श्रीरामकृष्णस्तोत्रम्
दीनानाथः सदानन्दो भ्राजमानो स्वतेजसा ।
कलिदोष समाक्रान्त समुद्धरण वाञ्छया ॥ १॥
महाशक्तिं समाश्रित्य त्वमागतो निजेच्छया ।
नमोऽस्तु गुरवे तुभ्यं रामकृष्ण स्वरूपिणे ॥ २॥
यो रामः स हि कृष्णस्तु त्वय्यभेदः प्रदृश्यते ।
लोकशिक्षा प्रदानार्थमागतस्त्वं महीतले ॥ ३॥
करुणार्णव भो देव ! गृहाण प्रणताञ्जलिम् ।
नास्त्यस्माकं धनं किञ्चित् तुभ्यं यद्दीयते पुनः ॥ ४॥
विष्णवे रामकृष्णाय रामकृष्णाय विष्णवे ।
नमस्तुभ्यमभेदात्मन् पुनः पुनर्नमो नमः ॥ ५॥
अहो तवायं महिमा महात्मन्,
समग्रलोके सदया हि दृष्टिः ।
रूपं तवेदं करुणार्द्रचित्तं
रजस्तमोनाशकरं जनानाम् ॥ ६॥
इच्छास्माकं तव चरणयोः सन्निपातो महात्मन्,
संसाराब्धेस्तरणकरणं रामकृष्णाख्य देव! ।
किन्त्वेतेषामति गुरुतरं मानसं शत्रुपक्षं
शीघ्रं नो भो शमय शमय प्रार्थना नेष्टमन्यत् ॥ ७॥
हे योगिंस्त्वं परमपुरुषो दृश्यसे सुप्रसन्नो
निष्पन्दं ते नयनयुगलं पश्यतामाशु भक्तिम् ।
सम्मूढानां जनयति मुहुः किं पुनः सात्त्विकानां
स त्वं मुक्तो नयनपथगो रामकृष्णोह्यमीषाम् ॥ ८॥
हे रामकृष्ण ! युक्तात्मन् ! वामाङ्गं प्रकृतिस्तव ।
साऽपि योगविशुद्धात्मा शारदानामधारिणी ॥ ९॥
युवयोर्दृष्टिमात्रेण भक्तिरव्यभिचारिणी ।
जायते प्रार्थनाऽस्माकं साधवी स्यान्मनो गतिः ॥ १०॥
मातः! पूज्या जगति सकलैर्भर्तृपादेवसन्ती
नित्यध्याना पतिगतमनाः शान्तशुद्धस्वभावा ।
धन्यास्मिस्त्वं करणनियमाज् ज्ञायसे देवतैव
आद्या माता जनहितकारी रामकृष्णेन सार्धम् ॥ ११॥
रचितमाशुतोषेन श्रीमता भक्तिसाधकम् ।
सङ्ख्यैकादश मात्रेण श्लोकस्तोत्रमिदं स्मृतम् ॥
इति पण्डित आशुतोषकाव्य-व्याकरण-स्मृतितीर्थ विरचितं
``श्रीरामकृष्ण स्तोत्रम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan