श्रीशास्तृ(अय्यप्प) सुप्रभातम्

श्रीशास्तृ(अय्यप्प) सुप्रभातम्

मोहिनीसुप्रजा शास्तः पूर्वासन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥ उत्तिष्ठोत्तिष्ठ शबरीश उत्तिष्ठ व्याघ्र/गजवाहन । श्रीपूर्णपुष्कलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥ शास्तः समस्तजगतां महिषीनिहन्तः श्रितहृद्विहारि मनोहरदिव्यमूर्ते । श्रीस्वामिन् श्रितजनप्रिय दानशील श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ३॥ तव सुप्रभातमरविन्दलोचन भव सुप्रसन्नमुखचन्द्रमण्डल । ऋषिसिद्धदेवप्रमुखैः समर्चित शबरिशैलनाथ शरणं दयानिधे ॥ ४॥ प्रातः प्रबुद्धऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ५॥ अब्जानन हरिहरोद्भव सुन्दराङ्ग त्वद्विक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासरशुद्धिमारात् श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ६॥ ईषत्प्रफुल्लसरसीरुहनारिकेल- पूगद्रुमादि सुमनोहरपालिकानाम् । आवाति मन्दमनिलः सहदिव्यगन्धैः श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ७॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ८॥ भृङ्गावली च मकरन्दरसानुविद्ध- झङ्कारगीतनिनदैः सह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ९॥ पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव भिभ्रति तीव्रनादं श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १०॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्रीधर्मशास्त(ः) जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तरदिव्यमूर्ते श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ११॥ सेवापरा ऋषिसुरेशकृशानुधर्म- रक्षोऽम्बुनाथपवमानधनाधिनाथाः । बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १२॥ सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि- स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः । त्वत्पाददर्शनायात्युत्सुकाः प्रतीक्षन् श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १३॥ त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः । कल्पागमाकलनयाऽऽकुलतां लभन्ते श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १४॥ त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १५॥ श्रीशबरिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन् नृदैवतगणादिभिरर्चिताङ्घ्रे श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १६॥ श्रीशबरिनाथ पुरुषोत्तम देवदेव श्रीभूतनाथ शिवपुत्रक दीनबन्धो । मृगयाप्रिय शरणागतपारिजात श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १७॥ कन्दर्पदर्पहरसुन्दर दिव्यमूर्ते कान्तारवास विपुलाक्ष दयाऽऽर्द्रचित्त । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १८॥ एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाद्य वैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति शत्रुदमन तव सुप्रभातम् ॥ १९॥ भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । त्वत्प्रियजनाः सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव शुभङ्कर सुप्रभातम् ॥ २०॥ शबरीनिवास निरवद्यगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभवभक्तभोग्य श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ २१॥ इत्थं शबरिशैलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २२॥ इति श्रीशास्तृ(अय्यप्प)सुप्रभातं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : shAstRRisuprabhAtam
% File name             : shAstRRisuprabhAtam.itx
% itxtitle              : shAstRisuprabhAtam
% engtitle              : shAstRRisuprabhAtam
% Category              : deities_misc, ayyappa, suprabhAta
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : July 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org