शास्तादशकम्
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वतीहृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १॥
विप्रपूज्यं विश्ववन्द्यं विष्णु-शम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २॥
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३॥
अस्मत्कुलेश्वरं देवमस्मचछत्रुविनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४॥
पाण्ड्येशवंशतिलकं केरळे केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५॥
त्रयम्बकपुराधीशं गणाधिपसमन्वितम् ।
गजारूढमहं वन्दे शास्तारं प्रणमाम्यहम् ॥ ६॥
शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवम् ।
शिखिवाहानुजं वन्दे शास्तारं प्रणमाम्यहम् ॥ ७॥
यस्य धन्वन्तरिर्माता पिता देवो महेश्वरः ।
तं शास्तारमहं वन्दे महारोगनिवारणम् ॥ ८॥
भूतनाथदयानन्द सर्वभूतदयापर ।
रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः ॥ ९॥
आश्याम कोमलविशालतनुं विचित्रं
वासो वसानमरुणोत्पलदामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ १०॥
इति शास्तादशकं सम्पूर्णम् ।
The first five verses are termed as pancharatnam and
are in a separate file.
Encoded and proofread by PSA Easwaran