श्रीधराष्टकम्
श्रीमत् परमहंस श्री-श्रीधर सद्गुरुभ्यो नमः ॥
ॐ नमः श्रीरामदासाय दासबोधामृताय च ।
नमो धर्मप्रबोधाय श्रीधराय नमो नमः ॥ १॥
नमः सत्याय सिद्धाय परब्रह्मस्वरूपिणे ।
चिदानन्दस्वरूपाय श्रीधराय नमो नमः ॥ २॥
नमः शिवाय श्रेष्ठाय साक्षात्ब्रह्मस्वरूपिणे ।
ज्ञानामृतसुबोधाय श्रीधराय नमो नमः ॥ ३॥
नमः सुन्दररूपाय वेदवेदान्तसारिणे ।
प्रसन्नाय प्रशान्ताय श्रीधराय नमो नमः ॥ ४॥
नमः प्रणवरूपाय प्राणायामरतात्मने ।
ब्रह्मानन्दाय पूर्णाय श्रीधराय नमो नमः ॥ ५॥
नमः सदाऽवधूताय आदिमध्यान्तसाक्षिणे ।
श्रीमत् परमहंसाय श्रीधराय नमो नमः ॥ ६॥
नमः श्रीगुरुदेवाय दीनोद्धारकतेजसे ।
भक्ताभीष्टप्रदात्रे च श्रीधराय नमो नमः ॥ ७॥
वन्दे श्रीधर पादपद्मयुगलं सत्यं शिवं सुन्दरं
वन्दे सद्गुरु सत्यधर्मचरितं श्रीपाद श्रीवल्लभम् ।
वन्दे शिष्यजनानुरागसहितं तेजोमयं सात्विकं
वन्दे पावनकारणं गुरुवरं स्विष्टार्थसिद्धिप्रदम् ॥ ८॥
इति श्री श्रीधरपदकिंकर केशवसुत पांडुरंग शर्मा
विरचितं श्रीधराष्टकं सम्पूर्णम् ।
Encoded and proofred by Sonali Upendra Dasare