श्रीशङ्कराचार्यस्तोत्रकदम्बम्
(कालटिक्षेत्रे)
चिन्मुद्रां दक्षहस्ते प्रणतजनमहाबोधदात्रीं दधानं
वामे नम्रेष्टदानप्रकटनचतुरं चिह्नमप्यादधानम् ।
कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशं
चन्द्राहङ्कारहुङ्कृत्स्मितलसितमुखं भावयाम्यन्तरङ्गे ॥ १॥
बीजमिदं मत्पादप्रपतनमखिलेप्सितार्थपूगस्य ।
इति बोधनाय धत्से चिन्मुद्रां किं यतीशान ॥ २॥
मायावशाज्जगदिदमनुक्षणं भिन्नभिन्नमाभाति ।
इति बोधनाय गुरुराडरूपमपि रक्तमम्बरं धत्से ॥ ३॥
यतिवेषधरणकाले त्यक्ता नागेश्वराः किं त्वाम् ।
अधुना मालाव्याजात्सेवन्ते शङ्कर ब्रूहि ॥ ४॥
गुरुवर पाहि सदा मां नतवरवरदानचण्ड धृतदण्ड ।
अकलङ्कक्षयहीनस्वयशश्चन्द्रप्रकाशिताशान्त ॥ ५॥
सोमसदृक्षमुखाब्जं कोमलपदयुग्मविजितकञ्जातम् ।
सीमविहीनकृपाब्धिं श्यामग्रीवावतारगुरुमीडे ॥ ६॥
शङ्करगुरुराड्गगनं हंसाद्यैः पक्षिभिः सदा सेव्यम् ।
करुणामारुतपूरितमनिशं ध्यायामि हृत्सरोजेऽहम् ॥ ७॥
अज्ञानाभिधवृत्रगर्वहरणं विज्ञानवज्रोल्लस-
त्पाणिं काममुखासुरक्षयकरं स्वात्माभिधस्वर्गदं
किञ्च प्रौढविवेकनामकजयन्तोद्यन्निजोत्सङ्गकं
श्रीमच्छङ्करनामकं हृदि सदा कुर्वे यतीन्द्रं मुदा ॥ ८॥
शङ्करगुरुराट्तार्क्ष्यं पापोरगदर्पचर्वणधुरीणम् ।
लघ्वाऽऽकाशगतिप्रदमनिशं प्रणमामि नित्यवियदाप्त्यै ॥ ९॥
अज्ञोऽप्यश्रुतशास्त्राण्याशु किल व्याकरोति यत्कृपया ।
निखिलकलाधिपमनिशं तमहं प्रणमामि शङ्कराचार्यम् ॥ १०॥
विलोक्य त्वामब्जं शिरसि निदधानं हि सततं
पयोजं चाप्यागाद्वहति कृपया मामपि गुरुः ।
अहं चाप्यब्जं खल्वत इति तदाशानुसरणा-
त्पयोजं धत्से किं शिरसि वद नम्राय यतिराट् ॥ ११॥
आधारादिषडम्बुजानि गुरुणा योगेन भित्त्वा चिरा-
च्छीर्षस्थं च सहस्रपत्रजलजं सम्प्राप्य सौख्यं परम् ।
यत्प्राप्स्यन्ति तदाशु मत्प्रणमनाद्भूयादिति ख्यापनं
कर्तुं फुल्लसरोजसप्तकमहो धत्से गुरूणां गुरो ॥ १२॥
अष्टाङ्गयोगमचिराल्लभते मत्पादनम्रलोका इति ।
बोधयितुं धत्से किं कमलान्यष्टौ गुरो ब्रूहि ॥ १३॥
अणिमादिसिद्धिलक्ष्यो वरयन्त्यष्टापि सत्वरं भक्तम् ।
इति बोधनाय जगतां धत्से कमलाष्टकं गुरो ब्रूहि ॥ १४॥
फाले नेत्रं गरलगलतां चेदहं धारयामि
स्युर्भीता मे नतजनवरा नैव सामीप्यमीयुः ।
इत्येतेषां भयहृतिकृते नेत्रयुग्मं सितां किं
ग्रीवां धत्से यतिवर शिव ब्रूहि नम्राय मह्यम् ॥ १५॥
भासते हृदि सदा परमात्मा
संवसन्ति निगमाश्च मुखाब्जे ।
यत्पदप्रणमनाज्जनताया-
स्तं नमामि सततं यतिवीरम् ॥ १६॥
वाञ्छितं मम जवाद्वितरार्य
प्राणदानचतुरोऽसि मृतस्य ।
अप्यसाध्यमिह तेऽस्ति जगत्यां
किं वदाशु गुरुशङ्कर मह्यम् ॥ १७॥
जन्ममृत्युहरणीं तव वक्त्रा-
म्भोजनिःसृतसुधां न पिबामि ।
भाष्यसंज्ञलसितां वितरारं
देशिकेन्द्र मम पाण्यवलम्बम् ॥ १८॥
मायामयाशेषविशेषशून्य मानातिगस्वप्रभ चित्स्वरूप ।
देहेन्द्रियप्राणमनोविदूर श्रीशङ्कर त्वत्पदयोः पतामि ॥ १९॥
आसेतुशीताचलमध्यवर्तिजनान्निजाचारपरान्विरच्य ।
सौख्यं प्रयच्छाशु च सर्वकार्येष्वेषां कृपासागर शङ्करार्य ॥ २०॥
करोमि कायेन तवाङ्घ्रिसेवां ब्रवीमि वाचा तव पुण्यनाम ।
ध्यायामि मूर्तिं तव हृत्सरोजे प्रसीद शीघ्रं यतिराज मह्यम् ॥ २१॥
एकान्तवासादरमात्मनिष्टामनन्यदेवत्वमजामितां च ।
त्वत्काखिलग्रन्थविलोकने त्वं दत्त्वा यतीनां वर पाहि नम्रम् ॥ २२॥
कदापि कुत्रापि किमप्यकार्यं नाहं प्रकुर्यां बहु हिंसितोऽपि ।
यथा तथा मानसदार्ढ्यमाशु दत्त्वा गुरूणां वर पाह्यमुष्मै ॥ २३॥
घोरापस्मृतिमुख्यरोगनिचयाहङ्कारमाराज्जवा-
त्कुर्वाणं नतलोकरक्षणचणं योगप्रदं सत्वरम् ।
देवप्रार्थनयाऽऽत्तभूतलगतिं धर्मैकसंस्थापन-
व्यग्रं शङ्करदेशिकं हृदि सदा कुर्वे मनःशुद्धये ॥ २४॥
उद्यद्भानुसहस्रगर्वहरणप्राशस्त्ययुग्वस्त्रधृ-
क्सङ्ख्याहीनशमादिसद्गुणगणैरत्यादरात्सेवित ।
श्रीमत्पद्मपदामरेशकरधात्र्याद्यैर्विनेयैर्युत
श्रीमच्छङ्करदेशिकेन्द्र चरणालम्बं प्रयच्छाशु मे ॥ २५॥
मय्यप्रार्थितमेव ते प्रसरतु व्याजानपेक्षा कृपा
पापानां श्वपचैर्भियापि परया तद्वज्जुगुप्सावशात् ।
त्यक्तानां सदनेऽपि तेन महती स्यात्ते समज्ञा प्रभो
किं रात्रिन्दिवपुण्यकर्तृषु कृपाधानेन भूयाद्गुरो ॥ २६॥
शुद्धाद्वैतपथस्य पालनकृते पूर्वं त्वया स्थापित-
स्थानेष्वन्यतमस्थशिष्यततिगस्तत्कार्यकृत्यक्षमः ।
अज्ञानां धुरि कीर्तनीयचरितो नाद्यापि विद्यालय-
स्तस्मात्स्थानमिदं गुरूत्तम कृपावार्धे त्वमेवाश्रय ॥
यद्वा दुर्मतभेदपाटववतीं मेधां नवोन्मेषिणीं
विद्यामश्रुतशास्त्रपाठनचणां दद्या द्रुतं चेद्गुरो ।
साहाय्यं च सुधन्वपार्थिवसदृग्राजावलेस्तर्ह्यहं
त्वद्वीक्षाबलतो यते यतिपते तत्त्वाध्वसंवृद्धये ॥ २८॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीशङ्कराचार्यस्तोत्रकदम्बं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com