श्रीश्रीपादराजस्तोत्रम्
अश्वधाटी
द्वैपायनोत्तम करोपगतां पवनरूपामितेक्षमहितां
गोपाङ्गनेशतनुमापातमर्चयितुमापाद्य योहि यतिताम् ।
स्वापास्त भूपकृत शापासिघात निजतापारपाप निचयं
श्रीपादराजवरशापायुदम्भजतसूपान्न लोलुपधियः ॥ १॥
कापालिकांश वरकोपातिवित्तयति भूपारकाङ्क्षिकुलभू
भूपावनामित धियापावितातिशुभरूपाब्जनाभ सुयतेः ।
गोपायितान्वय सुदीपाभहेमसमरूपाख्य भिक्षु वरभूः
श्रीपादराजयतिरापातुनः शुभकलापानपारमहिमा ॥ २॥
गोपालविठ्ठलतनूपार्थभल्लुकसुतोपासितेसमहिळे
दीपाड्यवित्तभवनापालते कुरुकुलापाय भूनृपतिना ।
प्रापादिमादिशदथोपाक शिष्ययतये पादुकेतमनयोः
श्रीपादराजयतिरापातुनो रचित भूपाल पीठवसतिः ॥ ३॥
योपागमत्स्वपुरतोपास्तबन्धुजनतापारिबर्ह सुहृदा-
लापादिराग उरुभूपालवर्यजन गोपाङ्ग हापिततनुः ।
धूपायितान्तर इवापाटवीं निशितरोपाभमातृवचसा
गोपायितात्मतनुभूपामरार्यजन गोपारवश्यकरभाः ॥ ४॥
हापाक आगत इहापाप सेव्यमभिरूपामरद्रुमितिमां
श्रीपालयापित महीपारगामिसुरशापायुधोक्त तपसा ।
क्ष्मापाल पीठमथ गोपालसेव्यपदमापाग्र्यजन्मगुरुतां
श्रीपादराजयतिरापारमत्पयमहापायतः सपदिनः ॥ ५॥
व्यात्तानवान्तक समत्तायुधोरुभुज वैत्तायनिध्वजिचमू-
च्छेत्तानुजार्थमिव भेत्तास्वकावतमसोत्तानपर्वत ततेः ।
स्वात्तानिळागम महोत्तानतीक्ष्ण पविरौत्तानपाद यतिराट्
वेत्ता हयाननतनूत्तारणस्य ममतोत्ताभवार्तिमतुळाम् ॥ ६॥
श्रीपादराजगुणवर्णन पद्यषट्कं
श्रीव्यासराजयति शिष्यगणर्षभेण ।
श्रीवादिराजयतिना रचितं तु शश्वत्
सेवादरेण पठतां प्रकरोत्यभीष्टम ॥ ७॥
इति श्रीवादिराजतीर्थविरचितं श्रीपादराज स्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar