॥ श्रीरमणहृदयम् ॥

विषयानुक्रमणिका (श्लोकसंख्या) १ ग्रन्थावतरणम् । (१-३) २ मङ्गलम् । (४-५) ३ विवेकप्रकरणम् । (६-२७) ४ साधनप्रकरणम् । (२८-३४) ५ अनुभवप्रकरणम् । (३५-४५) ६ सत्सङ्गप्रकरणम् । (४६-५१) ७ अद्वैतप्रकरणम् । (५२-५७) ८ साधकाचारप्रकरणम् । (५८-६३) ९ उपासनाप्रकरणम् । (६४-७३) १० जीवन्मुक्तप्रकरणम् । (७४-७९) ११ परोक्षज्ञानप्रकरणम् । (८०-८५) १२ सिद्धान्तसारप्रकरणम् । (८६) ======================================== ॥ ॐ नमो भगवते श्रीरमणाय ॥ ॥ श्रीरमणहृदयम् ॥ ॥ ग्रन्थावतरणम् ॥ हृद्गेहेऽहमहन्तयाखिलवपुष्यन्तः स्फुरन् सर्वदा नैजानां निजतत्त्वरूपममृतं सन्दर्शयिष्यन् स्वयम् । प्रेम्णा स्वीकृतवानजो नरवपुर्योऽसौ गुरूणां गुरुः वन्दे श्रीरमणाभिधं मुनिवरं तं स्वात्मनाथं परम् ॥ १॥ प्रेम्णा यं रमणो मुनिर्व्यरचयद् ग्रन्थं निजानां मुदे द्राविड्या निजतत्त्वरूपममृतं सन्दर्शयन्तं स्फुटम् । तच्छक्त्या तमनूद्य कोऽपि विनतश्चक्रे तदीयः कृतिं गैर्वाण्या सरलामिमां रमणहृन्नाम्नीं मनश्शान्तये ॥ २॥ याऽगम्या वचसो धियोऽपि पदवी निर्वासना चिन्मयी गत्वा यां न निवर्तते मुनिवरस्तस्यां दिशन् निर्वृतिम् । सद्यश्चापि ददन्मुदं विजयते संविन्मयो भास्करः संसेव्यः सततं मुमुक्षुभिरयं ग्रन्थो मुनीशोदितः ॥ ३॥ ॥ मङ्गलम् ॥ अस्तीत्यस्मिन् कथं धीर्भवति यदि न सत् ? तद्विभिन्ना नु सच्चित् ? सत्यं निश्चिन्तनं तद्भवति हृदि यतस्तस्य हृन्नामकस्य । ध्याता को वास्ति भिन्नो ? भवति च तदिदं ध्यानगम्यं कथं तु ? तस्य ध्यानं हृदन्तः प्रशमितमनसा तन्मयत्वेन निष्ठा ॥ ४॥ मृत्योर्बिभ्यति ये भृशं सुमनसः, सर्वान्तरं ते शिवं यान्तीशं शरणं परं विरहितं मृत्युद्भवाभ्यां स्वयम् । साकं तन्ममताभिरेति निधनं तेषामहन्ता ततः स्यात् तेषां मरणस्य धीः किमु पदे नित्ये गतानां स्थितिम् ॥ ५॥ ॥ विवेकप्रकरणम् ॥ पश्यामो भुवनं यतो, भवति सत् तन्मूलमेकं परं यच्छक्तेः परिणामभूतमखिलं; नैतद्विवादास्पदम् । आख्यारूपमयं च चित्रमिदमप्याधारवस्त्रं द्युतिः द्रष्टा चेति चतुष्टयं स परमो यः स्वात्मभूतो हृदि ॥ ६॥ विश्वं जीवपरौ वदेत् प्रथमतः सर्वं जगत्यां मतं एकं सत् त्रिविधं प्रतीयत इति, त्रीण्येव तानीत्यपि । वादौ यावदहं मतिर्वपुषि; तां हित्वा तु सम्मोहिनीं स्वस्मिन्नेव पदे स्थितिर्भवति या सर्वोत्तमा सैव हि ॥ ७॥ वादैः किं भविता जगद्भवति सन्मिथ्याभ्रमश्चिज्जडं आनन्दं ननु दुःखमेव तदिति ? त्यक्त्वा समस्तं जगत् । स्वात्मानं समवेत्य सत्यममलं द्वैतैक्यवादातिगे याहन्तारहिता स्थितिर्निजपदे सर्वादृता सैव हि ॥ ८॥ रूपी स्वो यदि रूपमस्तु जगतो रूपं परस्याप्युत वीक्षा केन कथं च रूपरहितः स्वात्मा यदि स्याद्वद ? । दृश्यं किं नु दृशोऽन्यथा वद भवेद् ? दृक् सा स्व एवं स्वयं निस्सीमा निरुपाधिका चितिमयी सा निष्प्रपञ्चाद्वया ॥ ९॥ देहो यन्निखिलस्य चापि भुवने स्यात् पञ्चकोशात्मकः कोशानामपि पञ्चकं तत इदं देहाभिधानं भवेत् । सत्येवं वद देहतः किमु जगद्भिन्नं भवेत् तत्त्वतः ? किं केनापि च वीक्षितं जगदिदं देहं विना प्रोच्यताम् ॥ १०॥ शब्दादीन् विषयान् विहाय जगतो रूपं भवेन्नो पृथक् एवं धीन्द्रियपञ्चकस्य विषयो निश्शेषमेतज्जगत् । एतैः पञ्चभिरिन्द्रियैर्जगदिदं ह्येकं मनो बुध्यते सत्येवं मनसो जगत् कथय किं भिन्नं भवेत् तत्त्वतः? ॥ ११॥ विश्वं बुद्धिरिति द्वयं समुदियाल्लीयेत चाप्येकवत् एवं सत्ययि भास्यते जडमिदं विश्वं धियैवाखिलम् । यस्मिंस्तद्द्वितयस्य जन्मविलयौ भास्वत्यनस्तोदये सज्जानीहि तदेव पूर्णममलं चिद्रूपकं केवलम् ॥ १२॥ रूपे कुत्रचिदाख्ययापि च कयाऽप्याराधनं भक्तितो रूपाख्यारहितस्य यद्यपि भवेत् तस्येक्षणाय क्रमः । तत्त्वे तस्य निजं च वीक्ष्य विलयं गत्वापि तस्मिन् परे तेनाभिन्नतया स्थितिर्निजपदे वीक्षा भवेत् तत्त्वतः ॥ १३॥ संश्रित्य प्रभवन्त्यहम्मतिमिमां सर्वास्त्रिपुट्यस्तथा द्वन्द्वान्यप्युत सम्भवन्ति; तदहन्नामा भवेत् को न्विति । अन्वेषाद् हृदयं प्रविश्य यदि तत्तत्त्वं समालोकयेत् सर्वं तद्विगलेत् स्वयं, स च भवेज्ज्ञानी, स नैति भ्रमम् ॥ १४॥ अज्ञानान्न पृथक् कदापि जगति ज्ञानं भवेत् कुत्रचित् नाज्ञानं च कदापि कस्यचिदपि ज्ञानात् पृथक् सम्भवेत् । अन्वेषादहमित्ययं भवति को यस्योभयं स्यादिति मूलात्मावगतिः स्वयं समुदिता ज्ञानं भवेन्नेतरत् ॥ १५॥ ज्ञातारं स्वमजानतोऽन्यविषयज्ञानं भवे यद्भवेत् ज्ञानं तद्भविता कथं नु कथय? ज्ञानस्य चान्यस्य च । आधारोऽहमितीह यो भवति, तत्तत्त्वं विजानाति चेत् अज्ञानेन समं तदा प्रविलयं तानं च गच्छेदिदम् ॥ १६॥ ज्ञानाज्ञानविवर्जितं भवति यज्ज्ञानं विजानीहि तत् ज्ञानं वैषयिकं त्ववेहि किमपि ज्ञानं यथार्थं न हि । ज्ञातृज्ञेयविवर्जितो विलसति ह्यात्मा सदैकः स्वयं ज्ञानात्मैव भवत्यसौ; न स भवेच्छूत्यात्मकः कर्हिचित् ॥ १७॥ आत्मा ज्ञानमयो य एष गदितस्सत्यस्स एवाद्वयो ज्ञानं नाम बहुप्रकारमिदं त्वज्ञानमेवाखिलम् । स्वस्माज्ज्ञानमयात् सतस्त्वसदिदं नो भिद्यते कर्हिचित् नानासन्त्यपि भूषणानि कथय स्वर्णात् सतोऽन्यानि किम्? ॥ १८॥ भाति त्वं स इति द्वयं, समुदिताहधीः शरीरे यदा तत्त्वं किं न्वहमो ममेदिति धिया स्वान्वेषणेन स्वयम् । नीतेऽस्मिन्निधनं, समं तदितरप्रज्ञे ततो नश्यतोः यद्भात्येकतया तदा, गणय तत् तत्त्वं भवेदात्मनः ॥ १९॥ संश्रित्यैव हि वर्तमानमुभयं भूतं भविष्यत् स्थितं स्वे कालेऽपि च वर्तमानमुभयं; तद्वर्तमानं त्रयम् । सत्येवं प्रविहाय बोधमधुना सद्वस्तुनोऽन्वेषणात् भूतागामविचारणं गणनवत् स्यादेकसङ्ख्यां विना ॥ २०॥ कालो देश इमौ पृथक् किमहमो?ऽधीनास्तयोः स्मो वयं देहाः स्याम यदि स्वयं; किमु वयं देहा भवामो वद । सर्वत्रापि च सर्वदापि च विभात्यात्मा समानो यतः तस्मात्सन्तमवेहि केवलममुं तौ द्वौ निगीर्य स्थितम् ॥ २१॥ स्वो देहो भवति द्वयोरविदुषो विज्ञाततत्त्वस्य च स्वं देहावधिकं पृथक् परविभोरज्ञो जनो मन्यते । ज्ञस्य स्वो वपुषोऽन्तरहितोऽभिन्नः परस्माद्विभोः भात्येवं महती भिदास्ति हि तयोः स्वज्ञस्य चाज्ञस्य च ॥ २२॥ सत्यं ह्येव जगद्वयोरविदुषो विज्ञाततत्त्वस्य च सत्यं यावदिदं जगत् तु मनुते सज्ज्ञानहीनो जनः । ज्ञस्याकारविहीनमस्य निखिलस्याधारभूतं हि सत् भात्येवं महती भिदास्ति हि तयोस्सज्ज्ञस्य चाज्ञस्य च ॥ २३॥ मध्ये दैवधियोर्जयं प्रति भवेत् तेषां विवादे रतिः धीदैवद्वितयस्य मूलमहमित्येकं न जानन्ति ये । अन्वेषादवगत्य तत्त्वमहमस्ताभ्यां विमुक्तो मुनिः संसक्तो भविता तयोः किमु पुनः स्वज्ञानहीनो यया ॥ २४॥ द्रष्टारं स्वमुपेक्ष्य पश्यति नरो रूपं परेशस्य चेत् सा रूपस्य मनोमयस्य हि भवेद्वीक्षा न सत्या विभोः । तत्त्वं स्वं किमु न प्रपश्यति परं त्वस्येक्षको वा मुनिः? नष्टाहङ्कृतिरेष किञ्चिदपि नो भिन्नः परस्माद्विभोः ॥ २५॥ वीक्षा स्वस्य परस्य चेति गदितं ग्रन्थेषु वीक्षाद्वयं तत्तत्त्वं किमिति ब्रवीमि; घटते वीक्षा कथं न्वात्मनः? । एकत्वान्न स वीक्ष्यते यदि, परं वीक्षेत को वा कथं? ईशस्यौदनभावमेव गणय स्वेक्षां परेक्षामपि ॥ २६॥ चैतन्यद्युतिमेष चिन्मयतनुर्मत्यै प्रयच्छन् स्वयं आत्मत्वेन सदैव भाति हि मतेरन्तस्तुरीयश्शिवः । तत् तस्मिन् विनियोजनं हृदि मतेरन्तर्मुखीकृत्य तां हित्वा तं प्रभवेत् कथं वद परं मत्यैव मन्तुं नरः ॥ २७॥ ॥ साधनप्रकरणम् ॥ चैतन्येन विवर्जितं वपुरिदं नाहङ्करोति स्वयं ब्रूते नैव कदापि कोऽपि भुवने नासं सुषुप्ताविति । सर्वं चाप्युदियादिदं समुदिते त्वस्मिन्नहन्नामके तद्बुद्ध्या शितया कुतोऽयमुदियादित्येवमन्वेषय ॥ २८॥ ब्रूयान्नाहमिति स्वयं जडवपुः, सत्या चितिर्नोदियात् तन्मध्ये तु वपुः प्रमाणमहमित्याविर्भवेत् किञ्चन । एतद्ध्येव भवेन्मनो जडचितोर्ग्रन्थिर्भवोऽहङ्कृतिः बन्धः सूक्ष्मशरीरमेतदुदितं जीवस्य तत्त्वं स्वयम् ॥ २९॥ धृत्वा रूपमुदेति च स्थितिमुत प्राप्नोति रूपग्रहात् धृत्वा रूपमुतोपभुज्य विषयानुच्चैस्तमां वर्धदे । *संसारे बत वर्धते च नितरां रूपाशनो नित्यशः । - इति पाठान्तरः हित्वा रूपनुपाददीत नवमप्यन्विष्यते चेत् तदा धावेद्रूपविहीन एष सहसाहन्तापिशाचो ध्रुवम् ॥ ३०॥ एतस्मिन्नहमाख्यके समुदिते सर्वं जगच्चोदियात् नो चेदस्त्यहमित्ययं न च भवत्येतज्जगत् किञ्चन । तत्सर्वं ह्यहमाख्यकः स्वयमतः कोऽसौ कुतस्सम्भवेत् इत्येवं निजमार्गणं भवति यत् तत् सर्वहानं भवे ॥ ३१॥ तत्र स्याम हि तद्वयं भवति नो यत्रोदयोऽहङ्कृतेः चेतस्तु प्रविशेदहञ्जनिभुवं नो चेदहन्ता कथम् । नीयेतापुनरुद्भवां मृतिमियं नीता तथान्तं न चेत् साध्या नस्सहजा स्थितिः कथमसौ यस्यां वयं तत् स्वयम्? ॥ ३२॥ यत्किञ्चित् सलिलाशये निपतितं चिन्वन्निमज्जेद्यथा तद्वद्वागनिलौ नियम्य जगतश्चिन्तां विहायाखिलाम् । अन्वेषादुदियात् कुतोऽहमिति धीरित्येवमेकाग्रया बुद्ध्यान्तर्हृदये निमज्ज्य विमलं विद्यात् स्वतत्त्वं परम् ॥ ३३॥ रुध्वा वाङ्मनसी उभे, चितिरहंरूपा क्व भातीत्यलं बुद्ध्यान्विष्य निमज्जनं हृदि निजज्ञानाप्तये साधनम् । देहो नायमहं स्वयं तदहमित्येवं निदिध्यासनं अन्वेषाङ्गमवेहि; किं नु भविता सोऽयं विचारो निजः? ॥ ३४॥ ॥ अनुभवप्रकरणम् ॥ कोऽहं स्यामिति मार्गणोद्यमवशादन्तर्मुखे मानसे हृल्लीने सति, लज्जया नतमुखे चास्मिन्नहन्नामके । चैतन्यं विमलं तदाहमहमित्याभाति किञ्चित् स्वयं मिथ्याहं न हि तत्, सदेव परमं पूर्णं स्वतत्त्वं शिवम् ॥ ३५॥ कर्तव्यं किमिहास्त्यमुष्य कृतिनोऽहन्तां ग्रसित्वोदिते भावे स्वे मुदितस्य तन्मयतया शान्ते तुरीये शिवे । स्वान्यत् किञ्चन वेत्ति नो निजपदे निष्ठां गतोऽसौ यतो मन्तुं तां पदवीं नरो वद कथं निर्मानसीं शक्नुयात्? ॥ ३६॥ निष्ठां तत् त्वमसीति वेदशिरसा दिष्टामलब्ध्वा निजां कोऽहं स्यामिति मार्गणेन हृदयं बुद्ध्या प्रविश्य स्वयम् । धीर्दौर्बल्यवशात् करोति मनुजो ध्यानं तदेवास्म्यहं नो देहोऽहमिति; स्वयं तदनिशं भात्यात्मरूपेण हि ॥ ३७॥ हासार्हं भवति द्वयं च, गदितं जाने न मामित्यहं जाने मामिति चोदितं; विषयतां स्वस्यैव नेतुं स्वयम् । आत्मानं, किमु कत्यचिद्वद भवेदात्मद्वयं कुत्रचित्? आत्मैको भवतीति विद्ध्यनुभवाल्लोके समस्तस्य च ॥ ३८॥ आत्मत्वेन समस्तजन्तुषु सदा सत्यं हृदन्तः स्फुरत् अन्वेषादवगत्य तन्मयतया निष्ठामलब्ध्वा निजाम् । सत् किञ्चिद्भवतीति नेति तदिदं रूपीति नेत्येककं द्वेधा नोभयथेति वा विवदते मायाभिभूतो जनः ॥ ३९॥ सिद्धं स्वं समवेत्य तन्मयतया निष्ठा भवेद्या निजा सिद्धिस्सैव हि; सिद्धयस्तदितराः स्वप्नोपलब्धा इव । स्वप्नार्थः किमु सन् प्रबोधसमये? मुक्तोऽनृतादन्ततो निष्ठामेत्य सति स्वयं मुनिवरः किं तासु मोहं व्रजेत् ॥ ४०॥ देहोऽस्मीत्युदियान्नरस्य धिषणा यावत् तु नाहं वपुः तद्ध्यस्मीत्यनुचिन्तनं हितकरं तादात्म्यनिष्ठाप्तये । कुर्याद् ध्यानमिदं किमर्थमनिशं? ध्यायेन्नरोऽस्मीति किं लोके कोऽपि नरो? वयं हि सततं सत्यं तदेव स्वयम् ॥ ४१॥ यावत्साधकता नरस्य भवति द्वैतं यथार्थं भवेत् साध्ये त्वद्वयतेति चापि गदितं नो सत्यमुक्तं भवेत् । अन्विष्यन्नपि सादरं च दशमं नष्टत्वबुद्ध्या स्वयं स्वं लब्ध्वापि च को बभूव दशमादन्यः कथायामसौ ॥ ४२॥ कर्तात्मा स्वयमेव चेत् कृतिफलं भुञ्जीत सोऽयं स्वयं कर्ताहं क इति स्वमार्गणवशाज्जानाति चेत् स्वं विभुम् । कर्तृत्वं विगलेद्यतो, विगलितं तेनैव साकं भवेत् कर्मापि त्रिविधं स्वयं; स्थितिमिमां नित्यां विमुक्तिं विदुः ॥ ४३॥ बद्धोऽस्मीति मतिर्भवेद्यदि तदा मुक्तेर्मतिश्चोदियात् बद्धोऽहं क इति स्वमार्गणवशात् स्वे नित्यमुक्ते स्वयम् । शिष्टे सत्यजरेऽमरे वद भवेद्बन्धस्य चिन्ता कथं? सा नो चेदिदुयात्, तदास्य कृतिनो मोक्षस्य चिन्ता कथम् ॥ ४४॥ मुक्ती रूपवतीति रूपरहिता सेति द्विधा सेत्यपि वादा ये मतिभेदतोऽत्र विषये तत्त्वं ब्रवीमि स्फुटम् । योऽहन्नामक एवमत्र विमृशेद्वादेषु तत्त्वं मुधा तस्यात्यन्तिकनाश एव भविता तत्त्वं विमुक्तेः स्वयम् ॥ ४५॥ ॥ उत्तरभागः ॥ ॥ मङ्गलश्लोकः ॥ यस्मिन्नेव भवेत् स्थितं जगदिदं यस्यैव सर्वं जगत् यस्मात्सर्वमिदं भवेत्समुदितं यस्मै समस्तं भवेत् । येनेदं निखिलं जगत् समुदियात् सर्वं यदेव स्वयं सत्यं गुप्तधनं तदेव हृदये तत्सत् परं धीमहि ॥ ४६॥ ॥ सत्सङ्गप्रकरणम् ॥ सत्सङ्गस्य निषेवणेन मनुजो निस्सङ्गतां प्राप्नुयात् निस्सङ्गत्ववशादसावुत मनोमोहेन मुक्तो भवेत् । निर्मोहत्वमुपैति चेदथ परे गत्वा लयं निश्चले जीवन्मुक्तिपदं व्रजेदनुपमं सेवस्व तत्सङ्गतिम् ॥ ४७॥ साध्यं यत् परमं पदं सुखमयं मर्त्यैर्विचारान्निजात् सत्सङ्गाभ्यसनोदिताच्छितधिया हृन्मज्जनापादनात् । शास्त्रार्थाधिगमेन नो भवति तन्नो बोधकोक्तिश्रुतेः नो पुण्यैरपि कर्मभिर्बहुविधैरन्यैश्च नो साधनैः ॥ ४८॥ सद्भिस्सङ्गतिमादरेण मनुजः सेवेत यो भाग्यवान् एतैः किं नियमैरमुष्य निखिलैर्निःश्रेयसप्राप्तये । शीतो दक्षिणमारुतो वहति चेत् सन्तापशान्ति दिशन् हस्तेन व्यजनं विधृत्य भविता किं ब्रूहि कार्यं पुनः ॥ ४९॥ तापं केवलमेकमेव शमयेन्नॄणां हिमांशुस्तथा दैन्यं कल्पकपादपो दिविभवः पापं तथा जाह्नवी । साधूनामवलोकनात् त्रयमिदं तापादिकं यास्यति नो तेषामुपमास्ति कापि सदृशी लोकत्रये कुत्रचित् ॥ ५०॥ तीर्थान्यम्बुमयानि नैव महतां तुल्यानि तेषां कदा- प्येवं दैवतमूर्तयोऽप्युपलमृन्मात्राश्च सम्पूजिताः । तैर्मर्त्योऽमितकालतो विमलतां प्राप्नोति भक्त्या युतः साधूनामवलोकनेन मनुजः सद्यो भवेन्निर्मलः ॥ ५१॥ ॥ अद्वैतप्रकरणम् ॥ को देवः सयाद्यो मनो वेत्ति सोऽयं जानाम्येतज्जीवनामाहमेव । तस्मात् स त्वं; वक्ति साक्षाच्छ्रुतिश्चा- ष्येको देवः सर्वभूतेष्वपीति ॥ ५२॥ किं ज्योतिस्तव भानुमानहनि मे रात्रौ प्रदीपादिकं किं ज्योतिस्तदवेक्षणाय नयनं तस्येक्षणे किं मनः । तस्येक्षा वद केन तत् स्वयमहं पश्यामि तज्ज्योतिषां ज्योतिस्त्वं भवसि स्वयं विभु परं सत्यं तदेवास्म्यहम् ॥ ५३॥ हृदयकुहरमध्ये केवलं ब्रह्ममात्रं ह्यहमहमिति साक्षादात्मरूपेण भाति । हृदि विश मनसा स्वं चिन्वता मज्जता वा पवनचलनरोधादात्मनिष्ठो भव त्वम् ॥ ५४॥ अमलाप्यचलाहमित्यजस्रं विलसन्ती हृदयाम्बुजे चिदेव । वितरेत् पदवीं स्वयं विमुक्तेः यदि जह्यान्मनुजो वपुष्यहन्ताम् ॥ ५५॥ देहं मृण्मयवज्जडात्मकमहम्बुद्धिर्न तस्यास्ततो नाहं तत्तदभावसुप्तिसमये सिद्धात्मसद्भावतः । कोऽहम्भावयुतः कुतो वरधिया दृष्ट्वात्मनिष्ठात्मनां सोऽहंस्फूर्तितयारुणाचलशिवः पूर्णो विभाति स्वयम् ॥ ५६॥ लेभे जनिं यः परमे स्वमूले विचार्य कस्मादहमित्युदारः । स एव जातः स च नित्यजातो नवो नवोऽयं सततं मुनीन्द्रः ॥ ५७॥ ॥ साधकाचारप्रकरणम् ॥ हिस्वाहधियमत्र दोषनिलये देहे जडेऽनात्मनि नित्यानन्दमयं स्वतत्त्वममलं जानीहि सच्चिन्मयम् । यो मर्त्यो वपुषस्तु पोषणरतो ज्ञातुं स्वमिच्छत्यसौ ग्राहं दारुधिया प्रगृह्य सरितं पुंसस्तितीर्षोस्समः ॥ ५८॥ यो देहात्ममतिक्षयो भवति तद्दानं च यज्ञस्तपो धर्मः सत्यवचः परेशकरुणा योगोऽपि भक्तिः परा । न्यासो मौनमपि स्थितिश्च सहजा कामार्थमोक्षा अपि शान्तिर्द्यौमृतिवर्जितं च मरणं ज्ञानं च सत्यं स्वयम् ॥ ५९॥ कस्यैतानि कृतिर्विभक्तिरपि चाज्ञानं वियोगोऽपि च सन्तीत्यात्मविचार एव भविता कर्मादियोगक्रमाः । यस्यां नास्ति विचारकोऽहमिधो न स्यादिदं चाष्टकं सा सत्या स्थितिरित्यवेहि विमला स्वात्मानुभूतिः शिवा ॥ ६०॥ स्वं शक्त्या परमस्य चालितमविज्ञायोद्यतो योऽखिलाः सिद्धीः साधयितुं स एव मनुजो यद्वत् स पङ्गुर्नरः । योऽवादीद्भविता श्रमो मम कियानेतान् विजेतुं रिपून् मामुत्थाप्य निवेशयेर्यदि रणे तेषां पुरस्तादिति ॥ ६१॥ या शान्तिर्मनसः स्वयं भवति सा मुक्तिर्बुधैः कीर्तिता या पारैर्मनसोऽधिकैर्भवति यल्लाभस्तु तास्सिद्धयः । ता लब्धुं जडधीर्यतेत मनुजो यस्तेन लभ्यं कथं स्यान्मुक्तेस्सुखमन्तहीनममलं चित्तोपशान्त्यात्मकम् ॥ ६२॥ परे वहति भूभरं भरमिदं मृषाजीवको वहन् भवति गोपुरोद्वहनबिम्बतुल्यो ह्यसौ । भरं शिरसि धारयन्नतिभरक्षमेणानसा व्रजन् भजति चेद्व्यथां भवति तत्र को दोषवान् ॥ ६३॥ ॥ उपासनाप्रकरणम् ॥ उपरि च जठरादुरसो मध्ये बहुवर्णकेषु षट्स्वेकम् । कुवलयकलिकासदृशं दक्षिणभागेऽङ्गुलद्वये हृदयम् ॥ ६४॥ आवृतमस्ति तदास्यं वियति तदन्तर्भवति नाड्यश्च । तमसोऽपि वासनानां भवनमिदं प्राणचित्तदीप्तीनाम् ॥ ६५॥ गुहेशाख्योऽसौ यो निवसति गुहायां हृदि परः स एवास्मीत्येवं सततमननात् सोऽहमिति चेत् । मतिः स्थैर्यं गच्छेद्वपुरहमिति प्रत्यय इव तदाज्ञानं नश्येत् तम इव पुरस्ताद्दिनमणेः ॥ ६६॥ मुकुरे बिम्बितमिव यस्यान्तः विलसति बहिरिव जगदिदमखिलम् । सर्वेषामपि हृदयाख्यं तत् किं न्विति पृच्छति रामे भगवान् ॥ ६७॥ आह वसिष्ठो हृदय द्वेधा हेयं चादेयमिति ज्ञेयम्? देहस्याङ्गं पलमयमेकं जीरज्जडमपि हेयं ज्ञेयम् ॥ ६८॥ अन्यत् प्रज्ञामयमादेयं हृदयं बिम्बितमखिलं यस्मिन् । बहिरन्तस्तन्न बहिर्नान्तः सम्पत्तीनां निधिरखिलस्य ॥ ६९॥ तस्मिन् मुख्ये हृदये निष्ठां गतवति चेतसि नैजविचारात् । भवति स्वयमपि निर्गन्धस्वं विरतिर्वायोरपि भवतीति ॥ ७०॥ सर्वोपाधिविमुक्तं यच्छिवमनिशं चिदात्मकं भाति । तत् स्वयमहमित्यनिशं ध्यात्वा निखिला व्यपोहयासक्तीः ॥ ७१॥ सर्वाश्चापि दशा विचार्य परमं यच्छेषितं सत्पदं तत् संश्रित्य कुरुष्व कर्म भुवने कामैर्गृहीतो यथा । भावानां समवैषि तत्त्वममृतं दृष्टिं समालम्ब्य तां इच्छाप्रेरितवत् प्रशान्तमनसा लोके क्रियावान् भव ॥ ७२॥ मिथ्योल्लासितहर्षभागचलधीर्मिथ्याधृतोद्वेगवान् मिथ्यागर्हणसम्भ्रमः कुरु मृषारम्भः क्रिया लौकिकीः । आशापाशशतैर्विमुक्तहृदयः सर्वत्र साम्यं वहन् लोके वेषसमानकर्मनिरतस्तिष्ठ त्वमज्ञो यथा ॥ ७३॥ ॥ जीवन्मुक्तप्रकरणम् ॥ आत्मानं समवेत्य नैजयदवीमास्थाय संविन्मयीं सन्त्यक्ताखिलवासनोऽभिरमते यस्तन्मयत्वे सदा । तं वीरं निजतत्त्वबोधकुलिशं संवित्कृशानुं तथा जानीयादुत कालकालमभवं मृत्योश्च मृत्युं स्वयम् ७४॥ गुणास्सुन्दरत्वादयो यान्ति वृद्धिं वसन्तस्य योगाद्यथा भूरुहस्य । तथा दृष्टतत्त्वस्य तेजो बलं धीः निजानन्दतृप्तस्य वर्धन्त एव ॥ ७५॥ शृण्वन्नेव यथा कथां न शृणुते दूरं गतश्चेतसा ज्ञानी तद्वदवासनेन मनसा कृत्वाप्यकर्ता भवेत् । चेतश्चेद्बहुवासनं बत नरः कर्तास्त्यकुर्वन्नपि देहे सत्यचलेऽपि पश्य पतति श्वभ्रे गिरेः स्वप्नदृक् ॥ ७६॥ याने सुप्तिमितस्य यानगमयं स्थानं च तस्य क्वचित् तस्यैवाश्ववियोजनं त्रयमिदं यद्वद्भवेदेकधा । सुप्तिं ज्ञानमयीं गतस्य विदुषो याने वपुष्येकधा तद्वत् स्यात् त्रितयं क्रियापि वपुषो निष्ठापि निद्रापि च ॥ ७७॥ जाग्रत्स्वप्नसुषुप्तिषु स्थितिजुषां यत् तुर्यमित्युच्यते जाग्रत्सुप्तिरितीरितं स्वविदुषः शान्तं पदं शाश्वतम् । सत्यं तद्धि पदं मृषेतरदिदं त्वाभासमात्रं त्रयं; तुर्यातीतमतस्तदेव मुनयः शंसन्ति संविन्मयम् ॥ ७८॥ कर्मागामि च सञ्चितं च विदुषो नष्टे भवेतां ध्रुवं, प्रारब्धं न तथेत्युदीरितमिदं ग्रन्थेषु मन्दान् प्रति । पत्न्येका न सुमङ्गली पतिमृतौ बह्वीषु यद्वद्भवेत् त्रेधा कर्म तथा विनाशमयते नाशं गते कर्तरि ॥ ७९॥ ॥ परोक्षज्ञानप्रकरणम् ॥ कुटुम्बं ह्येकैकं भवति सुतभार्यादिकमिह नृणामल्पज्ञानां; पटुतरधियां किन्तु विदुषाम् । कुटुम्बानि ग्रन्था अपि च हृदि योगस्य नितरां भवन्ति प्रत्यूहा; भवतरणमेषां वद कथम् ॥ ८०॥ लिपिज्ञोऽहन्नामा कुत इति निजान्वेषणधिया लिपिं स्वां निर्माष्टुं लिपिमधिगतो यो न यतते । लिपिज्ञानात् किं वा फलमधिगतं तेन कथय समो वाग्यन्त्रेणारुणगिरिविभोऽन्यो भवति कः ॥ ८१॥ अशान्तस्य क्लेशा विदुष इह ये सन्त्यविदुषो न ते सन्ति; ग्रस्तो न स मदपिशाचेन भवति । न वाक् चित्तक्लेशं भजति बहुमानार्थमटनं न कुर्यानैकस्मादवितमिह जानीहि तमिमम् ॥ ८२॥ तृणतुलिताखिलजगतां करकलिताखिलनिगमरहस्यानाम् । श्लाघावारवधूटीघटदासत्वं सुदुर्निरसम् ॥ ८३॥ स्वतो भवति कः परः? किमपि कोऽपि चेत्स्वं प्रति वदेद्भवति तेन किं? गदितवत् स्वयं तद्भवेत् । भिदामनधिगच्छतः स्व इति चान्य इत्यव्यये स्थितस्य सहजे पदे स्थिरतया परस्मिन् शिवे ॥ ८४॥ धिया कुरुष्व भावनां सतोऽद्वयस्य सन्ततं क्रियाद्वयत्वमाचर क्वचित्तु मैव संसृतौ । कुरुष्व भावनामिमां धियाखिले च पुत्रक गुरौ तु भावनामिमां कुरुष्व मैव कर्हिचित् ॥ ८५॥ ॥ सिद्धान्तसारप्रकरणम् ॥ सिद्धान्तो यो भवति परमः सर्ववेदान्तसारो वच्मि स्पष्टं तमिममधुना तत्त्वतोऽत्यन्तगूढम् । सत्यं तत् स्वो भवति निधनाच्चेदहन्नामकस्य शिष्येतासौ चितिमयतनुः सत्य आत्मैव विद्धि ॥ ८६॥ ॥ ॐ नमो भगवते श्रीरमणाय ॥ ॥ श्रीरमणहृदयतात्पर्यसङ्ग्रहः ॥ विश्वं दृग्दृश्यभिन्नं स्थितिलयजननान्येति चित्तेन साकं स्वप्ने जाग्रत्यपीदं भवति च, विलयं गच्छतीदं सुषुप्तौ । एवं विश्वं समस्तं भवति हि मनसो वृत्तयो; नित्यभाने जातं लीनं च यस्मिन् भवति मन इदं, तत् स्वतत्त्वं विशोकम् ॥ अज्ञात्वैवं स्वतत्त्वं वपुरहमिति धीमोहयोगात् प्रपञ्चं मत्वा सत्यं च, सौख्यं विषयजमिति चोपैति शोकं प्रमत्तः । हित्वैतच्चेन्निमज्जेधृदि विविदिषया स्वात्मनः, शान्तिमृच्छेत् सत्ये स्वस्मिन्निति श्रीरमणभगवता दिष्टमस्मिन् प्रबन्धे ॥ ॥ ॐ नमो भगवते श्रीरमणाय ॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com The text was composed by K.LakShmana Sarma This work is published by Sri Ramanasramam www.sriramanamaharshi.org It has been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

% Text title            : ramaNahRidayam
% File name             : ramaNahRidayam.itx
% itxtitle              : ramaNahRidayam
% engtitle              : Revelation
% Category              : hRidaya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ramana
% Author                : Componsed by K.Lakshmana Sarma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion  It has been approved to be posted on Sanskritdocuments.org  by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description-comments  : Ramanashram Publication www.sriramanamaharshi.org
% Indexextra            : Revelation
% Acknowledge-Permission: Sri V.S. Ramanan, President, Sri Ramanasramam sriramanamaharshi.org
% Latest update         : November 3, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP