् ।
सर्वदेवस्वरूपं श्रीरामकृष्णं नमाम्यहम् ॥ ३॥
इति रामकृष्णप्रणतिः समाप्ता ।
Proofread by Aruna Narayanan