श्रीधर्मशास्ता अथवा श्रीहरिहरपुत्रसहस्रनामावलिः
ॐ नमो भगवते भूतनाथाय ।
ॐ शिवपुत्राय नमः ।
ॐ महातेजसे नमः ।
ॐ शिवकार्यधुरन्धराय नमः ।
ॐ शिवप्रदाय नमः ।
ॐ शिवज्ञानिने नमः ।
ॐ शैवधर्मसुरक्षकाय नमः ।
ॐ शङ्खधारिणे नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ चन्द्रमौलये नमः ।
ॐ सुरोत्तमाय नमः । १०
ॐ कामेशाय नमः ।
ॐ कामतेजस्विने नमः ।
ॐ कामादि फलसंयुताय नमः ।
ॐ कल्याणाय नमः ।
ॐ कोमलाङ्गाय नमः ।
ॐ कल्याणफलदायकाय नमः ।
ॐ करुणाब्धये नमः ।
ॐ कर्मदक्षाय नमः ।
ॐ करुणारससागराय नमः ।
ॐ जगत्प्रियाय नमः । २०
ॐ जगद्रक्षकाय नमः ।
ॐ जगदानन्ददायकाय नमः ।
ॐ जयादिशक्तिसंसेव्याय नमः ।
ॐ जनाह्लादाय नमः ।
ॐ जिगीषुकाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितसेवारिसङ्घकाय नमः ।
ॐ जैमिन्यादि ॠषिसंसेव्याय नमः ।
ॐ जरामरणनाशकाय नमः । ३०
ॐ जनार्दनसुताय नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ ज्येष्ठादिगणसेविताय नमः ।
ॐ जन्महीनाय नमः ।
ॐ जितामित्राय नमः ।
ॐ जनकेनाभिपूजिताय नमः ।
ॐ परमेष्ठिने नमः ।
ॐ पशुपतये नमः ।
ॐ पङ्कजासनपूजिताय नमः ।
ॐ पुरहन्त्रे नमः । ४०
ॐ पुरत्रात्रे नमः ।
ॐ परमैश्वर्यदायकाय नमः ।
ॐ पवनादिसुरैः सेव्याय नमः ।
ॐ पञ्चब्रह्मपरायणाय नमः ।
ॐ पार्वतीतनयाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ परानन्दाय नमः ।
ॐ परात्पराय नमः ।
ॐ ब्रह्मिष्ठाय नमः ।
ॐ ज्ञाननिरताय नमः ५०
ॐ गुणागुणनिरूपकाय नमः ।
ॐ गुणाध्यक्षाय नमः ।
ॐ गुणनिधये नमः ।
ॐ गोपालेनाभिपूजिताय नमः ।
ॐ गोरक्षकाय नमः ।
ॐ गोधनाय नमः ।
ॐ गजारूढाय नमः ।
ॐ गजप्रियाय नमः ।
ॐ गजग्रीवाय नमः ।
ॐ गजस्कन्धाय नमः । ६०
ॐ गभस्तये नमः ।
ॐ गोपतये नमः ।
ॐ प्रभवे नमः ।
ॐ ग्रामपालाय नमः ।
ॐ गजाध्यक्षाय नमः ।
ॐ दिग्गजेनाभिपूजिताय नमः ।
ॐ गणाध्यक्षाय नमः ।
ॐ गणपतये नमः ।
ॐ गवाम्पतये नमः ।
ॐ अहर्पतये नमः । ७०
ॐ जटाधराय नमः ।
ॐ जलनिभाय नमः ।
ॐ जैमिन्यादि ऋषिपूजिताय नमः ।
ॐ जलन्धरनिहन्त्रे नमः ।
ॐ शोणाक्षाय नमः ।
ॐ शोणवासकाय नमः ।
ॐ सुराधिपाय नमः ।
ॐ शोकहन्त्रे नमः ।
ॐ शोभाक्षाय नमः ।
ॐ सूर्यतैजसाय नमः । ८०
ॐ सुरार्चिताय नमः ।
ॐ सुरैर्वन्द्याय नमः ।
ॐ शोणाङ्गाय नमः ।
ॐ शाल्मलीपतये नमः ।
ॐ सुज्योतिषे नमः ।
ॐ शरवीरघ्नाय नमः ।
ॐ शरच्चन्द्रनिभाननाय नमः ।
ॐ सनकादिमुनिध्येयाय नमः ।
ॐ सर्वज्ञानप्रदायकाय नमः ।
ॐ विभवे नमः । ९०
ॐ हलायुधाय नमः ।
ॐ हंसनिभाय नमः ।
ॐ हाहा हूहूमुखस्तुताय नमः ।
ॐ हरिप्रियाय नमः ।
ॐ हरप्रियाय नमः ।
ॐ हंसाय नमः ।
ॐ हर्यक्षासनतत्पराय नमः ।
ॐ पावनाय नमः ।
ॐ पावकनिभाय नमः ।
ॐ भक्तपापविनाशनाय नमः । १००
ॐ भसिताङ्गाय नमः ।
ॐ भयत्रात्रे नमः ।
ॐ भानुमते नमः ।
ॐ भयनाशनाय नमः ।
ॐ त्रिपुण्ड्रकाय नमः ।
ॐ त्रिनयनाय नमः ।
ॐ त्रिपुण्ड्राङ्कितमस्तकाय नमः ।
ॐ त्रिपुरघ्नाय नमः ।
ॐ देववराय नमः ।
ॐ देवारिकुलनाशकाय नमः । ११०
ॐ देवसेनाधिपाय नमः ।
ॐ तेजसे नमः ।
ॐ तेजोराशये नमः ।
ॐ दशाननाय नमः ।
ॐ दारुणाय नमः ।
ॐ दोषहन्त्रे नमः ।
ॐ दोर्दण्डाय नमः ।
ॐ दण्डनायकाय नमः ।
ॐ धनुष्पाणये नमः ।
ॐ धराध्यक्षाय नमः । १२०
ॐ धनिकाय नमः ।
ॐ धर्मवत्सलाय नमः ।
ॐ धर्मज्ञाय नमः ।
ॐ धर्मनिरताय नमः ।
ॐ धनुःशास्त्रपरायणाय नमः ।
ॐ स्थूलकर्णाय नमः ।
ॐ स्थूलतनवे नमः ।
ॐ स्थूलाक्षाय नमः ।
ॐ स्थूलबाहुकाय नमः ।
ॐ तनूत्तमाय नमः । १३०
ॐ तनुत्राणाय नमः ।
ॐ तारकाय नमः ।
ॐ तेजसाम्पतये नमः ।
ॐ योगीश्वराय नमः ।
ॐ योगनिधये नमः ।
ॐ योगीनाय नमः ।
ॐ योगसंस्थिताय नमः ।
ॐ मन्दारवाटिकाय नमः ।ॐ मत्ताय नमः ।
ॐ मलयालचलवासभुवे नमः । १४०
ॐ मन्दारकुसुमप्रख्याय नमः ।
ॐ मन्दमारुतसेविताय नमः ।
ॐ महाभासाय नमः ।
ॐ महावक्षसे नमः ।
ॐ मनोहरमदार्चिताय नमः ।
ॐ महोन्नताय नमः ।
ॐ महाकायाय नमः ।
ॐ महानेत्राय नमः ।
ॐ महाहनवे नमः ।
ॐ मरुत्पूज्याय नमः । १५०
ॐ मानधनाय नमः ।
ॐ मोहनाय नमः ।
ॐ मोक्षदायकाय नमः ।
ॐ मित्राय नमः ।
ॐ मेधायै नमः ।
ॐ महौजस्विने नमः ।
ॐ महावर्षप्रदायकाय नमः ।
ॐ भाषकाय नमः ।
ॐ भाष्यशास्त्रज्ञाय नमः ।
ॐ भानुमते नमः । १६०
ॐ भानुतैजसे नमः ।
ॐ भिषजे नमः ।
ॐ भवानीपुत्राय नमः ।
ॐ भवतारणकारणाय नमः ।
ॐ नीलाम्बराय नमः ।
ॐ नीलनिभाय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ नेत्रत्रयाय नमः ।
ॐ निषादज्ञाय नमः । १७०
ॐ नानारत्नोपशोभिताय नमः ।
ॐ रत्नप्रभाय नमः ।
ॐ रमापुत्राय नमः ।
ॐ रमया परितोषिताय नमः ।
ॐ राजसेव्वाय नमः ।
ॐ राजधनाय नमः ।
ॐ रणदोर्दण्डमण्डिताय नमः ।
ॐ रमणाय नमः ।
ॐ रेणुकासेव्याय नमः ।
ॐ रजनीचरदारणाय नमः । १८०
ॐ ईशानाय नमः ।
ॐ इभराट्सेव्याय नमः ।
ॐ ईषणात्रयनाशनाय नमः ।
ॐ इडावासाय नमः ।
ॐ हेमनिभाय नमः ।
ॐ हैमप्राकारशोभिताय नमः ।
ॐ हयप्रियाय नमः ।
ॐ हयग्रीवाय नमः ।
ॐ हंसाय नमः ।
ॐ हरिहरात्मजाय नमः । १९०
ॐ हाटकस्फटिकप्रख्याय नमः ।
ॐ हंसारूढेनसेविताय नमः ।
ॐ वनवासाय नमः ।
ॐ वनाध्यक्षाय नमः ।
ॐ वामदेवाय नमः ।
ॐ वाराननाय नमः ।
ॐ वैवस्वतपतये नमः ।
ॐ विष्णवे नमः ।
ॐ विराड्रूपाय नमः ।
ॐ विशाम्पतिये नमः । २००
ॐ वेणुनादाय नमः ।
ॐ वरग्रीवाय नमः ।
ॐ वराभयकरान्विताय नमः ।
ॐ वर्चस्विने नमः ।
ॐ विपुलग्रीवाय नमः ।
ॐ विपुलाक्षाय नमः ।
ॐ विनोदवते नमः ।
ॐ वैणवारण्यवासाय नमः ।
ॐ वामदेवेनसेविताय नमः ।
ॐ वेत्रहस्ताय नमः । २१०
ॐ वेदनिधये नमः ।
ॐ वंशदेवाय नमः ।
ॐ वराङ्गाय नमः ।
ॐ ह्रीङ्काराय नमः ।
ॐ ह्रिम्मनसे नमः ।
ॐ हृष्टाया नमः ।
ॐ हिरण्याय नमः ।
ॐ हेमसम्भवाय नमः ।
ॐ हुताशाय नमः ।
ॐ हुतनिष्पन्नाय नमः । २२०
ॐ हुङ्काराकृतिसुप्रभवे नमः ।
ॐ हव्यवाहाय नमः ।
ॐ हव्यकराय नमः ।
ॐ अट्टहासाय नमः ।
ॐ अपराहताय नमः ।
ॐ अणुरूपाय नमः ।
ॐ रूपकराय नमः ।
ॐ अचराय नमः ।
ॐ अतनुरूपकाय नमः ।
ॐ हंसमन्त्राय नमः । २३०
ॐ हुतभुगे नमः ।
ॐ हेमाम्बराय नमः ।
ॐ सुलक्षणाय नमः ।
ॐ नीपप्रियाय नमः ।
ॐ नीलवाससे नमः ।
ॐ निधिपालाय नमः ।
ॐ निरातपाय नमः ।
ॐ क्रोडहस्ताय नमः ।
ॐ तपस्त्रात्रे नमः ।
ॐ तपोरक्षकाय नमः । २४०
ॐ तपाह्वयाय नमः ।
ॐ मूर्धाभिषिक्ताय नमः ।
ॐ मानिने नमः ।
ॐ मन्त्ररूपाय नमः
ॐ मृडाय नमः ।
ॐ मनवे नमः ।
ॐ मेधाविने नमः ।
ॐ मेधसे नमः ।
ॐ मुष्णवे नमः ।
ॐ मकराय नमः । २५०
ॐ मकरालयाय नमः ।
ॐ मार्ताण्डाय नमः ।
ॐ मञ्जुकेशाय नमः ।
ॐ मासपालाय वनमः ।
ॐ महौषधये नमः ।
ॐ श्रोत्रियाय नमः ।
ॐ शोभमानाय नमः ।
ॐ सवित्रे नमः ।
ॐ सर्वदेशिकाय नमः ।
ॐ चन्द्रहासाय नमः । २६०
ॐ शमाय नमः ।
ॐ शक्ताय नमः ।
ॐ शशिभासाय नमः ।
ॐ शमाधिकाय नमः ।
ॐ सुदन्ताय नमः ।
ॐ सुकपोलाय नमः ।
ॐ षड्वर्णाय नमः ।
ॐ सम्पदोऽधिपाय नमः ।
ॐ गरळाय नमः ।
ॐ कालकण्ठाय नमः । २७०
ॐ गोनेत्रे नमः ।
ॐ गोमुखप्रभवे नमः ।
ॐ कौशिकाय नमः ।
ॐ कालदेवाय नमः ।
ॐ क्रोशकाय नमः ।
ॐ क्रौञ्चभेदकाय नमः ।
ॐ क्रियाकराय नमः ।
ॐ कृपालवे नमः ।
ॐ करवीरकरेरुहाय नमः ।
ॐ कन्दर्पदर्पहारिणे नमः । २८०
ॐ कामदात्रे नमः ।
ॐ कपालकाय नमः ।
ॐ कैलासवासाय नमः ।
ॐ वरदाय नमः ।
ॐ विरोचनाय नमः ।
ॐ विभावसवे नमः ।
ॐ बभ्रुवाहाय नमः ।
ॐ बलाध्यक्षाय नमः ।
ॐ फणामणिविभूषणाय नमः ।
ॐ सुन्दराय नमः । २९०
ॐ सुमुखाय नमः ।
ॐ स्वच्छाय नमः ।
ॐ सभासदे नमः ।
ॐ सभाकराय नमः ।
ॐ शरानिवृत्ताय नमः ।
ॐ शक्राप्ताय नमः ।
ॐ शरणागतपालकाय नमः ।
ॐ तीक्ष्णदंष्ट्राय नमः ।
ॐ दीर्घजिह्वाय नमः ।
ॐ पिङ्गलाक्षाय नमः । ३००
ॐ पिशाचघ्ने नमः ।
ॐ अभेद्याय नमः ।
ॐ अङ्गदाढ्याय नमः ।
ॐ भोजपालाय नमः ।
ॐ भूपतये नमः ।
ॐ गृध्रनासाय नमः ।
ॐ अविषह्याय नमः ।
ॐ दिग्देहाय नमः ।
ॐ दैन्यदाहकाय नमः ।
ॐ बाडवपूरितमुखाय नमः । ३१०
ॐ व्यापकाय नमः ।
ॐ विषमोचकाय नमः ।
ॐ वसन्ताय नमः ।
ॐ समरक्रुद्धाय नमः ।
ॐ पुङ्गवाय नमः ।
ॐ पङ्कजासनाय नमः ।
ॐ विश्वदर्पाय नमः ।
ॐ निश्चितज्ञाय नमः ।
ॐ नागाभरणभूषिताय नमः ।
ॐ भरताय नमः । ३२०
ॐ भैरवाकाराय नमः ।
ॐ भरणाय नमः ।
ॐ वामनक्रियाय नमः ।
ॐ सिंहास्याय नमः ।
ॐ सिंहरूपाय नमः ।
ॐ सेनापतये नमः ।
ॐ सकारकाय नमः ।
ॐ सनातनाय नमः ।
ॐ सिद्धरूपिणे नमः ।
ॐ सिद्धधर्मपरायणाय नमः । ३३०
ॐ आदित्यरूपाय नमः ।
ॐ आपद्घ्नाय नमः ।
ॐ अमृताब्धिनिवासभुवे नमः ।
ॐ युवराजाय नमः ।
ॐ योगिवर्याय नमः ।
ॐ उषस्तेजसे नमः ।
ॐ उडुप्रभाय नमः ।
ॐ देवादिदेवाय नमः ।
ॐ दैवज्ञाय नमः ।
ॐ ताम्रोष्ठाय नमः । ३४०
ॐ ताम्रलोचनाय नमः ।
ॐ पिङ्गलाक्षाया नमः ।
ॐ पिञ्छचूडाय नमः ।
ॐ फणामणिविभूषिताय नमः ।
ॐ भुजङ्गभूषणाय नमः ।
ॐ भोगाय नमः ।
ॐ भोगानन्दकराय नमः ।
ॐ अव्ययाय नमः ।
ॐ पञ्चहस्तेनसम्पूज्याय नमः ।
ॐ पञ्चबाणेन सेविताय नमः । ३५०
ॐ भवाय नमः ।
ॐ शर्वाय नमः ।
ॐ भानुमयाय नमः ।
ॐ प्राजापत्यस्वरूपकाय नमः ।
ॐ स्वच्छन्दाय नमः ।
ॐ छन्दःशास्त्रज्ञाय नमः ।
ॐ दान्ताय नमः ।
ॐ देवमनुप्रभवे नमः ।
ॐ दशभुजाय नमः ।
ॐ दशाध्यक्षाय नमः । ३६०
ॐ दानवानां विनाशनाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ शरोत्पन्नाय नमः ।
ॐ शतानन्दसमागमाय नमः ।
ॐ गृध्राद्रिवासाय नमः ।
ॐ गम्भीराय नमः ।
ॐ गन्धग्राहाय नमः ।
ॐ गणेश्वराय नमः ।
ॐ गोमेधाय नमः ।
ॐ गण्डकावासाय नमः । ३७०
ॐ गोकुलैः परिवारिताय नमः ।
ॐ परिवेषाय नमः ।
ॐ पदज्ञानिने नमः ।
ॐ प्रियङ्गुद्रुमवासकाय नमः ।
ॐ गुहावासाय नमः ।
ॐ गुरुवराय नमः ।
ॐ वन्दनीयाय नमः ।
ॐ वदान्यकाय नमः ।
ॐ वृत्ताकाराय नमः ।
ॐ वेणुपाणये नमः । ३८०
ॐ वीणादण्डधराय नमः ।
ॐ हराय नमः ।
ॐ हैमीड्याय नमः ।
ॐ होतृसुभगाय नमः ।
ॐ हौत्रज्ञाय नमः ।
ॐ ओजसाम्पतये नमः ।
ॐ पवमानाय नमः ।
ॐ प्रजातन्तुप्रदाय नमः ।
ॐ दण्डविनाशनाय नमः ।
ॐ निमीड्याय नमः । ३९०
ॐ निमिषार्धज्ञाय नमः ।
ॐ निमिषाकारकारणाय नमः ।
ॐ लिगुडाभाय नमः ।
ॐ लिडाकाराय नमः ।
ॐ लक्ष्मीवन्द्याय नमः ।
ॐ वरप्रभवे नमः ।
ॐ इडाज्ञाय नमः ।
ॐ पिङ्गलावासाय नमः ।
ॐ सुषुम्नामध्यसम्भवाय नमः ।
ॐ भिक्षाटनाय नमः । ४००
ॐ भीमवर्चसे नमः ।
ॐ वरकीर्तये नमः ।
ॐ सभेश्वराय नमः ।
ॐ वाचाऽतीताय नमः ।
ॐ वरनिधये नमः ।
ॐ परिवेत्रे नमः ।
ॐ प्रमाणकाय नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ अनन्तादित्यसुप्रभाय नमः । ४१०
ॐ वेषप्रियाय नमः ।
ॐ विषग्राहाय नमः ।
ॐ वरदानकरोत्तमाय नमः ।
ॐ विपिनाय नमः ।
ॐ वेदसाराय नमः ।
ॐ वेदान्तैःपरितोषिताय नमः ।
ॐ वक्रागमाय नमः ।
ॐ वर्चवाचाय नमः ।
ॐ बलदात्रे नमः ।
ॐ विमानवते नमः । ४२०
ॐ वज्रकान्ताय नमः ।
ॐ वंशकराय नमः ।
ॐ वटुरक्षाविशारदाय नमः ।
ॐ वप्रक्रीडाय नमः ।
ॐ विप्रपूज्याय नमः ।
ॐ वेलाराशये नमः ।
ॐ चलाळकाय नमः ।
ॐ कोलाहलाय नमः ।
ॐ क्रोडनेत्राय नमः ।
ॐ क्रोडास्याय नमः । ४३०
ॐ कपालभृते नमः ।
ॐ कुञ्जरेड्याय नमः ।
ॐ मञ्जुवाससे नमः ।
ॐ क्रियमाणाय नमः ।
ॐ क्रियाप्रदाय नमः ।
ॐ क्रीडानाथाय नमः ।
ॐ कीलहस्ताय नमः ।
ॐ क्रोशमानाय नमः ।
ॐ बलाधिकाय नमः ।
ॐ कनकाय नमः । ४४०
ॐ होतृभागिने नमः ।
ॐ खवासाय नमः ।
ॐ खचराय नमः ।
ॐ खगाय नमः ।
ॐ गणकाय नमः ।
ॐ गुणनिर्दिष्टाय नमः ।
ॐ गुणत्यागिने नमः ।
ॐ कुशाधिपाय नमः ।
ॐ पाटलाय नमः ।
ॐ पत्रधारिणे नमः । ४५०
ॐ पलाशाय नमः ।
ॐ पुत्रवर्धनाय नमः ।
ॐ पितृसच्चरिताय नमः ।
ॐ प्रेष्ठाय नमः ।
ॐ पापभस्मपुनश्शुचये नमः ।
ॐ भालनेत्राय नमः ।
ॐ फुल्लकेशाय नमः ।
ॐ फुल्लकल्हारभूषिताय नमः ।
ॐ फणिसेव्याय नमः ।
ॐ पट्टभद्राय नमः । ४६०
ॐ पटवे नमः ।
ॐ वाग्मिने नमः ।
ॐ वयोऽधिकाय नमः ।
ॐ चोरनाट्याय नमः ।
ॐ चोरवेषाय नमः ।
ॐ चोरघ्नाय नमः ।
ॐ शौर्यवर्धनाय नमः ।
ॐ चञ्चलाक्षाय नमः ।
ॐ अमरकाय नमः ।
ॐ मरीचये नमः । ४७०
ॐ मदगामिकाय नमः ।
ॐ मृडाभाय नमः ।
ॐ मेषवाहाय नमः ।
ॐ मैथिल्याय नमः ।
ॐ मोचकाय नमः ।
ॐ मनसे नमः ।
ॐ मनुरूपाय नमः ।
ॐ मन्त्रदेवाय नमः ।
ॐ मन्त्रराशये नमः ।
ॐ महादृढाय नमः । ४८०
ॐ स्तूपिज्ञाय नमः ।
ॐ धनदात्रे नमः ।
ॐ देववन्द्याय नमः ।
ॐ तारणाय नमः ।
ॐ यज्ञप्रियाय नमः ।
ॐ यमाध्यक्षाय नमः ।
ॐ इभक्रीडाय नमः ।
ॐ इभेक्षणाय नमः ।
ॐ दधिप्रियाय नमः ।
ॐ दुराधर्षाय नमः । ४९०
ॐ दारुपालाय नमः ।
ॐ दनूजघ्ने नमः ।
ॐ दामोदराय नमः ।
ॐ दामधराय नमः ।
ॐ दक्षिणामूर्तिरूपकाय नमः ।
ॐ शचीपूज्याय नमः ।
ॐ शङ्खकर्णाय नमः ।
ॐ चन्द्रचूडाय नमः ।
ॐ मनुप्रियाय नमः ।
ॐ गुडरुपाय नमः । ५००
ॐ गुडाकेशाय नमः ।
ॐ कुलधर्मपरायणाय नमः ।
ॐ कालकण्ठाय नमः ।
ॐ गाढगात्राय नमः ।
ॐ गोत्ररूपाय नमः ।
ॐ कुलेश्वराय नमः ।
ॐ आनन्दभैरवाराध्याय नमः ।
ॐ हयमेधफलप्रदाय नमः ।
ॐ दध्यन्नासक्तहृदयाय नमः ।
ॐ गुडान्नप्रीतमानसाय नमः । ५१०
ॐ घृतान्नासक्तहृदयाय नमः ।
ॐ गौराङ्गाय नमः ।
ॐ गर्वभञ्जकाय नमः ।
ॐ गणेशपूज्याय नमः ।
ॐ गगनाय नमः ।
ॐ गणानाम्पतये नमः ।
ॐ ऊर्जिताय नमः ।
ॐ छद्महीनाय नमः ।
ॐ शशिरदाय नमः ।
ॐ शत्रूणाम्पतये नमः । ५२०
ॐ अङ्गिरसे नमः ।
ॐ चराचरमयाय नमः ।
ॐ शान्ताय नमः ।
ॐ शरभेशाय नमः ।
ॐ शतातपाय नमः ।
ॐ वीराराध्याय नमः ।
ॐ वक्रागमाय नमः ।
ॐ वेदाङ्गाय नमः ।
ॐ वेदपारगाय नमः ।
ॐ पर्वतारोहणाय नमः । ५३०
ॐ पूष्णे नमः ।
ॐ परमेशाय नमः ।
ॐ प्रजापतये नमः ।
ॐ भावज्ञाय नमः ।
ॐ भवरोगघ्नाय नमः ।
ॐ भवसागरतारणाय नमः ।
ॐ चिदग्निदेहाय नमः ।
ॐ चिद्रूपाय नमः ।
ॐ चिदानन्दाय नमः ।
ॐ चिदाकृतये नमः । ५४०
ॐ नाट्यप्रियाय नमः ।
ॐ नरपतये नमः ।
ॐ नरनारायणार्चिताय नमः ।
ॐ निषादराजाय नमः ।
ॐ नीहाराय नमः ।
ॐ नेष्ट्रे नमः ।
ॐ निष्टुरभाषणाय नमः ।
ॐ निम्नप्रियाय नमः ।
ॐ नीलनेत्राय नमः ।
ॐ नीलाङ्गाय नमः । ५५०
ॐ नीलकेशकाय नमः ।
ॐ सिंहाक्षाय नमः ।
ॐ सर्वविघ्नेशाय नमः ।
ॐ सामवेदपरायाणाय नमः ।
ॐ सनकादिमुनिध्येयाय नमः ।
ॐ शर्वरीशाय नमः ।
ॐ षडाननाय नमः ।
ॐ सुरूपाय नमः ।
ॐ सुलभाय नमः ।
ॐ स्वर्गाय नमः । ५६०
ॐ शचीनाथेनपूजिताय नमः ।
ॐ काकीनाय नमः ।
ॐ कामदहनाय नमः ।
ॐ दग्धपापाय नमः ।
ॐ धराधिपाय नमः ।
ॐ दामग्रन्धिने नमः ।
ॐ शतस्त्रीशाय नमः ।
ॐ तन्त्रीपालाय नमः ।
ॐ तारकाय नमः ।
ॐ ताम्राक्षाय नमः । ५७०
ॐ तीक्ष्णदंष्ट्राय नमः ।
ॐ तिलभोज्याय नमः ।
ॐ तिलोदराय नमः ।
ॐ माण्डुकर्णाय नमः ।
ॐ मृडाधीशाय नमः ।
ॐ मेरुवर्णाय नमः ।
ॐ महोदराय नमः ।
ॐ मार्त्ताण्डभैरवाराध्याय नमः ।
ॐ मणिरूपाय नमः ।
ॐ मरुद्वहाय नमः । ५८०
ॐ माषप्रियाय नमः ।
ॐ मधुपानाय नमः ।
ॐ मृणालाय नमः ।
ॐ मोहिनीपतये नमः ।
ॐ महाकामेशतनयाय नमः ।
ॐ माधवाय नमः ।
ॐ मदगर्विताय नमः ।
ॐ मूलाधाराम्बुजावासाय नमः ।
ॐ मूलविद्यास्वरूपकाय नमः ।
ॐ स्वाधिष्ठानमयाय नमः । ५९०
ॐ स्वस्थाय नमः ।
ॐ स्वस्तिवाक्याय नमः ।
ॐ स्रुवायुधाय नमः ।
ॐ मणिपूराब्जनिलयाय नमः ।
ॐ महाभैरवपूजिताय नमः ।
ॐ अनाहताब्जरसिकाय नमः ।
ॐ ह्रीङ्काररसपेशलाय नमः ।
ॐ भूमध्यवासाय नमः ।
ॐ भूकान्ताय नमः ।
ॐ भरद्वाजप्रपूजिताय नमः । ६००
ॐ सहस्राराम्बुजावासाय नमः ।
ॐ सवित्रे नमः ।
ॐ सामवाचकाय नमः ।
ॐ मुकुन्दाय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुणपूज्याय नमः ।
ॐ गुणाश्रयाय नमः ।
ॐ धन्याय नमः ।
ॐ धनभृते नमः ।
ॐ दाहाय नमः । ६१०
ॐ धनदानकराम्बुजाय नमः ।
ॐ महाशयाय नमः ।
ॐ महातीताय नमः ।
ॐ मायाहीनाय नमः ।
ॐ मदार्चिताय नमः ।
ॐ माठराय नमः ।
ॐ मोक्षफलदाय नमः ।
ॐ सद्वैरिकुलनाशनाय नमः ।
ॐ पिङ्गलाय नमः ।
ॐ पिञ्छचूडाय नमः । ६२०
ॐ पिशिताशपवित्रकाय नमः ।
ॐ पायसान्नप्रियाय नमः ।
ॐ पर्वपक्षमासविभाजकाय नमः ।
ॐ वज्रभूषाय नमः ।
ॐ वज्रकायाय नमः ।
ॐ विरिञ्चाय नमः ।
ॐ वरवक्षणाय नमः ।
ॐ विज्ञानकलिकावृन्दाय नमः ।
ॐ विश्वरूपप्रदर्शकाय नमः ।
ॐ डम्भघ्नाय नमः । ६३०
ॐ दामघोषघ्नाय नमः ।
ॐ दासपालाय नमः ।
ॐ तपौजसाय नमः ।
ॐ द्रोणकुम्भाभिषिक्ताय नमः ।
ॐ द्रोहिनाशाय नमः ।
ॐ तपातुराय नमः ।
ॐ महावीरेन्द्रवरदाय नमः ।
ॐ महासंसारनाशनाय नमः ।
ॐ लाकिनीहाकिनीलब्धाय नमः ।
ॐ लवणाम्भोधितारणाय नमः । ६४०
ॐ काकिलाय नमः ।
ॐ कालपाशघ्नाय नमः ।
ॐ कर्मबन्धविमोचकाय नमः ।
ॐ मोचकाय नमः ।
ॐ मोहनिर्भिन्नाय नमः ।
ॐ भगाराध्याय नमः ।
ॐ बृहत्तनवे नमः ।
ॐ अक्षयाय नमः ।
ॐ अक्रूरवरदाय नमः ।
ॐ वक्रागमविनाशनाय नमः । ६५०
ॐ डाकीनाय नमः ।
ॐ सूर्यतेजस्विने नमः ।
ॐ सर्पभूषाय नमः ।
ॐ सद्गुरवे नमः ।
ॐ स्वतन्त्राय नमः ।
ॐ सर्वतन्त्रेशाय नमः ।
ॐ दक्षिणादिगधीश्वराय नमः ।
ॐ सच्चिदानन्दकलिकाय नमः ।
ॐ प्रेमरूपाय नमः ।
ॐ प्रियङ्कराय नमः । ६६०
ॐ मिथ्याजगदधिष्टानाय नमः ।
ॐ मुक्तिदाय नमः ।
ॐ मुक्तिरूपकाय नमः ।
ॐ मुमुक्षवे नमः ।
ॐ कर्मफलदाय नमः ।
ॐ मार्गदक्षाय नमः ।
ॐ कर्मणाय नमः ।
ॐ महाबुद्धाय नमः ।
ॐ महाशुद्धाय नमः ।
ॐ शुकवर्णाय नमः । ६७०
ॐ शुकप्रियाय नमः ।
ॐ सोमप्रियाय नमः ।
ॐ सुरप्रियाय नमः ।
ॐ पर्वाराधनतत्पराय नमः ।
ॐ अजपाय नमः ।
ॐ जनहंसाय नमः ।
ॐ फलपाणिप्रपूजिताय नमः ।
ॐ अर्चिताय नमः ।
ॐ वर्धनाय नमः ।
ॐ वाग्मिने नमः । ६८०
ॐ वीरवेषाय नमः ।
ॐ विधुप्रियाय नमः ।
ॐ लास्यप्रियाय नमः ।
ॐ लयकराय नमः ।
ॐ लाभालाभविवर्जिताय नमः ।
ॐ पञ्चाननाय नमः ।
ॐ पञ्चगूडाय नमः ।
ॐ पञ्चयज्ञफलप्रदाय नमः ।
ॐ पाशहस्ताय नमः ।
ॐ पावकेशाय नमः । ६९०
ॐ पर्जन्यसमगर्जनाय नमः ।
ॐ पापारये नमः ।
ॐ परमोदाराय नमः ।
ॐ प्रजेशाय नमः ।
ॐ पङ्कनाशनाय नमः ।
ॐ नष्टकर्मणे नमः ।
ॐ नष्टवैराय नमः ।
ॐ इष्टसिद्धिप्रदायकाय नमः ।
ॐ नागाधीशाय नमः ।
ॐ नष्टपापाय नमः ।
ॐ इष्टनामविधायकाय नमः ।
ॐ सामरस्याय नमः ।
ॐ अप्रमेयाय नमः ।
ॐ पाषण्डिने नमः ।
ॐ पर्वतप्रियाय नमः ।
ॐ पञ्चकृत्यपराय नमः ।
ॐ पात्रे नमः ।
ॐ पञ्चपञ्चातिशायिकाय नमः ।
ॐ पद्माक्षाय नमः ।
ॐ पद्मवदनाय नमः । ७१०
ॐ पावकाभाय नमः ।
ॐ प्रियङ्कराय नमः ।
ॐ कार्तस्वराङ्गाय नमः ।
ॐ गौराङ्गाय नमः ।
ॐ गौरीपुत्राय नमः ।
ॐ धनेश्वराय नमः ।
ॐ गणेशाश्लिष्टदेहाय नमः ।
ॐ शितांशवे नमः ।
ॐ शुभदीधितये नमः ।
ॐ दक्षध्वंसाय नमः । ७२०
ॐ दक्षकराय नमः ।
ॐ वराय नमः ।
ॐ कात्यायनीसुताय नमः ।
ॐ सुमुखाय नमः ।
ॐ मार्गणाय नमः ।
ॐ गर्भाय नमः ।
ॐ गर्वभङ्गाय नमः ।
ॐ कुशासनाय नमः ।
ॐ कुलपालपतये नमः ।
ॐ श्रेष्ठाय नमः । ७३०
ॐ पवमानाय नमः ।
ॐ प्रजाधिपाय नमः ।
ॐ दर्शप्रियाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ दीर्घकायाय नमः ।
ॐ दिवाकराय नमः ।
ॐ भेरिनादप्रियाय नमः ।
ॐ वृन्दाय नमः ।
ॐ बृहत्सेनाय नमः ।
ॐ सुपालकाय नमः । ७४०
ॐ सुब्रह्मणे नमः ।
ॐ ब्रह्मरसिकाय नमः ।
ॐ रसज्ञाय नमः ।
ॐ रजताद्रिभासे नमः ।
ॐ तिमिरघ्नाय नमः ।
ॐ मिहिराभाय नमः ।
ॐ महानीलसमप्रभाय नमः ।
ॐ श्रीचन्दनविलिप्ताङ्गाय नमः ।
ॐ श्रीपुत्राय नमः ।
ॐ श्रीतरुप्रियाय नमः । ७५०
ॐ लाक्षावर्णाय नमः ।
ॐ लसत्कर्णाय नमः ।
ॐ रजनीध्वंसिसन्निभाय नमः ।
ॐ बिन्दुप्रियाय नमः ।
ॐ अम्बिकापुत्राय नमः ।
ॐ बैन्दवाय नमः ।
ॐ बलनायकाय नमः ।
ॐ आपन्नतारकाय नमः ।
ॐ तप्ताय नमः ।
ॐ तप्तकृछ्रफलप्रदाय नमः । ७६०
ॐ मरुद्वृधाय नमः ।
ॐ महाखर्वाय नमः ।
ॐ चिरावासय नमः ।
ॐ शिखिप्रियाय नमः ।
ॐ आयुष्मते नमः ।
ॐ अनघाय नमः ।
ॐ दूताय नमः ।
ॐ आयुर्वेदपरायणाय नमः ।
ॐ हंसाय नमः ।
ॐ परमहंसाय नमः । ७७०
ॐ अवधूताश्रमप्रियाय नमः ।
ॐ अश्ववेगाय नमः ।
ॐ अश्वहृदयाय नमः ।
ॐ हयधैर्याय फलप्रदाय नमः ।
ॐ सुमुखाय नमः ।
ॐ दुर्मुखाय नमः ।
ॐ विघ्नाय नमः ।
ॐ निर्विघ्नाय नमः ।
ॐ विघ्ननाशनाय नमः ।
ॐ आर्याय नमः । ७८०
ॐ नाथाय नमः ।
ॐ अर्यमाभासाय नमः ।
ॐ फाल्गुनाय नमः ।
ॐ भाललोचनाय नमः ।
ॐ अरातिघ्नाय नमः ।
ॐ घनग्रीवाय नमः ।
ॐ ग्रीष्मसूर्यसमप्रभाय नमः ।
ॐ किरीटिने नमः ।
ॐ कल्पशास्त्रज्ञाय नमः ।
ॐ कल्पानलविधायकाय नमः । ७९०
ॐ ज्ञानविज्ञानफलदाय नमः ।
ॐ विरिञ्चारिविनाशनाय नमः ।
ॐ वीरमार्ताण्डवरदाय नमः ।
ॐ वीरबाहवे नमः ।
ॐ पूर्वजाय नमः ।
ॐ वीरसिंहासनाय नमः ।
ॐ विज्ञाय नमः ।
ॐ वीरकार्याय नमः ।
ॐ अस्तदानवाय नमः ।
ॐ नरवीरसुहृद्भ्रात्रे नमः । ८००
ॐ नागरत्नविभूषिताय नमः ।
ॐ वाचस्पतये नमः ।
ॐ पुरारातये नमः ।
ॐ संवर्त्ताय नमः ।
ॐ समरेश्वराय नमः ।
ॐ उरुवाग्मिने नमः ।
ॐ उमापुत्राय नमः ।
ॐ उडुलोकसुरक्षकाय नमः ।
ॐ शृङ्गाररससम्पूर्णाय नमः ।
ॐ सिन्दूरतिलकाङ्गिताय नमः । ८१०
ॐ कुङ्कुमाङ्कित सर्वाङ्गाय नमः ।
ॐ कालकेयविनाशाय नमः ।
ॐ मत्तनागप्रियाय नमः ।
ॐ नेत्रे नमः ।
ॐ नागगन्धर्वपूजिताय नमः ।
ॐ सुस्वप्नबोधकाय नमः ।
ॐ बोधाय नमः ।
ॐ गौरीदुःस्वप्ननाशनाय नमः ।
ॐ चिन्ताराशिपरिध्वंसिने नमः ।
ॐ चिन्तामणिविभूषिताय नमः । ८२०
ॐ चराचरजगत्स्रष्टे नमः ।
ॐ चलत्कुण्डलकर्णयुगे नमः ।
ॐ मुकुरास्याय नमः ।
ॐ मूलनिधये नमः ।
ॐ निधिद्वयनिषेविताय नमः ।
ॐ नीराजनप्रीतमनसे नमः ।
ॐ नीलनेत्राय नमः ।
ॐ नयप्रदाय नमः ।
ॐ केदारेशाय नमः ।
ॐ किराताय नमः । ८३०
ॐ कालात्मने नमः ।
ॐ कल्पविग्रहाय नमः ।
ॐ कल्पान्तभैरवाराध्याय नमः ।
ॐ कङ्कपत्रशरायुधाय नमः ।
ॐ कलाकाष्ठास्वरूपाय नमः ।
ॐ ऋतुवर्षादिमासवते नमः ।
ॐ दिनेशमण्डलावासाय नमः ।
ॐ वासवाभिप्रपूजिताय नमः ।
ॐ बहूलास्तम्बकर्मज्ञाय नमः ।
ॐ पञ्चाशद्वर्णरूपकाय नमः । ८४०
ॐ चिन्ताहीनाय नमः ।
ॐ चिदाक्रान्ताय नमः ।
ॐ चारुपालाय नमः ।
ॐ हलायुधाय नमः ।
ॐ बन्धूककुसुमप्रख्याय नमः ।
ॐ परगर्वविभञ्जनाय नमः ।
ॐ विद्वत्तमाय नमः ।
ॐ विराधघ्नाय नमः ।
ॐ सचित्राय नमः ।
ॐ चित्रकर्मकाय नमः । ८५०
ॐ सङ्गीतलोलुपमनसे नमः ।
ॐ स्निग्धगम्भीरगर्जिताय नमः ।
ॐ तुङ्गवक्त्राय नमः ।
ॐ स्तवरसाय नमः ।
ॐ अभ्राभाय नमः ।
ॐ भ्रमरेक्षणाय नमः ।
ॐ लीलाकमलहस्ताब्जाय नमः ।
ॐ बालकुन्दविभूषिताय नमः ।
ॐ लोध्रप्रसवशुद्धाभाय नमः ।
ॐ शिरीषकुसुमप्रियाय नमः । ८६०
ॐ त्रस्तत्राणकराय नमः ।
ॐ तत्त्वाय नमः ।
ॐ तत्त्ववाक्यार्धबोधकाय नमः ।
ॐ वर्षीयसे नमः ।
ॐ विधिस्तुत्याय नमः ।
ॐ वेदान्तप्रतिपादकाय नमः ।
ॐ मूलभुताय नमः ।
ॐ मूलतत्वाय नमः ।
ॐ मूलकारणविग्रहाय नमः ।
ॐ आदिनाथाय नमः । ८७०
ॐ अक्षयफलाय नमः ।
ॐ पाणिजन्मने नमः ।
ॐ अपराजिताय नमः ।
ॐ गानप्रियाय नमः ।
ॐ गानलोलाय नमः ।
ॐ महेशाय नमः ।
ॐ विज्ञमानसाय नमः ।
ॐ गिरिजास्तन्यरसिकाय नमः ।
ॐ गिरिराजवरस्तुताय नमः ।
ॐ पीयूषकुम्भहस्ताब्जाय नमः । ८८०
ॐ पाशत्यागिने नमः ।
ॐ चिरन्तनाय नमः ।
ॐ सुधालालसवक्त्राब्जाय नमः ।
ॐ सुरद्रुमफलेप्सिताय नमः ।
ॐ रत्नहाटकभूषाङ्गाय नमः ।
ॐ रावणाभिप्रपूजिताय नमः ।
ॐ कनत्कालेयसुप्रीताय नमः ।
ॐ क्रौञ्चगर्वविनाशनाय नमः ।
ॐ अशेषजनसम्मोहनाय नमः ।
ॐ आयुर्विद्याफलप्रदाय नमः । ८९०
ॐ अवबद्धदुकूलाङ्गाय नमः ।
ॐ हारालङ्कृतकन्धराय नमः ।
ॐ केतकीकुसुमप्रियाय नमः ।
ॐ कलभैःपरिवारिताय नमः ।
ॐ केकाप्रियाय नमः ।
ॐ कार्तिकेयाय नमः ।
ॐ सारङ्गनिनदप्रियाय नमः ।
ॐ चातकालापसन्तुष्टाय नमः ।
ॐ चमरीमृगसेविताय नमः ।
ॐ आम्रकूटाद्रिसञ्चाराय नमः । ९००
ॐ आम्नायफलदायकाय नमः ।
ॐ धृताक्षसूत्रपाणये नमः ।
ॐ अक्षिरोगविनाशनाय नमः ।
ॐ मुकुन्दपूज्याय नमः ।
ॐ मोहाङ्गाय नमः ।
ॐ मुनिमानसतोषिताय नमः ।
ॐ तैलाभिषिक्तसुशिरसे नमः ।
ॐ तर्जनीमुद्रिकायुताय नमः ।
ॐ तटातकामनःप्रीताय नमः ।
ॐ तमोगुणविनाशनाय नमः । ९१०
ॐ अनामयाय नमः ।
ॐ अनादर्शाय नमः ।
ॐ अर्जुनाभाय नमः ।
ॐ हुतप्रियाय नमः ।
ॐ षाड्गुण्यपरिसम्पूर्णाय नमः ।
ॐ सप्ताश्वादिग्रहैः स्तुताय नमः ।
ॐ वीतशोकाय नमः ।
ॐ प्रसादज्ञाय नमः ।
ॐ सप्तप्राणवरप्रदाय नमः ।
ॐ सप्तार्चिषे नमः । ९२०
ॐ त्रिनयनाय नमः ।
ॐ त्रिवेणीफलदायकाय नमः ।
ॐ कृष्णवर्त्मने नमः ।
ॐ देवमुखाय नमः ।
ॐ दारुमण्डलमध्यकाय नमः ।
ॐ वीरनूपुरपादाब्जाय नमः ।
ॐ वीरकङ्कणपाणिमते नमः ।
ॐ विश्वमूर्तये नमः ।
ॐ शुद्धमुखाय नमः ।
ॐ शुद्धभस्मानुलेपनाय नमः । ९३०
ॐ शुम्भध्वंसिन्यासम्पूज्याय नमः ।
ॐ रक्तबीजकुलान्तकाय नमः ।
ॐ निषादादिसुरप्रीताय नमः ।
ॐ नमस्कारफलप्रदाय नमः ।
ॐ भक्तारिपञ्चतादायिने नमः ।
ॐ सज्जीकृतशरायुधाय नमः ।
ॐ अभयङ्करमन्त्रज्ञाय नमः ।
ॐ कुब्जिकामन्त्रविग्रहाय नमः ।
ॐ धूम्राश्वाय नमः ।
ॐ उग्रतेजस्विने नमः । ९४०
ॐ दशकण्ठविनाशनाय नमः ।
ॐ आशुगायुधहस्ताब्जाय नमः ।
ॐ गदायुधकराम्बुजाय नमः ।
ॐ पाशायुधसुपाणये नमः ।
ॐ कपालायुधसद्भुजाय नमः ।
ॐ सहस्रशीर्षवदनाय नमः ।
ॐ सहस्रद्वयलोचनाय नमः ।
ॐ नानाहेतये नमः ।
ॐ धनुष्पाणये नमः ।
ॐ नानास्रग्भूषणप्रियाय नमः । ९५०
ॐ आश्यामकोमलतनवे नमः ।
ॐ आरक्तापाङ्गलोचनाय नमः ।
ॐ द्वादशाहक्रतुप्रीताय नमः ।
ॐ पौण्डरीकफलप्रदाय नमः ।
ॐ अप्तोऽर्यामक्रतुमयाय नमः ।
ॐ चयनादिफलप्रदाय नमः ।
ॐ पशुबन्धस्यफलदाय नमः ।
ॐ वाजपेयात्मदैवताय नमः ।
ॐ आब्रह्मकीटजननावनात्मने नमः । ९६०
ॐ चम्पकप्रियाय नमः ।
ॐ पशुपाशविभागज्ञाय नमः ।
ॐ परिज्ञानप्रदायकाय नमः ।
ॐ कल्पेश्वराय नमः ।
ॐ कल्पवर्याय नमः ।
ॐ जातवेदप्रभाकराय नमः ।
ॐ कुम्भीश्वराय नमः ।
ॐ कुम्भपाणये नमः ।
ॐ कुङ्कुमाक्तललाटकाय नमः ।
ॐ शिलीन्ध्रपत्रसङ्काशाय नमः । ९७०
ॐ सिंहवक्त्रप्रमर्दनाय नमः ।
ॐ कोकिलक्वणनाकर्णिने नमः ।
ॐ कालनाशनतत्पराय नमः ।
ॐ नैयायिकमतघ्नाय नमः ।
ॐ बौद्धसङ्घविनाशनाय नमः ।
ॐ धृतहेमाब्जपाणये नमः ।
ॐ होमसन्तुष्टमानसाय
ॐ पितृयज्ञस्यफलदाय नमः ।
ॐ पितृवज्जनरक्षकाय नमः ।
ॐ पदातिकर्मनिरताय नमः ।
ॐ पृषदाज्यप्रदायकाय नमः । ९८०
ॐ महासुरवधोद्युक्ताय नमः ।
ॐ स्वास्त्रप्रत्यस्त्रवर्षकाय नमः ।
ॐ महावर्षतिरोधानाय नमः ।
ॐ नागाभृतकराम्बुजाय नमः ।
ॐ नमःस्वाहावषड्वौषट्वल्लवप्रतिपादकाय नमः ।
ॐ महीरसदृशग्रीवाय नमः ।
ॐ महीरसदृशस्तवाय नमः ।
ॐ तन्त्रीवादनहस्ताग्राय नमः ।
ॐ सङ्गीतप्रियमानसाय नमः । ९९०
ॐ चिदंशमुकुरावासाय नमः ।
ॐ मणिकूटाद्रिसञ्चाराय नमः ।
ॐ लीलासञ्चारतनुकाय नमः ।
ॐ लिङ्गशास्त्रप्रवर्तकाय नमः ।
ॐ राकेन्दुद्युतिसम्पन्नाय नमः ।
ॐ यागकर्मफलप्रदाय नमः ।
ॐ मैनाकगिरिसञ्चारिणे नमः ।
ॐ मधुवंशविनाशनाय नमः ।
ॐ तालखण्डपुरावासाय नमः ।
ॐ तमालनिभतेजसे नमः ।
ॐ पूर्णापुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः । १००१
इति श्रीधर्मशास्ता अथवा श्रीहरिहरपुत्रसहस्रनामावलिः समाप्ता ।
Encoded George Mathew george.seagull at gmail.com
Proofread by George Mathew, PSA Easwaran