श्रीशारदादेवीस्तोत्रम्
(अथ श्रीमत्याः शारदादेव्याः स्तोत्रं प्रारभ्यते)
प्रकृतिं परमामभयां वरदां
नररूपधरां जनतापहराम् ।
शरणागत सेवकतोषकरीं
प्रणमामि परां जननीं जगताम् ॥ १॥
गुणहीनसुतानपराधयुतान्
कृपयाऽद्य समुद्धर मोहगतान् ।
तरणीं भवसागरपारकरीं
प्रणमामि परां जननीं जगताम् ॥ २॥
विषयं कुसुमं परिहृत्य सदा
चरणाम्बुरुहामृत शान्तिसुधाम् ।
पिब भृङ्गमनो भवरोगहरां
प्रणमामि परां जननीं जगताम् ॥ ३॥
कृपां कुरु महादेवि सुतेषु प्रणतेषु च ।
चरणाश्रय दानेन कृपामयि नमोऽस्तुते ॥ ४॥
लज्जापटावृते नित्यं शारदे ज्ञानदायिके ।
पापेभ्यो नः सदा रक्ष कृपामयि नमोऽस्तुते ॥ ५॥
रामकृष्णगत प्राणां तन्नामश्रवणप्रियाम् ।
तद्भावरञ्जिताकारां प्रणमामि मुहुर्मुहुः ॥ ६॥
पवित्रं चरितं यस्याः पवित्रं जीवनं तथा
पवित्रता स्वरूपिण्यै तस्यै कुर्मो नमो नमः ॥ ७॥
देवीं प्रसन्नां प्रणतार्तिहन्त्रीं, योगीन्द्रपूज्यां युगधर्मपात्रीम् ।
तां शारदां भक्तिविज्ञानदात्रीं, दयास्वरूपां प्रणमामि नित्यम् ॥ ८॥
स्नेहेन बध्नासि मनोऽस्मदीयं, दोषानशेषान् सगुणी करोषि ।
अहेतुना नो दयसे सदोषान्, स्वाङ्के गृहीत्वा यदिदं विचित्रम् ॥ ९॥
प्रसीद मातर्विनयेन याचे, नित्यं भव स्नेहवती सुतेषु ।
प्रेमैकबिन्दुं चिरदग्धचित्ते, विषिञ्च चित्तं कुरु नः सुशान्तम् ॥ १०॥
जननीं शारदां देवीं रामकृष्णं जगद्गुरुम् ।
पादपद्मे तयोः श्रित्वा प्रणमामि मुहुर्मुहुः ॥ ११॥
इति श्रीमत् अभेदानन्दस्वामिनाविरचितं
``श्रीमत्याः शारदादेव्याः स्तोत्रम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan