शास्तृशवर्णसहस्रनामस्तोत्रम्
॥ श्रीः ॥
अस्य श्रीशास्तृशवर्णसहस्रनामस्तोत्रमहामन्त्रस्य
नैध्रुव ऋषिः, अनुष्टुप्छन्दः, शास्ता देवता ।
ॐ भूताधिपाय विद्महे इति बीजम् ।
ॐ महादेवाय धीमहि इति शक्तिः ।
ॐ तन्नः शास्ता प्रचोदयात् इति कीलकम् ।
साधकाभीष्टसाधने पूजने विनियोगः ।
ॐ ह्रां भूताधिपाय विद्महे अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं महादेवाय धीमहि तर्जनीभ्यां नमः ।
ॐ ह्रूं तन्नः शास्ता प्रचोदयात् मध्यमाभ्यां नमः ।
ॐ ह्रैं तन्नः शास्ता प्रचोदयात् अनामिकाभ्यां नमः ।
ॐ ह्रौं महादेवाय धीमहि कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः भूताधिपाय विद्महे करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
ध्यानं -
श्रीशोमेशात्मपुत्रं श्रितजनवरदं श्लाघनीयापदानं
क्लेशोद्भ्रान्तिप्रणाशं क्लिशितरिपुचयं क्लेदसङ्काशमात्रम् ।
कोशोच्चाश्वाधिरूढं परिगतमृगयाखेलनानन्दचित्तं
पाशोच्चण्डास्त्रपाणिं वरदमभयदं स्तौमि शास्तारमीशम् ॥
ॐ शन्नो दाता शम्भृताङ्कः शन्तनुः शन्तनुस्तुतः ।
शंवाच्यः शङ्कृतिप्रीतः शन्दः शान्तनवस्तुतः ॥ १॥
शङ्करः शङ्करी शम्भुः शम्भूर्वै शम्भुवल्लभः ।
शंसः शंस्थापतिः शंस्यः शंसितः शङ्करप्रियः ॥ २॥
शंयुः शङ्खः शम्भवोऽपि शंसापात्रं शकेडितः ।
शकटघ्नार्चितः शक्तः शकारिपरिपूजितः ॥ ३॥
शकुनज्ञः शकुनदः शकुनीश्वरपालकः ।
शकुनारूढविनुतः शकटासुफल (प्रदः) प्रियः ॥ ४॥
शकुन्तेशात्मजस्तुत्यः शकलाक्षकयुग्रथः ।
शकृत्करिस्तोमपालः शक्वरीच्छन्दईडितः ॥ ५॥
शक्तिमान् शक्तिभृद्भक्तः शक्तिभृच्छक्तिहेतिकः ।
शक्तः शक्रस्तुतः शक्यः शक्रगोपतनुच्छविः ॥ ६॥
शक्रजायाभीष्टदाता शक्रसारथिरक्षकः ।
शक्राणीविनुतः शक्लः शक्रोत्सवसमातृकः ॥ ७॥
शक्वरध्वजसम्प्राप्तबलैश्वर्यविराजितः ।
शक्रोत्थानक्रियारम्भबलिपूजाप्रमोदितः ॥ ८॥
शङ्कुः शङ्काविरहितः शङ्करीचित्तरञ्जकः ।
शङ्करावासधौरेयः शङ्करालयभोगदः ॥ ९॥
शङ्करालङ्कृतदरः शङ्खी शङ्खनिधीश्वरः ।
शङ्खध्मः शङ्खभृच्छङ्खनखः शङ्खजभूषणः ॥ १०॥
शङ्खास्यः शङ्खिनीलोलः शङ्खिकः शङ्खभृत्प्रियः ।
शचीविरहविध्वस्तः शचीपतिविनोददः ॥ ११॥
शटीगन्धः शटाजूटः शठमूलकृतादरः ।
शठपुष्पधरः शस्ता शठात्मकनिबर्हणः ॥ १२॥
शणसूत्रधरः शाणी शाण्डिल्यादिमुनिस्तुतः ।
शतकीर्तिः शतधृतिः शतकुन्दसुमप्रियः ॥ १३॥
शतकुम्भाद्रिनिलयः शतक्रतुजयप्रदः ।
शतद्रुतटसञ्चारी शतकण्ठसमद्युतिः ॥ १४॥
शतवीर्यः शतबलः शताङ्गी शतवाहनः ।
शत्रुघ्नः शत्रुघ्ननुतः शत्रुजिच्छत्रुवञ्चकः ॥ १५॥
शलालुकन्धरधरः शनिपीडाहरः शिखी ।
शनिप्रदोषसञ्जातस्वभक्तभरणोत्सुकः ॥ १६॥
शन्यर्चितः शनित्राणः शन्यनुग्रहकारकः ।
शबराखेटनरतः शपथः शपथक्षणः ॥ १७॥
शब्दनिष्ठः शब्दवेदी शमी शमधनस्तुतः ।
शमीगर्भप्रियः शम्बः शम्बरारिसहोदरः ॥ १८॥
शयण्डविमुखः शण्डी शरणागतरक्षकः ।
शरजन्मप्राणसखः शरजन्मसहोदरः ॥ १९॥
शरजन्मानुसरणः शरजन्मचमूपतिः ।
शरजन्मामात्यवर्यः शरजन्मप्रियङ्करः ॥ २०॥
शरजन्मगणाधीशः शरजन्माश्रयाधरः ।
शरजन्माग्रसञ्चारी शरासनधरः शरी ॥ २१॥
शरारुघ्नः शर्कुरेष्टः शर्मदः शर्मविग्रहः ।
शर्यातिजयदः शस्त्री शशभृद्भूषनन्दनः ॥ २२॥
शश्वद्बलानुकूलोऽपि शष्कुलीभक्षणादरः ।
शस्तः शस्तवरः शस्तकेशकः शस्तविग्रहः ॥ २३॥
शस्त्राढ्यः शस्त्रभृद्देवः शस्त्रक्रीडाकुतूहलः ।
शस्यायुधः शार्ङ्गपाणिः शार्ङ्गिस्त्रीप्रियनन्दनः ॥ २४॥
शाकप्रियः शाकदेवः शाकटायनसंस्तुतः ।
शाक्तधर्मरतः शाक्तः शाक्तिकः शाक्तरञ्जकः ॥ २५॥
शाकिनीडाकिनीमुख्ययोगिनीपरिसेवितः ।
तथा शाड्वलनाथश्च शाठ्यकर्मरताहितः ॥ २६॥
शाण्डिल्यगोत्रवरदः शान्तात्मा शातपत्रकः ।
शातकुम्भसुमप्रीतः शातकुम्भजटाधरः ॥ २७॥
शातोदरप्रभः शाभः शाड्वलक्रीडनादरः ।
शानपादारसञ्चारी शात्रवान्वयमर्दनः ॥ २८॥
शान्तः शान्तनिधिः शान्तिः शान्तात्मा शान्तिसाधकः ।
शान्तिकृच्छान्तिकुशलः शान्तधीः शान्तविग्रहः ॥ २९॥
शान्तिकामः शान्तिपतिः शान्तीड्यः शान्तिवाचकः ।
शान्तस्तुतः शान्तनुतः शान्तेड्यः शान्तपूजितः ॥ ३०॥
शापास्त्रः शापकुशलः शापायुधसुपूजितः ।
शापघ्नः शापदीनेड्यः शापद्विट् शापनिग्रहः ॥ ३१॥
शापार्जितः शाकटिकवाहप्रीतश्च शामिनी ।
शाब्दिकः शाब्दिकनुतः शाब्दबोधप्रदायकः ॥ ३२॥
शाम्बरागमवेदी च शाम्बरः शाम्बरोत्सवः ।
शामिनीदिग्विहारोऽथ शामित्रगणपालकः ॥ ३३॥
शाम्भवः शाम्भवाराध्यः शामिलालेपनादरः ।
शाम्भवेष्टः शाम्भवाढ्यः शाम्भवी शम्भुपूजकः ॥ ३४॥
शारभ्रूः शारदः शारी शारदानिवहद्युतिः ।
शारदेड्यः शारदीष्टः शारिस्थः शारुकान्तकः ॥ ३५॥
शार्कुखादी शार्कुरेष्टः शारीरमलमोचकः ।
शार्ङ्गी शार्ङ्गिसुतः शार्ङ्गिप्रीतः शार्ङ्गिप्रियादरः ॥ ३६॥
शार्दूलाक्षः शार्वराभः शार्वरीप्रियशेखरः ।
शालङ्कीड्यः शालवाभः शालकामार्चकादरः ॥ ३७॥
शाश्वतः शाश्वतैश्वर्यः शासिता शासनादरः ।
शास्त्रज्ञः शास्त्रतत्त्वज्ञः शास्त्रदर्शी च शास्त्रवित् ॥ ३८॥
शास्त्रचक्षुः शास्त्रकर्षी (कुक्षी) शास्त्रकृच्छास्त्रचारणः ।
शास्त्री शास्त्रप्रतिष्ठाता शास्त्रार्थः शास्त्रपोषकः ॥ ३९॥
शास्त्रहेतुः शास्त्रसेतुः शास्त्रकेतुश्च शास्त्रभूः ।
शास्त्राश्रयः शास्त्रगेयः शास्त्रकारश्च शास्त्रदृक् ॥ ४०॥
शास्त्राङ्गः शास्त्रपूज्यश्च शास्त्रग्रथनलालसः ।
शास्त्रप्रसाधकः शास्त्रज्ञेयः शास्त्रार्थपण्डितः ॥ ४१॥
शास्त्रपारङ्गतः शास्त्रगुणविच्छास्त्रशोधकः ।
शास्त्रकृद्वरदाता च शास्त्रसन्दर्भबोधकः ॥ ४२॥
शास्त्रकृत्पूजितः शास्त्रकरः शास्त्रपरायणः ।
शास्त्रानुरक्तः शास्त्रात्मा शास्त्रसन्देहभञ्जकः ॥ ४३॥
शास्त्रनेता शास्त्रपूतः शास्त्रयोनिश्च शास्त्रहृत् ।
शास्त्रलोलः शास्त्रपालः शास्त्रकृत्परिरक्षकः ॥ ४४॥
शास्त्रधर्मः शास्त्रकर्मा शास्त्रशीलश्च शास्त्रनुत् ।
शास्त्रदृष्टिः शास्त्रपुष्टिः शास्त्रतुष्टिश्च शास्त्रचित् ॥ ४५॥
शास्त्रशुद्धिः शास्त्रबुद्धिः शास्त्रधीः शास्त्रवर्धनः ।
शास्त्रप्रज्ञः शास्त्रविज्ञः शास्त्रार्थी शास्त्रमण्डलः ॥ ४६॥
शास्त्रस्पृक् शास्त्रनिपुणः शास्त्रसृक् शास्त्रमङ्गलः ।
शास्त्रधीरः शास्त्रशूरः शास्त्रवीरश्च शास्त्रसत् ॥ ४७॥
शास्त्राधिपः शास्त्रदेवः शास्त्रक्रीडोऽथ शास्त्रराट् ।
शास्त्राढ्यः शास्त्रसारज्ञः शास्त्रं शास्त्रप्रदर्शकः ॥ ४८॥
शास्त्रप्रौढः शास्त्ररूढः शास्त्रगूढश्च शास्त्रपः ।
शास्त्रध्यानः शास्त्रगुणः शास्त्रेशानश्च शास्त्रभूः ॥ ४९॥
शास्त्रज्येष्ठः शास्त्रनिष्ठः शास्त्रश्रेष्ठश्च शास्त्ररुक् ।
शास्त्रत्राता शास्त्रभर्ता शास्त्रकर्ता च शास्त्रमुत् ॥ ५०॥
शास्त्रधन्यः शास्त्रपुण्यः शास्त्रगण्यश्च शास्त्रधीः ।
शास्त्रस्फूर्तिः शास्त्रमूर्तिः शास्त्रकीर्तिश्च शास्त्रभृत् ॥ ५१॥
शास्त्रप्रियः शास्त्रजायः शास्त्रोपायश्च शास्त्रगीः ।
शास्त्राधारः शास्त्रचरः शास्त्रसारश्च शास्त्रधुक् ॥ ५२॥
शास्त्रप्राणः शास्त्रगणः शास्त्रत्राणश्च शास्त्रभाक् ।
शास्त्रनाथः शास्त्ररथः शास्त्रसेनश्च शास्त्रदः ॥ ५३॥
शास्त्रस्वामी शास्त्रभूमा शास्त्रकामी च शास्त्रभुक् ।
शास्त्रप्रख्यः शास्त्रमुख्यः शास्त्रविख्योऽथ शास्त्रवान् ॥ ५४॥
शास्त्रवर्णः शास्त्रपूर्णः शास्त्रकर्णोऽथ शास्त्रपुट् ।
शास्त्रभोगः शास्त्रयोगः शास्त्रभागश्च शास्त्रयुक् ॥ ५५॥
शास्त्रोज्ज्वलः शास्त्रबालः शास्त्रनामा च शास्त्रभुक् ।
शास्त्रश्रीः शास्त्रसन्तुष्टः शास्त्रोक्तः शास्त्रदैवतम् ॥ ५६॥
शास्त्रमौलिः शास्त्रकेलिः शास्त्रपालिश्च शास्त्रमुक् ।
शास्त्रराज्यः शास्त्रभोज्यः शास्त्रेज्यः शास्त्रयाजकः ॥ ५७॥
शास्त्रसौख्यः शास्त्रविभुः शास्त्रप्रेष्ठश्च शास्त्रजुट् ।
शास्त्रवीर्यः शास्त्रकार्यः शास्त्रार्हः शास्त्रतत्परः ॥ ५८॥
शास्तग्राही शास्त्रवहः शास्त्राक्षः शास्त्रकारकः ।
शास्त्रश्रीदः शास्त्रदेहः शास्त्रशेषश्च शास्त्रत्विट् ॥ ५९॥
शास्त्रह्लादी शास्त्रकलः शास्त्ररश्मिश्च शास्त्रधीः ।
शास्त्रसिन्धुः शास्त्रबन्धुः शास्त्रयत्नश्च शास्त्रभित् ॥ ६०॥
शास्त्रप्रदर्शी शास्त्रेष्टः शास्त्रभूषश्च शास्त्रगः ।
शास्त्रसङ्घः शास्त्रसखस्तथा शास्त्रविशारदः ॥ ६१॥
शास्त्रप्रीतः शास्त्रहितः शास्त्रपूतोऽथ शास्त्रकृत् ।
शास्त्रमाली शास्त्रयायी शास्त्रीयः शास्त्रपारदृक् ॥ ६२॥
शास्त्रस्थायी शास्त्रचारी शास्त्रगीः शास्त्रचिन्तनः ।
शास्त्रध्यानः शास्त्रगानः शास्त्राली शास्त्रमानदः ॥ ६३॥
शिक्यपालः शिक्यरक्षः शिखण्डी शिखरादरः ।
शिखरं शिखरीन्द्रस्थः शिखरीव्यूहपालकः ॥ ६४॥
शिखरावासनप्रीतः शिखावलवशादृतः ।
शिखावान्शिखिमित्रश्च शिखीड्यः शिखिलोचनः ॥ ६५॥
शिखायोगरतः शिग्रुप्रीतः शिग्रुजखादनः ।
शिग्रुजेक्षुरसानन्दः शिखिप्रीतिकृतादरः ॥ ६६॥
शितः शितिः शितिकण्ठादरश्च शितिवक्षरुक् ।
शिञ्जञ्जिकाहेमकान्तिवस्त्रः शिञ्जितमण्डितः ॥ ६७॥
शिथिलारिगणः शिञ्जी शिपिविष्टप्रियः शिफी ।
शिबिप्रियः शिबिनुतः शिबीड्यश्च शिबिस्तुतः ॥ ६८॥
शिबिकष्टहरः शिव्याश्रितश्च शिबिकाप्रियः ।
शिबिरी शिबिरत्राणः शिबिरालयवल्लभः ॥ ६९॥
शिबिवल्लभसत्प्रेमा शिराफलजलादरः ।
शिरजालङ्कृतशिराः शिरस्त्राणविभूषितः ॥ ७०॥
शिरोरत्नप्रतीकाशः शिरोवेष्टनशोभितः ।
शिलादसंस्तुतः शिल्पी शिवदश्च शिवङ्करः ॥ ७१॥
शिवः शिवात्मा शिवभूः शिवकृच्छिवशेखरः ।
शिवज्ञः शिवकर्मज्ञः शिवधर्मविचारकः ॥ ७२॥
शिवजन्मा शिवावासः शिवयोगी शिवास्पदः ।
शिवस्मृतिः शिवधृतिः शिवार्थः शिवमानसः ॥ ७३॥
शिवाढ्यः शिववर्यज्ञः शिवार्थः शिवकीर्तनः ।
शिवेश्वरः शिवाराध्यः शिवाध्यक्षः शिवप्रियः ॥ ७४॥
शिवनाथः शिवस्वामी शिवेशः शिवनायकः ।
शिवमूर्तिः शिवपतिः शिवकीर्तिः शिवादरः ॥ ७५॥
शिवप्राणः शिवत्राणः शिवत्राता शिवाज्ञकः ।
शिवपश्च शिवक्रीडः शिवदेवः शिवाधिपः ॥ ७६॥
शिवज्येष्ठः शिवश्रेष्ठः शिवप्रेष्ठः शिवाधिराट् ।
शिवराट् शिवगोप्ता च शिवाङ्गः शिवदैवतः ॥ ७७॥
शिवबन्धुः शिवसुहृच्छिवाधीशः शिवप्रदः ।
शिवाग्रणीः शिवेशानः शिवगीतः शिवोच्छ्रयः ॥ ७८॥
शिवस्फूर्तिः शिवसुतः शिवप्रौढःशिवोद्यतः ।
शिवसेनः शिवचरः शिवभर्ता शिवप्रभुः ॥ ७९॥
शिवैकराट् शिवप्रज्ञः शिवसारः शिवस्पृहः ।
शिवग्रीवः शिवनामा शिवभूतिः शिवान्तरः ॥ ८०॥
शिवमुख्यः शिवप्रख्यः शिवविख्यः शिवाख्यगः ।
शिवध्याता शिवोद्गाता शिवदाता शिवस्थितिः ॥ ८१॥
शिवानन्दः शिवमतिः शिवार्हः शिवतत्परः ।
शिवभक्तः शिवासक्तः शिवशक्तः शिवात्मकः ॥ ८२॥
शिवदृक् शिवसम्पन्नः शिवहृच्छिवमण्डितः ।
शिवभाक् शिवसन्धाता शिवश्लाघी शिवोत्सुकः ॥ ८३॥
शिवशीलः शिवरसः शिवलोलः शिवोत्कटः ।
शिवलिङ्गः शिवपदः शिवसन्धः शिवोज्ज्वलः ॥ ८४॥
शिवश्रीदः शिवकलः शिवमान्यः शिवप्रदः ।
शिवव्रतः शिवहितः शिवप्रीतः शिवाशयः ॥ ८५॥
शिवनिष्ठः शिवजपः शिवसंज्ञः शिवोर्जितः ।
शिवमानः शिवस्थानः शिवगानः शिवोपमः ॥ ८६॥
शिवानुरक्तः शिवहृच्छिवहेतुः शिवार्चकः ।
शिवकेलिः शिववटुः शिवचाटुः शिवास्त्रवित् ॥ ८७॥
शिवसङ्गः शिवधरः शिवभावः शिवार्थकृत् ।
शिवलीलः शिवस्वान्तः शिवेच्छः शिवदायकः ॥ ८८॥
शिवशिष्यः शिवोपायः शिवेष्टः शिवभावनः ।
शिवप्रधीः शिवविभुः शिवाभीष्टः शिवध्वजः ॥ ८९॥
शिववान् शिवसम्मोहः शिवर्धिः शिवसम्भ्रमः ।
शिवश्रीः शिवसङ्कल्पः शिवगात्रः शिवोक्तिदः ॥ ९०॥
शिववेषः शिवोत्कर्षः शिवभाषः शिवोत्सुकः ।
शिवमूलः शिवापालः शिवशूलः शिवाबलः ॥ ९१॥
शिवाचारः शिवाकारः शिवोदारः शिवाकरः ।
शिवहृष्टः शिवोद्दिष्टः शिवतुष्टः शिवेष्टदः ॥ ९२॥
शिवडिम्भः शिवारम्भः शिवोज्जृम्भः शिवाभरः ।
शिवमायः शिवचयः शिवदायः शिवोच्छ्रयः ॥ ९३॥
शिवव्यूहः शिवोत्साहः शिवस्नेहः शिवावहः ।
शिवलोकः शिवालोकः शिवौकाः शिवसूचकः ॥ ९४॥
शिवबुद्धिः शिवर्धिश्च शिवसिद्धिः शिवर्धिदः ।
शिवधीः शिवसंशुद्धिः शिवधीः शिवसिद्धिदः ॥ ९५॥
शिवनामा शिवप्रेमा शिवभूः शिववित्तमः ।
शिवाविष्टः शिवादिष्टः शिवाभीष्टः शिवेष्टकृत् ॥ ९६॥
शिवसेवी शिवकविः शिवख्यातः शिवच्छविः ।
शिवलीनः शिवच्छन्नः शिवध्यानः शिवस्वनः ॥ ९७॥
शिवपालः शिवस्थूलः शिवजालः शिवालयः ।
शिवावेशः शिवोद्देशः शिवादेशः शिवोद्यतः ॥ ९८॥
शिवपक्षः शिवाध्यक्षः शिवरक्षः शिवेक्षणः ।
शिवपद्यः शिवोद्विद्यः शिवहृद्यः शिवाद्यकः ॥ ९९॥
शिवपाद्यः शिवस्वाद्यः शिवार्घ्यः शिवपाद्यकः ।
शिवार्हः शिवहार्दश्च शिवबिम्बः शिवार्भकः ॥ १००॥
शिवमण्डलमध्यस्थः शिवकेलिपरायणः ।
शिवामित्रप्रमथनः शिवभक्तार्तिनाशनः ॥ १०१॥
शिवभक्तिप्रियरतः शिवप्रवणमानसः ।
शिववाल्लभ्यपुष्टाङ्गः शिवारिहरणोत्सुकः ॥ १०२॥
शिवानुग्रहसन्धाता शिवप्रणयतत्परः ।
शिवपादाब्जलोलम्बः शिवपूजापरायणः ॥ १०३॥
शिवकीर्तनसन्तुष्टः शिवोल्लासक्रियादरः ।
शिवापदानचतुरः शिवकार्यानुकूलदः ॥ १०४॥
शिवपुत्रप्रीतिकरः शिवाश्रितगणेष्टदः ।
शिवमूर्धाभिषिक्ताङ्गः शिवसैन्यपुरःसरः ॥ १०५॥
शिवविश्वाससम्पूर्णः शिवप्रमथसुन्दरः ।
शिवलीलाविनोदज्ञः शिवविष्णुमनोहरः ॥ १०६॥
शिवप्रेमार्द्रदिव्याङ्गः शिववागमृतार्थवित् ।
शिवपूजाग्रगण्यश्च शिवमङ्गलचेष्टितः ॥ १०७॥
शिवदूषकविध्वंसी शिवाज्ञापरिपालकः ।
शिवसंसारशृङ्गारः शिवज्ञानप्रदायकः ॥ १०८॥
शिवस्थानधृतोद्दण्डः शिवयोगविशारदः ।
शिवप्रेमास्पदोच्चण्डदण्डनाडम्बरोद्भटः ॥ १०९॥
शिवार्चकपरित्राता शिवभक्तिप्रदायकः ।
शिवध्यानैकनिलयः शिवधर्मपरायणः ॥ ११०॥
शिवस्मरणसान्निध्यः शिवानन्दमहोदरः ।
शिवप्रसादसन्तुष्टः शिवकैवल्यमूलकः ॥ १११॥
शिवसङ्कीर्तनोल्लासः शिवकैलासभोगदः ।
शिवप्रदोषपूजात्तसर्वसौभाग्यसुन्दरः ॥ ११२॥
शिवलिङ्गार्चनासक्तः शिवनामस्मृतिप्रदः ।
शिवालयस्थापकश्च शिवाद्रिक्रीडनोत्सुकः ॥ ११३॥
शिवापदाननिपुणः शिववाक्परिपालकः ।
शिवानीप्रीतिकलशः शिवारातिविनाशकः ॥ ११४॥
शिवात्मकक्रियालोलः शिवसायुज्यसाधकः ।
शिशिरेष्टः शिशिरदः शिशिरर्तुप्रियः शिशुः ॥ ११५॥
शिशुप्रियः शिशुत्राता शिशुभाषी शिशूत्सवः ।
शिशुपालनतात्पर्यः शिशुपूज्यः शिशुक्षमः ॥ ११६॥
शिशुपालक्रोधहरः शिशुशक्तिधरस्तुतः ।
शिशुपालघ्नविनुतः शिशुपालनचेष्टितः ॥ ११७॥
शिशुचान्द्रायणप्रीतः शिशुभावावनप्रभुः ।
शीकरप्रणयः शीकराङ्गः शीघ्रश्च शीघ्रशः ॥ ११८॥
शीघ्रवेदी शीघ्रगामी शीघ्रयोद्धा च शीघ्रधीः ।
शीघ्रकप्रियकृच्छीघ्री शीघ्रदाता च शीघ्रभृत् ॥ ११९॥
शीतालङ्करणः शीतजलास्वादनतत्परः ।
शीतः शीतकरः शीतपुष्पधारी च शीतगुः ॥ १२०॥
शीतप्रियः शीतभानुः शीतरश्मिश्च शीतलः ।
शीताप्रभः शीतलाढ्यः शीतांशुः शीतवीर्यकः ॥ १२१॥
शीतलाङ्गः शीतसहः शीताद्रिनिलयप्रियः ।
शीत्पुटभ्रुः शीतनेत्रः शीर्णाङ्घ्रिभयनाशनः ॥ १२२॥
शीतात्मगिरिसञ्चारी शीर्णपर्णसुमोत्करः ।
शीभज्ञः शीर्षण्यधरः शीर्षरक्षोऽथ शीलवान् ॥ १२३॥
शीलज्ञः शीलदः शीलपालकः शीलवत्प्रभुः ।
शुकतुण्डनिभापाङ्गः शुकवाहनसोदरः ॥ १२४॥
शुकप्रियफलास्वादः शुकवाक्यप्रियः शुभी ।
शुकवाहप्रियः शुक्तिकाजहारः शुकप्रियः ॥ १२५॥
शुक्रः शुक्रभुगारूढभूतः शुक्रप्रपूजितः ।
शुक्रशिष्यान्तकः शुक्रवर्णः शुक्रकरः शुचिः ॥ १२६॥
शुक्लः शुक्लनुतः शुक्ली शुक्लपुष्पश्च शुक्लदः ।
शुक्लाङ्गः शुक्लकर्मा च शुचिभूमिनिवासकः ॥ १२७॥
शुचिप्रदः शुचिकरः शुचिकर्मा शुचिप्रियः ।
शुचिरोचिः शुचिमतिः शुण्ठीगुडजलादरः ॥ १२८॥
शुद्धः शुद्धफलाहारः शुद्धान्तपरिपालकः ।
शुद्धचेताः शुद्धकर्मा शुद्धभावोऽथ शुद्धिदः ॥ १२९॥
शुभः शुभाङ्गः शुभकृच्छुभेच्छः शुभमानसः ।
शुभभापी शुभनुतः शुभवर्षी शुभादरः ॥ १३०॥
शुभशीलः शुभप्रीतः शुभंयुः शुभपोषकः ।
शुभङ्करः शुभगणः शुभाचारः शुभोत्सवः ॥ १३१॥
शुभादरः शुभोदारः शुभाहारः शुभावहः ।
शुभान्वितः शुभहितः शुभवर्णः शुभाम्बरः ॥ १३२॥
शुभभक्तः शुभासक्तः शुभयुक्तः शुभेक्षणः ।
शुभ्रः शुभ्रगणः शुभ्रवस्त्रः शुभ्रविभूषणः ॥ १३३॥
शुभविध्वंसिनीभूतः शुल्कादाननिपातकः ।
शुष्मद्युतिः शुष्मिसखः शुश्रूषादूतशङ्करः ॥ १३४॥
शूरः शूराश्रितः शूरगणः शूरचमूपतिः ।
शूरप्रवरसन्दोहः शूरभक्तश्च शूरवान् ॥ १३५॥
शूरसेनः शूरनुतः शूरपालश्च शूरजित् ।
शूरदेवः शूरविभुः शूरनेता च शूरराट् ॥ १३६॥
शूलपाणियुतः शूली शूलयुद्धविशारदः ।
शूलिनीप्रियकृच्छूलवित्रस्तरिपुमण्डलः ॥ १३७॥
शृङ्गारखेलः शृङ्गारगात्रः शृङ्गारशेखरः ।
शृङ्गारजटिलः शृङ्गाटकसञ्चारकौतुकः ॥ १३८॥
शृङ्गारभूषणः शृङ्गारयोनिजननार्भकः ।
शेमुषीदुःखहन्ता च शेखरीकृतमूर्धजः ॥ १३९॥
शेषस्तुतः शेषपाणिः शेषभूषणनन्दनः ।
शेषाद्रिनिलयप्रीतः शेषोदरसहोदरः ॥ १४०॥
शैलजाप्रियकृत्कर्मा शैलराजप्रपूजितः ।
शैलादिविनुतः शैवः शैवशास्त्रप्रचारकः ॥ १४१॥
शैवधीरः शैववीरः शैवशूरश्च शैवराट् ।
शैवत्राणः शैवगणः शैवप्राणश्च शैववित् ॥ १४२॥
शैवशास्त्रः शैवशास्त्राढ्यः शैवभृच्छैवपालकः ।
शैवदक्षः शैवपक्षः शैवरक्षोऽथ शैवहृत् ॥ १४३॥
शैवाङ्गः शैवमन्त्रज्ञः शैवतन्त्रश्च शैवदः ।
शैवमौनी शैवमतिः शैवयन्त्रविधायकः ॥ १४४॥
शैवव्रतः शैवनेता शैवज्ञः शैवसैन्यकः ।
शैवनन्द्यः शैवपूज्यः शैवराज्योऽथ शैवपः ॥ १४५॥
शोणापाङ्गः शोणनखः शोणरत्नविभूषितः ।
शोकघ्नः शोभनास्त्रश्च शोधकः शोभनप्रदः ॥ १४६॥
शोषितारिः शोषहारी शोषिताश्रितरक्षकः ।
शौरीड्यः शौरिवरदः शौरिद्विट्प्राणहारकः ॥ १४७॥
श्रद्धाधारश्च श्रद्धालुः श्रद्धावित्परिपालकः ।
श्रवणानन्दजनकः श्रवणाभरणोज्ज्वलः ॥ १४८॥
श्रीदः श्रीदप्रियः श्रीदस्तुतः श्रीदप्रपूजितः ।
श्रुतिज्ञः श्रुतिवित्पूज्यः श्रुतिसारः श्रुतिप्रदः ॥ १४९॥
श्रुतिमौलिनुतप्रेमडिम्भः श्रुतिविचारकः ।
श्लाघ्यः श्लाघापरः श्लाघ्यगणः श्लाघ्यगुणाकरः ॥ १५०॥
श्वेताङ्गश्च श्वेतगजरथः श्वेतसुमादरः ।
श्रीधृक् श्रीधरदाम्पत्यसार्थसम्मोहनाकृतिः ॥ १५१॥
श्रीकामाश्रितसन्दोहकैरवानन्दचन्द्रमाः ।
इतीदं शास्तृदेवस्य शिवविष्णुस्वरूपिणः ॥ १५२॥
नाम्नां सहस्रं दिव्यानां शादीनां सम्प्रकीर्तितम् ।
य इदं शृणुयान्नित्यं प्रपठेच्च प्रयत्नतः ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ १५३॥
इति श्रीशास्तृशवर्णसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran