श्रीरामकृष्णवन्दना
परहितरतचेता यो महात्मा गतासु-
र्दिशि दिशि जनवृन्दा यं भजन्ति स्मरन्ति ।
भुवि सुरगुरुकल्पं सर्वयोगेषु सिद्धं
निखिलमनुजबन्धुं रामकृष्णं नमामि ॥ १॥
ललित-सरल वाक्यं रम्यकान्तिं सुदृश्यं
कलुषरहित चित्तं शक्तिमत्तं विनम्रम् ।
सतत शमथपूर्णं ब्रह्मभावाभिमग्नं
निखिलमनुजबन्धुं रामकृष्णं नमामि ॥ २॥
अगणित गुणि शिष्यैः सार्द्धमासीनमेनं
हितमितवचनाढ्यं जीवसिद्ध्यै यतन्तम् ।
कृति मति भजनानां विग्रहं मूर्तमेकम् ।
निखिल मनुजबन्धुं रामकृष्णं नमामि ॥ ३॥
कलिकलुष विनाशं कालिका भक्तमीशं
त्रिभुवन भयनाशं मुक्तिवादानुरक्तम् ।
भुवि पुनरवतीर्णं रामकृष्णास्यमादौ
निखिलमनुजबन्धुं रामकृष्णं नमामि ॥ ४॥
इति श्रीअमरनाथमुखोपाध्यायविरचिता ``श्रीश्रीरामकृष्णवन्दना'' सम्पूर्णम् ।
Proofread by Aruna Narayanan