शुकस्तुतिः
यं प्रव्रजन्तमनुपेयमपेतकृत्यं
द्वैपायनो विरहकातर आजुहाव ।
पुत्रेति तन्मयतया तरवोऽभिनेदु-
स्तं सर्वभूत-हृदयं मुनिमानतोऽस्मि ॥ १॥
स्व-सुख-निभृतचेतास्तद् व्युदस्तान्यभावो-
ऽप्यजित-रुचिर-लीला-ऽऽकृष्टसारस्तदीयम् ।
व्यतनुत कृपया यस्तत्त्वदीपं पुराणं
तमखिल-वृजिनघ्नं व्यास-सूनुं नतोऽस्मि ॥ २॥
इति शुकस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com