श्रीशबरिगिर्यष्टकम्
शबरिगिरिपते भूतनाथ ते जयतु मङ्गलं मञ्जुलं महः ।
मम हृदिस्थितं ध्वान्तरं तवः नाशयद्विदं स्कन्द सोदर ॥ १॥
कान्तगिरिपते कामितार्थदं कान्तिमद्तव काङ्क्षितं मया ।
दर्शयाद्भुतं शान्तिमन्महः पूरयार्थितं शबरिविग्रह ॥ २॥
पम्पयाञ्चिते परममङ्गले दुष्टदुर्गमे गहनकानने ।
गिरिशिरोवरे तपसिलालसं ध्यायतां मनः हृष्यति स्वयम् ॥ ३॥
त्वद्दिदृक्षय सञ्चितव्रताः तुलसिमालिकः कम्रकन्धरा ।
शरण भाषिण शङ्घसोजन कीर्तयन्तिते दिव्यवैभवम् ॥ ४॥
दुष्टशिक्षणे शिष्टरक्षणे भक्तकङ्कणे मिशतिते गणे ।
धर्मशास्त्रे त्वयि च जाग्रति संस्मृते भयं नैव जायते ॥ ५॥
पूर्णपुष्कला सेविताप्यहो योगिमानसाम्भोज भास्करः ।
हरिगजादिभिः परिवृतो भवान् निर्भयस्वयं भक्तभीहरः ॥ ६॥
वाचिवर्त्ततां दिव्यनामते मनसिसन्ततं तावहं महः ।
श्रवणयोर्भवद्गुणगणावलिः नयनयोर्भवत् मूर्तिरद्भुताः ॥ ७॥
करयुगं मम त्वद्पदार्चने पदयुगं सदा त्वद्प्रदक्षिणे ।
जीवितं भवद्भक्तपूजने प्रणतमस्तुते पूर्णकरुणया ॥ ८॥
इति श्रीशबरिगिर्यष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor