श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्तोत्रम्
पाषण्डादि समस्त दुर्मत गज प्रोद्दण्ड कण्ठीरवान्
दन्तीन्देन्दुकिरीटचक्रग शिवा पूजारतान्स्वस्तये ।
लोकस्य प्रथमानकीर्ति निवहान्सञ्चित्स्वरूपान्गुरून्
तुङ्गातीरनिवास लोलमनसो वन्दे सदा भक्तितः ॥
सच्चिदानन्द भूतेश नवीन नृहरिं गुरुम् ।
श्रीशङ्कराचार्यरूपं नमामि शिरसाऽन्वहम् ॥
यदीय करुणालवोऽवति सुदूरदेशस्थिता-
नपि प्रचित दुष्कृतानविदितार्चनाध्यानकान् ।
तदीय पदपङ्कजं हृदि मुदा सदा भावये
प्रचण्डतर संसृति प्रशमनैक दीक्षा धरम् ॥
इति श्रीचन्द्रशेखरभारतीविरचितं
श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by G Vasanth gsathyaarumugam at gmail.com