श्री श्रीधरेशस्तुतिः
विश्वेश्वरं सकलभूतपतिं परेशं
देवाधिदेवममरस्तुत पादपद्मम् ।
सच्चित्सुखं विगतमायमचिन्त्यरूपं
श्रीधरेशं भवभयापनुदं भजामः ॥ १॥
यो मङ्गलं परमहोऽखिलमङ्गलानां
यस्मिन्न मृत्युजननव्यवहारदुःखम् ॥
शान्तं विकाररहितं परमच्युतं तं
श्रीधरेशं भवभयापनुदं भजामः ॥ २॥
योनिर्गुणः सगुण इत्यपि भक्तहेतोः
धर्मापनाम निजतत्त्व विकासनाय ।
तं सद्गुरुं सकलजीव विशुद्धरूपं
श्रीधरेशं भवभयापनुदं भजामः ॥ ३॥
सर्वातिनाशकं स्तोत्रं यः पठेद्भक्तितः पुमान् ।
न सत्यदुःखं किञ्चित्र्याद्राजते भुवि पूजितः ॥
इति श्रीनर्मदानन्दस्वामीविरचितं सद्गुरू श्रीधरेशस्तुतिः समाप्ता ।
श्री सद्गुरु श्रीधरार्पणमस्तु ।