शबरीशगीताञ्जलिः
खण्डः १ प्रार्थना ।
अयि शबरीश्वर विश्वमनोहर, विश्वजनाभयदानरते
त्वयि गतमस्तु निरस्तसमाधि समाधि समाधि मनो महिते ।
दयिततमं तव मानसपूजमानतमौलिरसौ तनुते
मयिकरुणां कुरु पङ्कजलोचन, पङ्कविनाशन, पुण्यगते! ॥
खण्डः २ पद्यगीतम् १ । ध्यानप्रतिष्ठा ।
शबरिकेश्वरं शान्तसुन्दरं पतितपावनं पापनाशनम् ।
भवनभावकं भूतिदायकं शरणमाश्रये भूतनायकम् ॥ १॥
अयि विभो मुदा कल्पितं हृदा भवदुपासनं भावशोधनम् ।
वरद, गृह्रतां; नाथ, दासतामनुगृहण मे; शान्तिरस्तु मे ॥ २॥
अरुणसुप्रभामण्डलावृतिं कनकचम्पकापाटलद्युतिम् ।
मनुचिन्तये सत्यसद्गतिं भुवननाथ, ते मङ्गलाकृतिम् ॥ ३॥
जलदकोमलं नीलकुन्तलं, विमलफालकं वीरलासकम् ।
ललितचञ्जलं भ्रूलताञ्चलं, नलिनशोभनं धीरलोचनम् ॥ ४॥
तिलसुमोपमा नालिका,ऽधरस्फुरितसुस्मितं शूरसुन्दरम् ।
कनककुण्डलं गण्डमण्डनं, मुखमिदं विभो, तापखण्डनम् ॥ ५॥
मणिवरोज्वलत्कण्ठभूषणं, विपुलवक्षसा वैरिभीषणम् ।
करतलोल्लसद्वाणकार्मुकं, सजलनीरदानीलचेलकम् ॥ ६॥
सुदृढजङ्घया साधुशोभितं चरणपङ्कजे सज्जनार्चितम् ।
अरिविमर्दने नित्यदीक्षितं त्रिदशपूजितं व्याघ्रसंस्थितम् ॥ ७॥
वपुरिदं मनःकाननान्तरे लसतु मामके भक्तिमन्दिरे ।
महितसन्निधिप्राभवोदिता मनसि भासतां देव, शान्तता ॥ ८॥
खण्डः ३ पद्यगीतम् २ । सन्निधिप्राप्तिः ।
मम तु चेतना वेपिता परं भृगुमये पथि क्लेशिता चिरम् ।
द्रुतहृदन्तरा ते कृपामृतं शरणमाश्रिता देवसेवितम् ॥ १॥
भवदुपायनं जिवितात्मकं मधुरतिक्तकाकीर्णभाण्डकम् ।
शिरसि गृह्णती भक्तिपाविता हरिहरात्मज, त्वामुपागता ॥ २॥
तव च सन्निधौ हर्षसङ्कुला नवनवोन्मिषन्मूच्र्छनाकुला ।
शरणकीर्तनोन्मादिताशया पुलकपूरिता नृत्यतीह या ॥ ३॥
निहितमग्रतो नालिकेरकं मम मनोमयं भिद्यते स्वयम् ।
मधुरनिर्मलं तद्रसं सृतं परिगृहाण ते पाद्यमर्पितम् ॥ ४॥
दुरितसञ्चयं भक्तिदीपितं ज्वलति हन्त कर्पूरमर्पितम् ।
प्रसरतां ततः सौरभं तथा ज्वलितपूतनावर्ष्मणो यथा ॥ ५॥
खण्डः ४ पद्यगीतम् ३ । मानसपूजा ।
अहमबात्मना कल्पयामि ते जलसमर्चनं भूतसत्पते ।
तरलवीचिकैर्मन्त्रसुस्वरैर्नदनदीशतैर्नैकसागरैः ॥ १॥
पुनरिदं पृथिव्यात्मना विभो विरचयाम्यहं गन्धकल्पनम् ।
कलितकुङ्कुमैश्वन्दनैर्महीकनकभाजने गन्धयुक्तिभिः ॥ २॥
वितनुते च ते पुष्पपूजनं गगनतन्मयीभावभावना ।
मरतकस्फुरद्भाजने चितैः शबलकान्तिभिः सूनसञ्चयैः ॥ ३॥
पवनरूपवान् भावनाबलाद् भुवननाथ, ते कल्पयाम्यहम् ।
ललितवीजनैर्भक्तिपावनैः प्रियतमं प्रभो, धूपतर्पणम् ॥ ४॥
परमुपास्महे तैजसात्मना शरणदायकं त्वामिहात्मना ।
दिवि च भूतले दीप्तिवर्षिभिर्दिविषदां पते, दीपकोटिभिः ॥ ५॥
अमृतमस्मि यद् भूतनिह्युतं विरचयामि नैवेद्यमत्र तत् ।
अमृतरूप, ते सच्चिदात्मनि त्वयि निलीयते भेदभावना ॥ ६॥
खण्डः ५ पद्यगीतम् ४ । शरणकीर्तनम् ।
देवदेव, ते शरणकीर्तनं भावबन्धुरं श्रवणसुन्दरम् ।
वारिराशिभिस्तलवीचिभिस्तारनिस्वनं वरद, गीयते ॥ १॥
मन्द्रमर्मरैर्मलयमारुतास्त्वामुपासते शरणगीतकैः ।
गानमाधुरीतरलतारकं नाथ, निश्चलं गगनमण्डलम् ॥ २॥
पावनोपया विहगनिस्वनैः स्तूयसे विभो, शरणकीर्तनैः ।
अच्र्यसे तया कनकपङ्कजैरुच्चितैर्नभोमहितमानसात् ॥ ३॥
गानवैखरीतुमुलसङ्करस्तालरञ्जितो हृदयढक्कया ।
नन्दना मया समनुगीयते प्रीयतां भवान् सुमनसां पते! ॥ ४॥
खण्डः ६ पद्यगीतम् ५ । शरणकीर्तनम् ।
कान्तविग्रहं शान्तमानसं पन्तलाधिपोपान्तसेवितम् ।
दान्तसद्गतिं विन्तितप्रदं भूतनायकं देवमाश्रये ॥ १॥
धर्मबोधकं कर्मसाक्षिणं शर्मसाधकं दुर्मदान्तकम् ।
निर्ममार्चितं निर्मलात्मकं भूतपालकं देवमाश्रये ॥ २॥
इन्द्रवापिकातीरवासिनं सान्द्रचन्द्रिकाहाससुन्दरम् ।
मन्द्रचापनिर्घोषभीषणं भूतभावनं देवमाश्रये ॥ ३॥
वेदबोधितं भेदवर्जितं खेदनाशनं मोददायिनम् ।
श्रीदसेवितं नादरूपिणं भूतिभूषणं देवमाश्रये ॥ ४॥
सक्तिनाशकं रक्तिदारकं भक्तिवर्धकं भुक्तिसाधकम् ।
मुक्तिदायकं व्यक्तवैभवं भूतिपुष्कलं देवमाश्रये ॥ ५॥
खण्डः ७ पद्यगीतम् ६ । शरणकीर्तनम् ।
अरुणकोमलं तरुणसुन्दरं करणयाकुलं वरुणपूजितम् ।
तरणितेजसं मरणप्रोचकं शरणमाश्रये शवरिकेश्वरम् ॥ १॥
मदनमोहनं मदविनाशनं कदनभोदिनं गदविमोचनम् ।
रदनशोभिनं हृदधिवासिनं शरणमाश्रये शबरिकेश्वरम् ॥ २॥
सुजनपालकं कुजनभीषकं पतनवारकं मननसाधकम् ।
जनननाशकं भुवननायकं शरणमाश्रये शबरिकेश्वरम् ॥ ३॥
हरिहरात्मजं हरिवरासनं कलिदुरासदं कलितराजसम् ।
परपराक्रमं परतराश्रयं शरणमाश्रये शबरिकेश्वरम् ॥ ४॥
शकलितद्विषं शशधरत्विषं शमलनाशनं शमविभूषणम् ।
शतमखार्चितं शनिनिवारकं शरणमाश्रये शबरिकेश्वरम् ॥ ५॥
खण्डः ८ पद्यगीतम् ६ । ब्रह्मार्पणम् ।
सकलदेवतागीतकीर्तये शैववैष्णवाद्वैतमूर्तये ।
विहितसज्जनाभीष्टपूर्तये हा! नमोऽस्तु ते नाशितार्तये ॥ १॥
सर्वमङ्गलं दिव्यकोमलं शर्वनन्दनं भुवननन्दनम् ।
गर्वनाशकं भव्यदायकं सर्वथा विभुं समनुचिन्तये ॥ २॥
भक्तपालनासक्तमानसं दिनकरायुतोद्वामतेजसम् ।
मोहनाकृतिं मोहिनीसुतं विमलचेतसा नौमि सन्ततम् ॥ ३॥
सुखचिदात्मके भुवनभासके नित्यभासुरे सत्यसुन्दरे ।
परिसमर्पितं भवति मत्कृतं धर्मशास्तरि ब्रह्महृन्मये ॥ ४॥
तरलमुद्बणं करणजालकं परमतेजसि ब्रह्मसंज्ञके ।
परिसमप्र्यते त्वयि जगत्प्रभो, निरघनिर्भमे पर्युपासिते ॥ ५॥
दिव्यशाबराकारधारिणे शरणकीर्तनश्रवणतोषिणे ।
अर्पयामि ते धर्मरक्षिणे हृदयमात्मना कमनरूपिणे ॥ ६॥
देवदेव, ते वपुरिदं जगत् सततविस्मयोत्पुलकदर्शनम् ।
अर्चयाभ्यथो विगलितव्यथो विनिहिताशयस्त्वयि चिदात्मके ॥ ७॥
इति श्रीवासुदेवन् एलयथेन विरचिता शबरीशगीताञ्जलिः समाप्ता ।