श्रीशङ्कराचार्यसुवर्णमाला स्तवराजः
आकारार्थविबोधनचतुरं करुणार्द्रनयनकञ्जातम् ।
माण्डूक्यकारिकाम्बुजबालरविं नौमि शङ्कराचार्यम् ॥ १॥
नयनजितपङ्कजातं नतनयनाम्भोधिपूर्णचद्रमसम् ।
नवनीततुल्यहृदयं नौमि सदा शङ्कराचार्यम् ॥ २॥
मथितमदमानमारप्रभृतिबलिष्ठारिसर्वगर्वमहम् ।
मनसा स्मरामि सततं विरतिप्रदमाशु शङ्कराचार्यम् ॥ ३॥
शङ्करपरावतारं किङ्करपापौघपाटनपटिष्ठम् ।
पङ्कजपादमुखेड्यं तं कलये शङ्कराचार्यम् ॥ ४॥
कमलोद्भवरूपान्तरमण्डनमिश्रान्तरङ्गशुद्धिचणम् ।
शितिकण्ठापररूपं शिरसा प्रणतोऽस्मि शङ्कराचार्यम् ॥ ५॥
रामादिविषयविमुखीकरणसमर्थात्मवाक्ततिश्रवणम् ।
भूमानन्दप्रदपदनमनं प्रणमामि शङ्कराचार्यम् ॥ ६॥
यतिपतिपूजितपादं नतिमात्रप्रापितात्मदृढबुद्धिम् ।
श्रीशेशांशप्रभवं श्रीमन्तं नौमि शङ्कराचार्यम् ॥ ७॥
शङ्करगुरुवरकरुणालेशास्पदतास्वरूपयोग्येन ।
रचिता स्तुतिर्गुरूणां प्रीत्यै भूयाद्यतिब्रुवेणेयम् ॥ ८॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीशङ्कराचार्यसुवर्णमालास्तवराजः सम्पूर्णः ।
Proofread by PSA Easwaran