श्रीशङ्कराचार्यस्तुतिः
%२४
श्रीमद्भगवत्पूज्यपदेश्वर । वैदिकमार्गस्थापक शङ्कर ।
शिवावतार श्रीमच्छङ्कर । किङ्कर हरहर त्राहि यतीश्वर ॥ १॥
शिवसद्गुरुगृहावतीर्ण मोहान्तक जनशिक्षक तारक दान्त ।
खण्डितपण्डितसंहतिमण्डित । मण्डनपण्डितदुर्मतशान्त ।
श्रीमद्भगवत्पूज्यपदेश्वर । (किङ्कर हरहर त्राहि यतीश्वर) ॥ २॥
विजितासङ्गतशास्त्रासम्मतसौगतबौद्धादिकराद्धान्त ।
प्रस्थानत्रयभाष्यकृदद्वयमतसंस्थापक दृढमतसिद्धान्त ॥ ३॥
वृषभूकमठान्यो दिक्षु मठान् । कृत्वा चतुरस्तत्र चतुरः ।
सुरेश्वरार्यप्रमुखान् चतुरानयोजयद्यो शिष्यांश्चतुरः ॥ ४॥
श्रीमत्परमहंसपरिव्राजकश्रीमच्छङ्कराचार्यमशोकम् ।
वासुदेवयतिर्भक्त्या नमति । स्तुत्वा यथामति पावितलोकम् ॥ ५॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता श्रीशङ्कराचार्यस्तुतिः सम्पूर्णा ।