श्रीश्रीपादराजाष्टकम् १
श्रीमद्वीरनृसिंहनामनृपतेर्भूदेव हत्या व्यथां
दूरीकृत्य तदर्पितोज्ज्वलमहासिंहासने संस्थितः ।
श्रीमत्पूर्वकवाटनामकपुरे सर्वेष्ट सिद्धिप्रदः
श्रीपादयतीन्द्रशेखरमणिः भूयात्सनः श्रेयसे ॥ १॥
भेरी मञ्जुळ काहली मुख महानानाविध प्रोज्वल
ध्वान्तध्वान निरस्तवादि निचयः श्रीपादराजोस्तु नः ।
सौवर्णामल दण्डचामरसितच्छत्रोरु हैमोल्लसत्
यष्टिद्वन्द्वसुपञ्चवर्णवसनो भूयात्स नः श्रेयसे ॥ २॥
पादत्राणयुगं क्वणत्सुचरणद्वन्द्वेन संयोज्यतत्
दुश्शास्त्रं पदकञ्जरक्षणयुगे बन्दीकृतं कूजती ।
धीरान्मोचयतेति बन्दिषु पुरोगर्जत्सु सिंहासनं
गच्छन्मौक्तिक कञ्चुकोज्ज्वलतनुर्भूयात्सनः श्रेयसे ॥ ३॥
नानाशाक सुभक्ष्यपायसघृतं प्राज्यान्नभुक्त्याजने
निन्दां कुर्वति काननं गतवते यस्मै ददौ श्रीपतिः ।
मृष्टान्नं सघृतं पयोदधियुतं सोपस्करं कानने
गोपीनाथपदाब्ज सक्तसुमनाः भूयात्सनः श्रेयसे ॥ ४॥
चैत्रेमासि कठोरभास्करकरैस्सन्तप्तगात्राखिल
स्वान्तेवासिभिरर्थिभिः स्वतपसा निर्माय रम्यं सरः ।
सारामो यतिपुङ्गवः परिजनानप्यायया मासया-
च्छायतोय विहीन काननतलेर्भूयात्सनः श्रेयसे ॥ ५॥
त्वं चेन्मां जयसिद्धिचामरधुनीं गच्छाविनोचेत्तदा
सन्यस्तोभव पण्डितेति सदसी क्षोणीपते पत्रिका ।
आलेख्यप्रियशिष्यवर्य यतिना यत्याश्रमं वादिनं
जित्वादापितवांश्चतस्य सुमतीर्भूयात्सनः श्रेयसे ॥ ६॥
वैराग्यामलभक्तिनिर्मल महाज्ञानादि भाग्योज्वलः
श्रीमत् श्रीपतिरङ्गविट्ठल पदाम्भोज प्रभावं हृदी ।
स्मारंस्मारमहर्निशं निजमहानन्दाब्धिमग्नो गुरुः
लोकानन्दकरोरु रम्यमहिमा भूयात्सनः श्रेयसे ॥ ७॥
यद्वृन्दावन सेवया भुवि जनः प्राप्नोति सौख्यं महत्
यद्वृन्दावन मृत्तिकापि निटिले भक्त्या धृता सेविता ।
भूतोच्चाटनकारिणी क्षयमहापस्मारगुल्मादिका
नेक व्याधिनिवारणैककरुणिर्भूयात्सनः श्रेयसे ॥ ८॥
इति श्रीविजयीन्द्रयतिविरचितं श्रीपादराजष्टकं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar