श्रीलप्रभुपाददेवाष्टकम्
श्रीश्रीनवद्वीपपरप्रदीपः
सन्दीप्यमानह् सततो भुवीह ।
चेतस्तमो हन्ति हि यस्य यत्नान्
नमामि तं श्रीप्रभुपाददेवम् ॥ १॥
श्रीभक्तिसिद्धान्तप्रचोदितः श्री-
व्यासाद्यकोशं कुशलं कृपालुः ।
सन् म्लेच्छवाग्देशचयेऽदधद् य-
स्नमामि तं श्रीप्रभुपाददेवम् ॥ २॥
आच्छद्यते यत्परतर्कदृश्य-
गोविन्दम्ःर्त्युज्ज्वलभस्करेण ।
अद्वैतिखद्योतकुलं जगत्यां
नमामि तं श्रीप्रभुपाददेवम् ॥ ३॥
यस्यैव यत्नेन पुराणराज-
गङ्गामला केशवकेलिहंसा ।
सत्स्तोत्ररत्ना वहतीह लोके
नमामि तं श्रीप्रभुपाददेवम् ॥ ४॥
श्रीराधिकाकृष्णपदारविन्दे
सहस्रहृत्सु शतमन्दिरेषु ।
अरोपयद् यो मधुरे पृथिव्यां
नमामि तं श्रीप्रभुपाददेवम् ॥ ५॥
कौशल्यदैर्यस्य सहस्रशास्त्र-
शस्त्रातिवर्षैः प्रतिहन्यते हि ।
चण्डा कलेर्मोहचम्ःर्हठेन
नमामि तं श्रीप्रभुपाददेवम् ॥ ६॥
नानालसद्गौरसुधाप्रकाश-
फलः क्षितौ स्थापित एव येन ।
कृष्णानुचिन्ताजनसङ्घवृक्ष-
स्नमामि तं श्रीप्रभुपाददेवम् ॥ ७॥
यो नित्यदा जीवति दैविकीषु
निजासु शिक्षासु सहानुगामि ।
कृपाम्बुधिर्नन्दसुताश्रितात्मा
नमामि तं श्रीप्रभुपाददेवम् ॥ ८॥
इति कुशक्रथदासविरचितं श्रीलप्रभुपाददेवाष्टकं सम्पूर्णम् ।