श्रीरामकृष्णसुप्रभातम्
धर्मस्य हानिमभितः परिदृश्य शीघ्रं
कामारपुष्कर इति प्रथिते समृद्धे ।
ग्रामे सुविप्रसदने ह्यभिजात देव
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ १॥
बाल्ये समाध्यनुभवः सितपक्षिपङ्क्तिं
संदृश्य मेघपटले समवापि येन ।
ईशैक्यवेदनसुखं शिवरात्रिकाले
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ २॥
नानाविधानयि सनातनधर्ममार्गान्
क्रैस्तादिचित्रनियमान् परदेशधर्मान् ।
आस्थाय चैक्यमनयोरनुभूतवांस्त्वं
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ ३॥
हे कालिकापदसरोरुहकृष्णभृङ्ग
मातुस्समस्तजगतामपि शारदायाः ।
ऐक्यं ह्यदर्शि तरसा परमं त्वयैव
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ ४॥
राखालतारकहरींश्च नरेन्द्रनाथं
अन्यान् विशुद्धमनसः शशिभूषणादीन् ।
सर्वज्ञ आत्मवयुनं त्वमिहानुशास्सि
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ ५॥
नित्यं समाधिजसुखं निजबोधरूपम्
आस्वादयन् तव पदे शरणागतांश्च ।
आनन्दयन् प्रशमयन्नुपतिष्ठसे त्वं
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ ६॥
स्वीकृत्य पापमखिलं शरणागतैर्यद्
आजीवनं बहुकृतं दयया स्वदेहे ।
तज्जातखेदनिवहं सहसे स्म नाथ
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ ७॥
प्रातः प्रणामकरणं तव पादपद्मे
संसारदुःखहरणं सुलभं करोति ।
मत्वेति भक्तिभरिताः प्रतिपालयन्ति
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ ८॥
गातुं स्तुतीस्तव जना अमृतायमानाः
सम्प्राप्य दर्शनमिदं तव पादयोश्च ।
धन्या नरेश भवितुं मिलितास्समीपं
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ ९॥
सन्दाय दर्शनसुखं शरणागतेभ्यो
मोहान्धकारमखिलं त्वमपाकुरुष्व ।
ज्ञानार्क भक्तिजलधे सकलार्तिहन्तः
श्रीरामकृष्णभगवन् तव सुप्रभातम् ॥ १०॥
आहैतुकीति करुणा किल ते स्वभावो
दुष्टाः कठोरहृदया अपि ते भजन्ते ।
त्वामेव सर्वजगतां जननि प्रपात्रि
श्रीशारदेश्वरि रमे तव सुप्रभातम् ॥ ११॥
सुप्तांस्तु भारतजनान् स्ववचःप्रहारै-
रुद्बोधयन् विवशयन् निजधर्ममार्गे ।
प्रोत्साहयन् परमतां प्रकटीकरोषि
वीरेशदत्तमहिमन् तव सुप्रभातम् ॥ १२॥
प्रातरुत्थाय यो देवं रामकृष्णं स्मरन् स्मरन् ।
स्तोत्रमेतत् पठेद्भक्त्या सोऽमृतत्वाय कल्पते ॥
इति श्रीहर्षानन्दस्वामिविरचितं श्रीरामकृष्णसुप्रभातं सम्पूर्णम् ।
The Sri Ramakrishna Suprabhatam was composed in 1966. The first
seven verses deal with certain incidents in Sri Ramakrishna's life.
Verses 8-10 deal with the eagerness of the devotees to have his
darshan in the early morning. Verses 11 and 12 are dedicated to
Shri Sarada Devi (the Holy Mother) and to Swami Vivekananda respectively.
The hymn ends with a phalashruti.
-Swami Harshananda (composer)
Sri Ramakrishna's birthday, 10-3-1978, Mysore
Encoded and proofread by Sridhar Seshagiri