श्रीसमर्थपञ्चकम्
श्रीसमर्थ रामदासगुरवे नमः ।
यो मातृगर्भतो जातः शुक्तितो मौक्तिकं यथा ।
देशधर्मामृतः यो हि श्रीसमर्थं प्रणौमि तम् ॥ १॥
स्फूर्तिशक्तिवसन्तो यः पुण्यज्ञानसरोवरः ।
रामभक्तिर्य आरामः श्रीसमर्थं प्रणौमि तम् ॥ २॥
अज्ञानतिमिरार्को यः सुधांशुः शान्तिदस्तथा ।
सत्तत्त्वरत्नगर्भो यः श्रीसमर्थ प्रणौमि तम् ॥ ३॥
यस्तप्तहृत्सुधावृष्टियोन्दीनजनकामधुक् ।
मुमुक्षुमुक्तिदं तीर्थं श्रीसमर्थ प्रणौमि तम् ॥ ४॥
पार्थसारथिवद्यस्तु शिवराजसुरद्रुमः ।
आनन्दवनभूकृद्यः श्रीसमर्थ प्रणौमि तम् ॥ ५॥
श्लोकपञ्चकमेतद्यः सश्रद्धाभक्तितः पठेत् ।
आयुरारोग्यमैश्वर्यं भक्तिं मुक्तिं स विन्दति ॥ ६॥
इति श्रीमत् परमहंस परिव्राजकाचार्य भगवता श्रीधरस्वामिना
विरचितं श्रीसमर्थपञ्चकस्तोत्रं सम्पूर्णम् ।
Encoded and proofred by Sonali Upendra Dasare