श्रीमच्छङ्कराचार्यशरणागतिः
(शिखरिणीवृत्तम्)
न जानेऽहं तत्त्वं न च खलु तथा तच्छ्रुतिशिरो
न योगे मद्बुद्धिर्न च खलु तथा शास्त्रनिपुणः ।
भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा
विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ १॥
न कर्मानुष्ठानं न च तपसि लीनं मम मनो
न वैराग्यं तावत्कठिनतरमाऽश्रित्य जयति ।
भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा
विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ २॥
न भक्त्यार्चां चक्रे यत इह विभुस्तारयति मां
न गीता व्याख्याता किमपि न च शक्यं जड़मतेः ।
भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा
विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ३॥
प्रभो नोपेक्ष्योऽयं स्फुरति हृदये कापि च दया ।
समुद्धर्तुं दीनं त्वमिह यत एकोऽसि भगवन् ।
भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा ।
विनात्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ४॥
मतानां वैचित्र्यं किमपि न तथा प्रीणयति मां
प्रवक्तारं तं वा मतमपि यतस्तस्य कलये ।
भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा
विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ५॥
अविद्याच्छन्नोऽपि त्वदुदितमिहाकर्णयति यः
परित्यज्याज्ञानं न च किल यतः पूर्ववदयम् ।
भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा
विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ६॥
अहो माया मोहस्तमपि तव पादाब्जनिरतः
तृणीकुर्वन्मायां भवति च यतो ब्रह्म भगवन् ।
भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा
विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ७॥
समायातं यातु स्फुरतु मम चित्ते किमपि वा
जगत्पूज्यो वा नो तदपि न च खिन्नो न मुदितः ।
भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा
विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ८॥
पृथिव्यां दातारः प्रथितविभवाः सन्ति बहवः
न मन्येऽहं तान्वै निजपदसुदाने बलभृतः ।
निजात्मैक्यं दातुं प्रभवसि यतस्त्वं बुधतं
क्षितौ त्वच्छ्रेष्ठः कथय कमहं यामि शरणम् ॥ ९॥
अयच्छन्मां कोऽसौ किमपि हि तरेद्यो भवनदीं
जगत्सेतो त्वं मां वदसि यदि मन्ये त्वयि न तत् ।
स्वयं पूर्णस्त्वं भो निरवधिनिजानन्दनिरतो
न ते प्राप्यं स्वामिन् किमपि हि जगत्तारणविधौ ॥ १०॥
अयःपिण्डः स्पर्शात् सपदि लभते हेमपदवीं
पुनर्नैवायस्त्वं व्रजति च तथापि स्फुटमिदम् ।
ददाति स्पर्शोयं किल न निजरूपं क्वचिदपि
ददासि त्वद्रूपं सपदि निजशिष्याय विमलम् ॥ ११॥
यथा चण्डे सूर्ये तपति न च कल्पेत तिमिरं
न माया दैन्यं मां यदि समुदिता त्वत्पदकृपा ।
अहो माया वैरं तदपि तृणवद्यस्य कृपया
त्वदैक्यं प्राप्तोऽहं यत इह न भीः शङ्करगुरो ॥ १२॥
पयः पिण्डः क्षिप्तो द्रवति च यथा सप्तकिरणैः
समुद्रेसङ्गच्छन्न मम तथाहङ्कृतिरपि ।
पतन् बिन्दुः सिन्धौ झटिति भजते सिन्धुपदवीं
तथा जाता भूमौ त्वयि निरवधौ मत्स्थितिरपि ॥ १३॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचिता श्रीशङ्कराचार्यशरणागतिः सम्पूर्णा ।
गुरुपूर्णिमा, रचनास्थानं - काफी उद्यानं, चिक्कमगळूरु संवत्सरः १९४३
Proofread by Manish Gavkar