शास्तासूक्तम्
धा॒ता वि॑धा॒ता प॑र॒मोतसं॒दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ ।
स्तोमा॒श्छंदा॑ꣳसि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम ॥
अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒यꣳ शा॒स्ताऽधि॑पतिर्वो अस्तु ।
अ॒स्य वि॒ज्ञान॒मनु॒ सꣳर॑भध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚॥
भूत॑ना॒थाय॑ वि॒द्महे॑ भव॑पु॒त्राय॑ धीमही ।
तन्नः॑ शास्ता प्र॒चो॑द॒या᳚त् ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
तैत्तिरीय-संहिता ॥ ५। ७। ४॥
धाता विधाता परमोतसंदृक् प्रजापतिः परमेष्ठी विराजा ।
स्तोमाश्छंदाꣳसि निविदोम आहुरेतस्मै राष्ट्रमभिसन्नमाम ॥
अभ्यावर्तध्वमुपमेतसाक मयꣳ शास्ताऽधिपतिर्वो अस्तु ।
अस्य विज्ञानमनुसꣳरभध्वमिमं पश्चादनु जीवाथ सर्वे ॥
ॐ शान्तिः शान्तिः शान्तिः ।
भूतनाथाय विद्महे भवपुत्राय धीमही ।
तन्नः शास्ता प्रचोदयात् ।
ॐ शान्तिः शान्तिः शान्तिः ॥
इति शास्तासूक्तम् ।