शबरीशाष्टकम्
(मूलमन्त्राक्षरमालास्तोत्रम्)
ओङ्कारमृतबिन्दुसुन्दरतनुं मोहान्धकारारुणं
दीनानां शरणं भवाब्धितरणं भक्तैकसंरक्षणम् ।
दिष्ट्या त्वां शबरीश, दिव्यकरुणापीयूषवारान्निधिं
दृष्ट्योपोषितया पिबन्नयि विभो धन्योऽस्मि धन्याऽस्म्यहम् ॥ १॥
``घ्रू''ङ्कारात्मकमुग्रभावविलसद्रूपं, कराग्रोल्लसत्-
कोदण्डाधिकचण्ड,माशुगमहावेगे तुरङ्गे स्थितम् ।
दृष्ट्यैवारिविमर्ददक्ष,मभयङ्कारं शरण्यं सतां,
शास्तारं मणिकण्ठमद्भुतमहावीरं समाराधये ॥ २॥
``न''भ्राणं हृदयान्तरेषु, महिते पम्पात्रिवेणीजले,
प्रौढारण्यपरम्परासु, गिरिकूटेप्वम्बरोल्लङ्घिषु ।
हंहो किं बहुना? - विभान्तमनिशं सर्वत्र तेजोमयं
कारुण्यामृतवर्षिणं हरिहरानन्दाङ्कुरं भावये ॥ ३॥
``म''त्र्यास्तापनिवृत्तये भजत मां सत्यं शिवं सुन्दरं
शास्तारं शबरीश्वरं च भवतां भूयात् कृतार्थे जनुः ।
लोलानन्ततरङ्गभङ्गरसनाजालैरितीयं मुदा
पम्पा गायति भुतनाथचरणप्रक्षालनी पावनी ॥ ४॥
``प''ङ्क्तिस्था इह सङ्घगानकुशलाः नीलीवने पावने
त्वन्माहात्म्यगुणानुकिर्तनमहानन्दे निमग्ना द्विजाः ।
भक्तानां श्रवणेषु नादलहरीपीयुषधारां नवां
नित्यानन्दधनां विभो, विदधते देवाय तुभ्यं नमः ॥ ५॥
``रा''जन्ते परितो जरद्विटपिनोवल्लीजटोद्भासिन-
स्त्वद्ध्यानैकपरायणाः स्थिरतमां शान्तिं समासादिताः ।
आनीलाम्बरमध्र्यभाण्डमनिशं मूध्र्ना वहन्तः स्थिता-
स्तं त्वां श्रीशबरीश्वरं शरणदं योगासनस्थं भजे ॥ ६॥
``य''स्मिन् लब्धपदा प्रशान्तिनिलये लीलावने तावके
सङ्गीतैकमये निरन्तरसमारोहा वरोहात्मके ।
एषा मामकचेतना परचिदानन्दस्फुरद्गात्रिका
हा! हा! ताम्यति; हन्त! तामनुगृहाणानन्दमूर्ते, विभो ॥ ७॥
``गो''प्त्रे विश्वस्य हर्त्रे बहुदुरितकृतो मत्र्यलोकस्य शश्वत्
कर्त्रे भव्योदयानां निजचरणजुषो भक्तलोकस्य निर्रम् ।
शास्त्रे धर्मस्य, नेत्रे श्रुतिपथचरणाभ्युद्यतानां, त्रिलोकी-
भर्त्रे भूताधिभर्त्रे, शबरगिरिनिवासाय तुभ्यं नमोऽस्तु ॥ ८॥
इति श्रीवासुदेवन् एलयथेन विरचितं शबरीशाष्टकं अथवा
मूलमन्त्राक्षरमालास्तोत्रं सम्पूर्णम् ।