श्रीश्रीपादराजपञ्चकम्०
वन्दे श्रीपादराजं रुचितमहृदयं पूजितश्रीसहायं
निर्धूताशेषहेयं निभृतशुभचयं भूमिदेवाभिगेयम् ।
विप्रेभ्यो दत्तदेयं निजजनसदयं खण्डिताशेषमायं
निष्टप्तस्वर्णकायं बहुगुणनिलयं वादिसङ्घैरजेयम् ॥ १॥
क्षुभ्यद्वादिकरीन्द्रवादपटलीकुम्भच्छटाभेदन-
प्रौढप्राभवतर्कसङ्घनिकरश्रेणीविलासोज्वलः ।
गोपीनाथमहीद्रशेखरलसत्पादस्थलावासकृत्
पायान्मां भवघोरकुञ्जरभयाच्छ्रीपादराट् केसरी ॥ २॥
बिभ्राणं क्षौमवासः करधृतवलयं हारकेयूरकाञ्ची-
ग्रैवेयस्वर्णमालामणिगणखचितानेकभूषाप्रकर्षम् ।
भुञ्जानं षष्टिशाकान् दहयगजशिबिकानर्घ्यशय्यारथाढ्यम्ग्
वन्दे श्रीपादराजं त्रि भुवनविदितं घोरदारिद्र्यशान्त्यै ॥ ३॥
यद्वृन्दावनसेवया सुविमलां विद्यां पशून् सन्ततिं
ध्यानात् ज्ञानमनल्पकीर्तिनिवहं प्राप्नोति शीघ्रं जनः ।
तं वन्दे नरसिंहतीर्थनिलयं श्रीव्यासराट् पूजितं
ध्यायन्तं मनसा नृसिंहचरणं श्रीपादराजं गुरुम् ॥ ४॥
काशीकेदारमायाकरिगिरिमधुराद्वारकावेङ्कटाद्रि-
श्रीमुष्णक्षेत्रपूर्वत्रिभुवनविलसत्पुण्यभूमीनिवासः ।
गुल्मादिव्याधिहर्ता गुरुगुणनिलयो भूतभेतालभेदी
भूयाच्छ्रीपादराजो निखिलशुभततिप्राप्तये सन्ततं नः ॥ ५॥
इति श्रीव्यासराजयतिकृत श्रीपादराजपञ्चकं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar