॥ सार्थ गायत्री मन्त्रार्थः ॥

अथ सर्वदेवात्मनः सर्वशक्तेः सर्वावभासकतेजोमयस्य परमात्मनः सर्वात्मकत्वद्योतनार्थं सर्वात्मकत्वप्रतिपादक- गायत्रीमहामन्त्रस्योपासनप्रकारः प्रकाश्यते । तत्र गायत्रीं प्रणवादिसप्तव्याहृत्युपेतां शिरःसमेतां सर्ववेदसारमिति वदन्ति, एवंविशिष्टा गायत्री प्राणायामैरुपास्या । सप्रणव- व्याहृतित्रयोपेता प्रणवान्ता गायत्री जपादिभिरुपास्या । तत्र शुद्धगायत्री प्रत्यग्ब्रह्मैक्यबोधिका । धियो यो नः प्रचोदयादिति ---नः अस्माकं धियः बुद्धिः यः प्रचोदयात् प्रेरयेत् इति सर्वबुद्धि- संज्ञान्तःकरणप्रकाशकः सर्वसाक्षी प्रत्यगात्मा उच्यते । तस्य प्रचोदयाच्छब्दनिर्दिष्टस्यात्मनः स्वरूपभूतं परं ब्रह्म--- तत्सवितुरित्यादिपदैर्निर्दिश्यते । तत्र ' ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधःस्मृतः ' इति तच्छब्देन प्रत्यग्भूतं स्वतःसिद्धं परं ब्रह्मोच्यते । सवितुरिति सृष्टिस्थितिलय- लक्षणकस्य सर्वप्रपञ्चस्य समस्तद्वैतविभ्रमस्याधिष्ठानं लक्ष्यते । वरेण्यमिति सर्ववरणीयं निरतिशयानन्दरूपम् । भर्ग इत्यविद्यादि- दोषभर्जनात्मकज्ञानैकविषयम् । देवस्येति सर्वद्योतनात्मकाखण्ड- चिदेकरसम् । सवितुर्देवस्येत्यत्र षष्ठ्यर्थो राहोः शिर इतिवदौपचारिकः बुद्ध्यादिसर्वदृश्यसाक्षिलक्षणं यन्मे स्वरूपं तत्सर्वाधिष्ठानभूतं परमानन्दं निरस्तसमस्तानर्थरूपं स्वप्रकाशचिदात्मकं ब्रह्मेत्येवं धीमहि ध्यायेम । एवं सति सह ब्रह्मणा स्वविवर्तजडप्रपञ्चस्य रज्जुसर्पन्यायेन अपवाद- सामानाधिकरण्यरूपमेकत्वं, सोऽयमिति न्यायेन सर्वसाक्षिप्रत्यगात्मनो ब्रह्मणा सह तादात्म्यरूपमेकत्वं भवतीति सर्वात्मकब्रह्मबोधकोऽयं गायत्रीमन्त्रः सम्पद्यते । सप्तव्याहृतिनामयमर्थः---भूरिति सन्मात्रमुच्यते भुव इति सर्वं भावयति प्रकाशयतीति व्युत्पत्त्या चिद्रूपमुच्यते । सुव्रियत इति व्युत्पत्त्या सुष्ठु सर्वैर्व्रियमाणसुखस्वरूपमुच्यते । मह इति महीयते पूज्यत इति व्युत्पत्त्या सर्वातिशयत्वमुच्यते , जन इति---जनयतीति जनः, सकल- कारणत्वमुच्यते । तप इति सर्वतेजोरूपत्वम् । सत्यमिति सर्वबाधरहितम् । एतदुक्तं भवति---यल्लोके सद्रूपं तदोंकारवाच्यं ब्रह्मैव, आत्मनोऽस्य सच्चिद्रूपस्वभावादिति । अथ भूरादयः सर्वलोका ओंकारावाच्य- ब्रह्मात्मकाः, न तद्व्यतिरिक्तं किंचिदस्तीति व्याहृतयोऽपि सर्वात्मक- ब्रह्मबोधिकाः । गायत्री-शिरसोऽप्ययमेवार्थः--- आप इत्याप्नोतीति व्युत्पत्त्या व्यापित्वमुच्यते ज्योतिरिति प्रकाशरूपत्वम् । रस इति सर्वातिशयत्वम् । अमृतमिति मरणादि संसारनिर्मुक्तत्वम् । सर्वव्यापिसर्वप्रकाशकसर्वोत्कृष्टनित्यमुक्तमात्मरूपं सच्चिदात्मकं यदोंकारवाच्ग्यं ब्रह्म तदहमस्मि । इति गायत्रीमन्त्रस्यार्थः । गुहाशयब्रह्महुताशनोऽहं कर्त्रेदमंशाख्य हविर्हुतं सत्। विलीयते नेदमहं भवानी- त्येष प्रकारस्तु विभिद्यतेऽत्र ॥ यदस्ति यद्भाति तदात्मरूपं नान्यत्ततो भाति न चान्यदस्ति । स्वभावसंवित्प्रविभाति केवला ग्राह्यं ग्रहीतेति मृषैव कल्पना ॥ Encoded and proofread by Sunder Hattangadi sunderh@hotmail.com Meaning of Gayatri mantra by Swami Vidyaranya (circa 13 cent. A.D.)

% Text title            : sArtha gAyatrI mantra
% File name             : sArthagAyatrI.itx
% itxtitle              : sArtha gAyatrI mantrArthaH
% engtitle              : Gayatri Mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Author                : Sw. Vidyaranya (circa 13 cent. A.D.)
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Description-comments  : Advaita meaning of Gayatri mantra
% Indexextra            : Vidyaranya
% Latest update         : May 4, 2010
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP