स्तोत्रादि

स्तोत्रादि

ॐ श्री लक्ष्मीनृसिंह परब्रह्मणे नमः । श्री पद्मावती समेत वेङ्कटेशाय नमः । श्री विष्णवे परमात्मने नमः । श्रीमते रामानुजाय नमः । श्री निगमान्त महा देशिकाय नमः । श्री सायिराम् ।
॥ आदित्यहृदयम् ॥ ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २ ॥ राम राम महाबाहो श‍ृणु गुह्यं सनातनम् । येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ ३ ॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपेन्नित्यमक्षय्यं परमं शुभम् ॥ ४ ॥ सर्वमङ्गळमाङ्गल्यं सर्वपापप्रणाशनम् । चिन्ताशोक प्रशमनमायुर्वर्धनमुत्तमम् ॥ ५ ॥ रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥ सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । येष देवासुरगणान् लोकान् पाति गभस्तिभिः ॥ ७ ॥ येष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमोह्यापाम्पतिः ॥ ८ ॥ पितरो वसवःसाध्या ह्यश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः ॥ ९ ॥ आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुः स्वर्णरेता दिवाकरः ॥ १० ॥ हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् । तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् ॥ ११ ॥ हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥ व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः । घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥ आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥ नक्षत्र ग्रहताराणामधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तुते ॥ १५ ॥ नमः पूर्वाय गिरये पश्चिमायाद्रये नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६ ॥ जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥ नम उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८ ॥ ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥ तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥ तप्तचामीकराभाय वह्नये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥ नाशयत्येष वै भूतं तदेव सृजति प्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥ एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष एवाग्निहोत्रञ्च फलञ्चैवाग्निहोत्रिणाम् ॥ २३ ॥ वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च । यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥
॥ फलश्रुतिः ॥ एनमापत्सु कृच्छ्रेषु कान्तारेषुभयेषुच । कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥ पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥ अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि । एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ २७ ॥ एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा । धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥ आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥ रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् । सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३० ॥ अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः । निशिचरपतिसङ्क्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥ ३१ ॥
॥ सरस्वति प्रार्थना ॥ सरस्वती नमस्तुभ्यं वरदे कामरूपिणी । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ १ ॥ पद्मपत्र विशालाक्षी पद्म केसरवर्णिनी । नित्यं पद्मालयादेवी सा माम्पातु सरस्वती ॥ २ ॥ याकुन्देन्दु तुषारहारधवळा याशुभ्र वस्त्रान्विता यावीणा वरदण्डमण्डितकरा या श्वेत पद्मासना । याब्रह्माच्युत शङ्करप्रभृतिभिर्देवैस्सदा पूजिता सामाम्पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ ३ ॥
॥ विघ्नेश्वर प्रार्थना ॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥ १ ॥ अगजानन पद्मार्कं गजानन महर्निशम् । अनेकदन्तं भक्तानां एकदन्तमुपास्महे ॥ २ ॥ यं ब्रह्म वेदान्तविदो वदन्ति परे प्रधानं पुरुषं तथान्ये । विश्वोद्गतेः कारणमीश्वरंवा तस्मै नमो विघ्नविनायकाय ॥ ३ ॥ एकदन्तं महाकायं तप्तकांचन सन्निभम् । लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ ४ ॥ मौञ्जी कृष्णाजिनधरं नाग यज्ञोपवीतिनम् । बालेन्दु शकलं मौळौ वन्देऽहं गणनायकम् ॥ ५ ॥ चित्ररत्न विचित्राङ्ग चित्रमाला विभूषितम् । कामरूपधरं देवं वन्देऽहं गणनायकम् ॥ ६ ॥ मूषकोत्तममारुह्य देवासुरमहाहवे । योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ७ ॥ गजवक्त्रं सुरश्रेष्ठं कर्णचामर भूषितम् । पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ८ ॥ यक्षकिन्नर गन्धर्व सिद्ध विद्याधरैस्सदा । स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ९ ॥ अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् । भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ १० ॥ सर्वविघ्नकरं देवं सर्वविघ्न विवर्जितम् । सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ११ ॥ मूषकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र । वामनरूप महेश्वर पुत्र विघ्नविनायक पादनमस्ते ॥ १२ ॥ गजाननं भूतगणाधिसेवितम् कपित्थ जम्बूफलसार भक्षणम् । उमासुतं शोकविनाशकारणम् नमामि विघ्नेश्वर पादपङ्कजम् ॥ १३ ॥ गणाष्टकमिदम्पुण्यं यःपठेत्सततं नरः । सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ १४ ॥ अस्मद् गुरुभ्यो नमः । अस्मत्परम गुरुभ्यो नमः । अस्मत्सर्व गुरुभ्यो नमः । श्रीमते श्री आदिवण् शठकोप यतीन्द्र महा देशिकाय नमः । यस्याभवद्भक्त जनार्तिहन्तुः पितृत्वमन्येष्वविचार्य तूर्णम् । स्तम्भेऽवतारस्तमनन्यलभ्यं लक्ष्मी नृसिंहं शरणं प्रपद्ये ॥ श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ गुरुभ्यस्तद् गुरुभ्यश्च नमोवाकमधीमहे । वृणीमहे च तत्राद्यौ दम्पती जगतां पती ॥ श्रीमन्नभीष्ठ वरद । त्वामस्मि शरणं गतः ॥ स्वशेष भूतेन मया स्वीयैः सर्व परिच्छदैः । विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥ यस्य द्विरद वक्त्राद्याः पारिषद्याः परःशतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ श्रीहयग्रीवस्तोत्रम् ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १ ॥ ज्ञानानन्दमयं देवं स्वतस्सिद्धं शुद्धस्फटिक मणिभूभृत्प्रतिभटं सुधासध्रीचीभिर्धुतिभिरवदातत्रिभुवनम् । अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि महः ॥ २ ॥ स्वतस्सिद्धं शुद्धस्फटिक समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्वेधजलधेः । कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदन हेषा हलहलः ॥ ३ ॥ प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४ ॥ विशुद्ध विज्ञानघन स्वरूपं विज्ञान विश्राणन बद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ ५ ॥ अपौरुषेयैरपि वाक्प्रपञ्चैः अद्यापि ते भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ कटाक्षणीयः ॥ ६ ॥ दाक्षिण्यरम्या गिरिशस्य मूर्तिः देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७ ॥ मन्दोऽभविष्यन्नियतं विरिञ्चो वाचां निधे वञ्चित भागधेयः । दैत्यापनीतान् दययैव भूयोऽपि अध्यापयिष्यो निगमान् न चेत् त्वाम् ॥ ८ ॥ वितर्कडोलां व्यवधूय सत्वे बृहस्पतिं वर्तयसे यतस्त्वम् । तेनैव देव त्रिदशेश्वराणाम् अस्पृष्ट डोलायितमाधिराज्यम् ॥ ९ ॥ अग्नोउ समिद्धार्चिषि सप्ततन्तोः आतस्थिवान् मन्त्रमयं शरीरम् । अखण्ड सारैर्हविषां प्रदानैः आप्यायनं व्योमसदां विधत्से ॥ १० ॥ यन्मूलमीदृक् प्रतिभाति तत्त्वं या मूलमाम्नाय महाद्रुमाणाम् । तत्त्वेन जानन्ति विशुद्ध सत्वाः त्वामक्षरामक्षरमातृकां ते ॥ ११ ॥ अव्याकृताद् व्याकृत वानसि त्वं नामानि रूपाणि च यानि पूर्वम् । शंसन्ति तेषां चरमां प्रतिष्टां वागीश्वर त्वां त्वदुपज्ञवाचः ॥ १२ ॥ मुग्धेन्दु निष्यन्द विलोभनीयां मूर्तिं तवानन्द सुधा प्रसूतिम् । विपश्चितश्चेतसि भावयन्ते वेलामुदारामिव दुग्धसिन्धोः ॥ १३ ॥ मनोगतं पश्यति यः सदा त्वां मनीषिणां मानस राजहंसम् । स्वयं पुरोभाव विवादभाजः किङ्कुर्वते तस्य गिरो यथार्हम् ॥ १४ ॥ अपि क्षणार्धं कलयन्ति ये त्वां आप्लावयन्तं विशदैर्मयूखैः । वाचां प्रवाहैरनिवारितैस्ते मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५ ॥ स्वामिन् भवद्ध्यान सुधाभिषेकात् वहन्ति धन्याः पुलकानुबन्धम् । अलक्षिते क्वापि निरूढमूलं अङ्गेष्विवानन्दथुम् अङ्कुरन्तम् ॥ १६ ॥ स्वामिन् प्रतीचा हृदयेन धन्याः त्वद्ध्यन चन्द्रोदय वर्धमानम् । अमान्तमानन्द पयोधिमन्तः पयोभिरक्ष्णां परिवाहयन्ति ॥ १७ ॥ स्वैरानुभावास्त्वदधीन भावाः समृद्धवीर्यास्त्वदनुग्रहेण । विपश्चितो नाथ तरन्ति मायां वैहारिकीं मोहन पिञ्छिकां ते ॥ १८ ॥ प्राङ् निर्मितानां तपसां विपाकाः प्रत्यग्रनिश्श्रेयस सम्पदो मे । समेधिषीरंस्तव पादपद्मे सङ्कल्प चिन्तामणयः प्रणामाः ॥ १९ ॥ विलुप्त मूर्धन्य लिपिक्रमाणां सुरेन्द्र चूडापद लालितानाम् । त्वदङ्घ्रिराजीव रजः कणानां भूयान् प्रसादो मयि नाथ भूयात् ॥ २० ॥ परिस्फुरन्नूपुरचित्रभानु - प्रकाश निर्धूत तमोनुषङ्गाम् । पदद्वयीं ते परिचिन्महेऽन्तः प्रबोध राजीव विभातसन्ध्याम् ॥ २१ ॥ त्वत्किङ्करालङ्करणोचितानां त्वयैव कल्पान्तर पालितानाम् । मञ्जुप्रणादं मणिनूपुरं ते मञ्जूषिकां वेदगिरां प्रतीमः ॥ २२ ॥ संचिन्तयामि प्रतिभादशास्थान् संधुक्षयन्तं समयप्रदीपान् । विज्ञान कल्पद्रुम पल्लवाभं व्याख्यान मुद्रा मधुरं करं ते ॥ २३ ॥ चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ करं त्वदीयम् । ज्ञानामृतोदञ्चन लम्पटानां लीलाघटीयन्त्रमिवाश्रितानाम् ॥ २४ ॥ प्रबोध सिन्धोररुणैः प्रकाशैः प्रवाल सङ्घातमिवोद्वहन्तम् । विभावये देव सपुस्तकं ते वामं करं दक्षिणमाश्रितानाम् ॥ २५ ॥ तमांसि भित्वा विशदैर्मयूखैः सम्प्रीणयन्तं विदुषश्चकोरान् । निशामये त्वां नवपुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६ ॥ दिशन्तु मे देव सदा त्वदीयाः दयातरङ्गानुचराः कटाक्षाः । श्रोत्रेषु पुंसाममृतं क्षरन्तीं सरस्वतीं संश्रित कामधेनुम् ॥ २७ ॥ विशेषवित्वारिषदेषु नाथ विदग्ध गोष्ठीसमराङ्गणेषु । जिगीषतो मे कवितार्किकेन्द्रान् जिह्वाग्र सिंहासनमभ्युपेयाः ॥ २८ ॥ त्वां चिन्तयंस्त्वन्मयतां प्रपन्नः त्वामुद्गृणन् शब्दमयेन धाम्ना । स्वामिन् समाजेषु समेधिषीय स्वच्छन्द वादाहव बद्धशूरः ॥ २९ ॥ नानाविधानामगतिः कलानां न चापि तीर्थेषु कृतावतारः । ध्रुवं तवानाथपरिग्रहायाः नवं नवं पात्रमहं दयायाः ॥ ३० ॥ अकम्पनीयान्यपनीति भेदैः अलंकृषीरन् हृदयं मदीयम् । शङ्काकलङ्का पगमोज्ज्वलानि तत्त्वानि सम्यञ्चि तव प्रसादात् ॥ ३१ ॥ व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्कचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः । अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां आविर्भूयादनघ महिमा मानसे वागधीशः ॥ ३२ ॥ व्याख्या मुद्रां करसरसिजैः वागर्थ सिद्धिहेतोः पठत हयग्रीवसंस्तुतिं भक्त्या । कवितार्किक केसरिणा वेङ्कटनाथेन विरचितामेताम् ॥ ३३ ॥ वागर्थ सिद्धिहेतोः कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
॥ दशावतार स्तोत्रम् ॥ श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ देवो नः शुभमातनोतु दशधा निर्वर्तयन् भूमिकां रङ्गे धामनि लब्ध निर्भर रसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ १ ॥ देवो नः शुभमातनोतु निर्मग्न श्रुति जाल मार्गण दशा दत्त क्षणैर्वीक्षणैः अन्तस्तन्वदिवारविन्द गहनान्यौदन्वतीनामपाम् । निष्प्रत्यूह तरङ्ग रिङ्गण मिथः प्रत्यूढ पाथश्छटा - डोलारोह सदोहलं भगवतो मात्स्यं वपुः पातु नः ॥ २ ॥ अव्यासुर्भुवन त्रयीमनिभृतं कण्डूयनैरद्रिणा निद्राणस्य परस्य कूर्म वपुषो निश्वास वातोर्मयः । यद्विक्षेपण संस्कृतो दधिपयः प्रेङ्खोलपर्यङ्किका - नित्यारोहण निर्वृतो विहरते देवः सहैव श्रिया ॥ ३ ॥ गोपायेदनिशं जगन्ति कुहना पोत्री पवित्री कृत - ब्रह्माण्डः प्रलयोर्मि घोष गुरुभिर्घोणा रवैर्घुर्घुरैः । यद्दंष्ट्राङ्कुर कोटि गाढ घटना निष्कम्प नित्य स्थितिः ब्रह्म स्तम्बमसौदसौ भगवती मुस्तेव विश्वम्भरा ॥ ४ ॥ प्रत्यादिष्ट पुरातन प्रहरण ग्रामः क्षणं पाणिजैः अव्यात् त्रीणि जगन्त्यकुण्ठ महिमा वैकुण्ठ कण्ठीरवः । यत्प्रादुर्भवनादवन्ध्य जठरा यादृच्छिकाद् वेधसां या काचित् सहसा महासुर गृह स्थूणा पितामह्यभूत् ॥ ५ ॥ व्रीडा विद्ध वदान्य दानव यशो नासीर धाटी भटः त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः । यत्प्रस्ताव समुच्छ्रित ध्वज पटी वृत्तान्त सिद्धान्तिभिः स्रोतोभिः सुरसिन्धुरष्टसु दिशा सौधेषु दोधूयते ॥ ६ ॥ क्रोधाग्निं जमदग्नि पीडन भवं सन्तर्पयिष्यन् क्रमात् अक्षत्रामपि सन्ततक्ष य इमां त्रिःसप्त कृत्वः क्षितिम् । दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वसन् अब्रह्मण्यमपाकरोतु भगवानाब्रह्म कीटं मुनिः ॥ ७ ॥ पारावार पयो विशोषण कला पारीण कालानल - ज्वाला जाल विहार हारि विशिख व्यापार घोर क्रमः । सर्वावस्थ सकृत्प्रपन्न जनता संरक्षणैक व्रती धर्मो विग्रहवानधर्म विरतिं धन्वी स तन्वीत नः ॥ ८ ॥ फक्कत्कौरव पट्टण प्रभृतयः प्रास्त प्रलम्बादयः तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः । क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणैः आकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः ॥ ९ ॥ नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्र क्रमैः भूयोभिर्भुवनान्यमूनि कुहना गोपाय गोपायते । कालिन्दी रसिकाय कालिय फणि स्फार स्फटा वाटिका - रङ्गोत्सङ्ग विशङ्क चंक्रमधुरा पर्यायचर्या यते ॥ १० ॥ भाविन्या दशया भवन्निह भव ध्वंसाय नः कल्पतां कल्की विष्णुयशस्सुतः कलि कथा कालुष्य कूलङ्कषः । निःशेष क्षत कण्टके क्षितितले धारा जलौघैर्ध्रुवं धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंश धाराधरः ॥ ११ ॥ इच्छा मीन विहार कच्छप महा पोत्रिन् यदृच्छा हरे रक्षा वामन रोष राम करुणा काकुत्स्थ हेला हलिन् । क्रीडा वल्लव कल्क वाहन दशा कल्किन्निति प्रत्यहं जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघ पण्यापणाः ॥ विद्योदन्वति वेङ्कटेश्वरकवौ जातं जगन्मङ्गलं देवेशस्य दशावतार विषयं स्तोत्रं विवक्षेत यः । वक्त्रे तस्य सरस्वती बहु मुखी भक्तिः परा मानसे शुद्धिः कापि तनौ दिशासु दशसु ख्यातिः शुभा जृम्भते ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
॥ न्यास दशकम् ॥ श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ अहं मद्रक्षण भरो मद्रक्षण फलं तथा । न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद् बुधः ॥ १ ॥ न्यस्याम्यकिञ्चनः श्रीमन्ननुकूलोऽन्यवर्जितः । विश्वास प्रार्थना पूर्वम् आत्मरक्षा भरं त्वयि ॥ २ ॥ स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् । स्वदत्त स्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३ ॥ श्रीमन्नभीष्ट वरद त्वामस्मि शरणं गतः । एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४ ॥ त्वच्छेषत्वे स्थिर धियं त्वत्प्राप्त्येक प्रयोजनम् । निषिद्ध काम्य रहितं कुरु मां नित्य किङ्करम् ॥ ५ ॥ देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव । नित्यं निरपराधेषु कैंकर्येषु नियुङ्क्ष्व माम् ॥ ६ ॥ मां मदीयं च निखिलं चेतनाचेतनात्मकम् । स्वकैंकर्योपकरणं वरद स्वीकुरु स्वयम् ॥ ७ ॥ त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर । नप्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८ ॥ अकृत्यानां च करणं कृत्यानां वर्जनं च मे । क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९ ॥ श्रीमान् नियत पञ्चाङ्गं मद्रक्षण भरार्पणम् । अचीकरत् स्वयं स्वस्मिन्नतोऽहमिह निर्भरः ॥ १० ॥ संसारावर्त वेग प्रशमन शुभदृग्देशिक प्रेक्षितोऽहं सन्त्यक्तोऽन्यैरुपायैरनुचित चरितोष्वद्य शान्ताभिसन्धिः । निःशङ्कस्तत्वदृष्ट्या निरवधिकदयं प्रार्थ्य संरक्षकं त्वां न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
॥ सुदर्शनाष्टकम् ॥ श्रीमान् वेङ्कट नाथार्यः कवितार्किक केसरी । वेदान्ता चार्य वर्योमे सन्निधत्तां सदाहृदि ॥ प्रतिभट श्रेणि भीषण वर गुण स्तोम भूषण जनिभय स्थान तारण जगदवस्थान कारण । निखिल दुष्कर्म कर्शन निगम सद्धर्म दर्शन जय जय श्री सुदर्शन जय जय श्री सुदर्श्नन ॥ १ ॥ शुभ जगद्रूप मण्डन सुर गण त्रास खण्डन शत-मख ब्रह्म वन्दित शत-पथ ब्रह्म नन्दित । प्रथित विद्वत्सपक्षित भजदहिर्बुध्न्य लक्षित जय जय श्री सुदर्शन जय जय श्री सुदर्शन ॥ २ ॥ स्फुट तटिज्जाल पिञ्जर पृथु-तर ज्वाल पञ्जर परिगत प्रत्न विग्रह परिमित प्रज्ञ दुर्ग्रह । प्रहरण ग्राम मण्डित परिजनत्राण पण्डित जय जय श्री सुदर्शन जय जय श्री सुदर्श्नन ॥ ३ ॥ निज पद प्रीत सद्गण निरुपधि स्फीत षड्जुण निगम निर्व्यूढ वैभव निज पर व्यूह वैभव । हरि हय द्वेषि दारण हर पुर प्लोष कारण जय जय श्री सुदर्शन जय जय श्री सुदर्श्नन ॥ ४ ॥ दनुज विस्तार कर्तन जनि तमिस्रा विकर्तन दनुज विद्या निकर्तन भजदविद्या निवर्तन । अमर दृष्ट स्व विक्रम समर जुष्ट भ्रमि क्रम जय जय श्री सुदर्शन जय जय श्री सुदर्श्नन ॥ ५ ॥ प्रतिमुखालीढ बन्धुर पृथु महा हेति दन्तुर विकट माया बहिष्कृत विविध माला परिष्कृत । पृथु महायन्त्र तन्त्रित दृढ दया तन्त्र यन्त्रित जय जय श्री सुदर्शन जय जय श्री सुदर्श्नन ॥ ६ ॥ महित सम्पत्सदक्षर विहित सम्पत्षडक्षर षडर चक्र प्रतिष्टित सकल तत्त्व प्रतिष्टित । विविध सङ्कल्प कल्पक विबुध सङ्कल्प कल्पक जय जय श्री सुदर्शन जय जय श्री सुदर्श्नन ॥ ७ ॥ भुवन नेतस्त्रयीमय सवन तेजस्त्रयीमय निरवधि स्वादु चिन्मय निखिल शक्ते जगन्मय । अमित विश्व क्रियामय शमित विष्वग्भयामय जय जय श्री सुदर्शन जय जय श्री सुदर्श्नन ॥ ८ ॥ द्विचतुष्कमिदं प्रभूत सारं पटतां वेङ्कटनायक प्रणीतं विषमेऽपि मनोरथः प्रधावन् न विहन्येत रथाङ्गधुर्यगुप्तः कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
॥ वैराग्य पञ्चकम् ॥ क्षोणी कोण शतांश पालन कला दुर्वार गर्वानल- क्षुभ्यत्क्षुद्र नरेन्द्र चाटु रचना धन्यान् न मन्यामहे । देवं सेवितुमेव निश्चिनुमहे योऽसौ दयालुः पुरा दाना मुष्टिमुचे कुचेल मुनये दत्ते स्म वित्तेशताम् ॥ १ ॥ सिलं किमनलं भवेदनलमौदरं बाधितुं पयः प्रसृति पूरकं किमु न धारकं सारसम् । अयत्न मल मल्लकं पथि पटच्चरं कच्चरं भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः ॥ २ ॥ ज्वलतु जलधि क्रोड क्रीडत्कृपीड भव प्रभा- प्रतिभट पटु ज्वाला मालाकुलो जठरानलः । तृणमपि वयं सायं सम्फुल्ल मल्लि मतल्लिका परिमलमुचा वाचा याचामहे न महीश्वरान् ॥ ३ ॥ दुरीश्वर द्वार बहिर्वितर्दिका- दुरासिकायै रचितोऽयमञ्जलिः । यदञ्जनाभं निरपायमस्ति मे धनञ्जय स्यन्दन भूषणं धनम् ॥ ४ ॥ शरीर पतनावधि प्रभु निषेवणापादनात् अबिन्धन धनञ्जय प्रशमदं धनं दन्धनम् । धनञ्जय विवर्धनं धनमुदूढ गोवर्धनं सुसाधनमबाधनं सुमनसां समाराधनम् ॥ ५ ॥ नास्ति पित्रार्जितं किञ्चिन्न मया किञ्चिदार्जितम् । अस्ति मे हस्ति शैलाग्रे वस्तु पैतामहं धनम् ॥ ६ ॥
॥ श्रीस्तुतिः ॥ मानातीत प्रथित विभवां मङ्गलं मङ्गलानां वक्षः पीठीं मधु विजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविक महिम प्रार्थिनीनां प्रजानां श्रेयो मूर्ति श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ १ ॥ आविर्भावः कलश जलधावध्वरे वापि यस्याः स्थानं यस्याः सरसिज वनं विष्णु वक्षः स्थलं वा । भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा स्तोक प्रज्ञैरनवधि गुणा स्तूयसे सा कथं त्वम् ॥ २ ॥ स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना तामेव त्वामनितर गतिः स्तोतुमाशंसमानः । सिद्धारम्भः सकल भुवन श्लाघनीयो भवेयं सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥ ३ ॥ यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां जन्म स्थेम प्रलय रचना जङ्गमाजङ्गमानाम् । तत् कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ पूर्णं तेजः स्फुरति भवती पाद लाक्षा रसाङ्कम् ॥ ४ ॥ निष्प्रत्यूह प्रणय घटितं देवि नित्यानपायं विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्य लक्ष्यम् । शेषश्चित्तं विमल मनसां मौलयश्च श्रुतीनां सम्पद्यन्ते विहरण विधौ यस्य शय्या विशेषाः ॥ ५ ॥ उद्देश्यत्वं जननि भजतोरुज्झितोपाधि गन्धं प्रत्यग्रूपे हविषि युवयोरेक शेषित्व योगात् । पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥ पश्यन्तीषु श्रुतिषु परितः सूरि वृन्देन सार्धं मध्ये कृत्य त्रिगुण फलकं निर्मित स्थान भेदम् । विश्वाधीश प्रणयिनि सदा विभ्रम द्यूत वृत्तौ ब्रह्मेशाद्या दधति युवयोरक्ष शार प्रचारम् ॥ ७ ॥ अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं लक्ष्मीः पद्मा जलधि तनया विष्णु पत्नीन्दिरेति । यन्नामानि श्रुति परिपणान्येवमावर्तयन्तो नावर्तन्ते दुरित पवन प्रेरिते जन्म चक्रे ॥ ८ ॥ त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं किं तैरन्तः कलह मलिनैः किञ्चिदुत्तीर्य मग्नैः । त्वत्सम्प्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां भावारूढौ भगवति युवां दम्पती दैवतं नः ॥ ९ ॥ आपन्नार्ति प्रशमन विधौ बद्ध दीक्षस्य विष्णोः आचख्युस्त्वां प्रिय सहचरिमैकमत्योपपन्नाम् । प्रादुर्भावैरपि सम तनुः प्राध्वमन्वीयसे त्वं दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥ १० ॥ धत्ते शोभां हरि मरकते तावकी मूर्तिराद्या तन्वी तुङ्ग स्तनभर नता तप्त जाम्बूनदाभा । यस्यां गच्छन्त्युदय विलयैर्नित्यमानन्द सिन्धौ इच्छा वेगोल्लसित लहरी विभ्रमं व्यक्तयस्ते ॥ ११ ॥ आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः यद् भ्रू भङ्गात् कुसुम धनुषः किङ्करो मेरु धन्वा । यस्यां नित्यं नयन शतकैरेक लक्ष्यो महेन्द्रः पद्मे तासां परिणतिरसौ भाव लेशैस्त्वदीयैः ॥ १२ ॥ अग्रे भर्तुः सरसिज मये भद्र पीठे निषण्णाम् अम्भो राशेरधिगत सुधा सम्प्लवादुत्थितां त्वाम् । पुष्पासार स्थगित भुवनैः पुष्कलावर्तकाद्यैः कॢप्तारम्भाः कनक कलशैरभ्यषिञ्चन् गजेन्द्राः ॥ १३ ॥ आलोक्य त्वाममृत सहजे विष्णु वक्षःस्थलस्थां शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः । लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः सर्वाकार स्थिर समुदयां सम्पदं निर्विशन्ति ॥ १४ ॥ आर्त त्राण व्रतिभिरमृतासार नीलाम्बुवाहैः अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः । यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया तस्यां तस्यामहमहमिकां तन्वते सम्पदोघाः ॥ १५ ॥ योगारम्भ त्वरित मनसो युष्मदैकान्त्य युक्तं धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् । तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥ श्रेयस्कामाः कमलनिलये चित्रमाम्नाय वाचां चूडापीडं तव पद युगं चेतसा धारयन्तः । छत्र च्छाया सुभग शिरसश्चामर स्मेर पार्श्वाः श्लाघाशब्द श्रवण मुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥ ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन् दूरीकर्तुं दुरित निवहं त्यक्तुमाद्यामविद्याम् । अम्ब स्तम्बावधिक जनन ग्राम सीमान्त रेखाम् आलम्बन्ते विमल मनसो विष्णु कान्ते दयां ते ॥ १८ ॥ जाताकाङ्क्षा जननि युवयोरेक सेवाधिकारे मायालीढं विभवमखिलं मन्यमानास्तृणाय । प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते वेलाभङ्गः प्रशमन फलं वैदिकं धर्मसेतुम् ॥ १९ ॥ सेवे देवि त्रिदश महिला मौलि मालार्चितं ते सिद्धि क्षेत्रं शमित विपदां सम्पदां पाद पद्मम् । यस्मिन्नीषन्नमित शिरसो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ २० ॥ सानुप्रास प्रकटित दयैः सान्द्र वात्सल्य दिग्धैः अम्ब स्निग्धैरमृत लहरी लब्ध सब्रह्यचर्यईः । धर्मे ताप त्र य विरचिते गाढ तप्तं क्षणं माम् आकिञ्चन्य ग्लपितमनघैरार्द्रयेथाः कटाक्षैः ॥ २१ ॥ सम्पद्यन्ते भव भय तमी भानवस्त्वत्प्रसादात् भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः । याचे किं त्वामहमिह यतः शीतलोदार शीला भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥ माता देवि त्वमसि भगवान् वासुदेवः पिता मे जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः । दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं किं ते भूयः प्रियमिति किल स्मेर वक्त्रा विभासि ॥ २३ ॥ कल्याणानामविकल निधिः काऽपि कारुण्य सीमा नित्यामोदा निगम वचसां मौलि मन्दार माला । सम्पद्दिव्या मधु विजयिनः सन्निधत्तां सदा मे सैषा देवी सकल भुवन प्रार्थना कामधेनुः ॥ २४ ॥ उपचित गुरु भक्तेरुत्थितं वेङ्कटेशात् कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम् । सरसिज निलयायाः स्तोत्रमेतत् पठन्तः सकल कुशल सीमाः सार्वभौमा भवन्ति ॥ २५ ॥
॥ गोदा स्तुतिः ॥ श्रीविष्णुचित्त कुल नन्दन कल्पवल्लीं श्रीरङ्गराज हरिचन्दन योग दृश्यम् । साक्षात् शमां करुणया कमलामिवान्यां गोदामनन्यशरणः शरणं प्रपद्ये ॥ १ ॥ वैदेशिकः श्रुति गिरामपि भूयसीनां वर्णेषु माति महिमा न हि मादृशां ते । इत्थं विदन्तमपि मां सहसैव गोदे मौन द्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ २ ॥ त्वत्प्रेयसः श्रवणयोरमृतायमानां तुल्यां त्वदीय मणि नूपुर शिञ्जितानाम् । गोदे त्वमेव जननि त्वदभिष्टवार्हां वाचं प्रसन्न मधुरां मम संविधेहि ॥ ३ ॥ कृष्णान्वयेन दधतीं यमुनानुभावं तीर्थैर्यथावदवगाह्य सरस्वतीं ते । गोदे विकस्वर धियां भवती कटाक्षात् वाचः स्फुरन्ति मकरन्द मुचः कवीनाम् ॥ ४ ॥ अस्मादृशामपकृतौ चिर दीक्षितानां अह्नाय देवि दयते यदसौ मुकुन्दः । तन्निश्चितं नियमितस्तव मौलि दाम्ना तन्त्री निनादमधुरैश्च गिरां निगुम्भैः ॥ ५ ॥ शोणाऽधरेऽपि कुचयोरपि तुङ्गभद्रा वाचां प्रवाहनिवहेऽपि सरस्वती त्वम् । अप्राकृतैरपि रसैर्विरजा स्वभावात् गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ ६ ॥ वल्मीकतः श्रवणतो वसुधात्मनस्ते जातो बभूव स मुनिः कवि सार्वभौमः । गोदे किमद्भुतमिदं यदमी स्वदन्ते वक्त्रारविन्द मकरन्द निभाः प्रबन्धाः ॥ ७ ॥ भोक्तुं तव प्रियतमं भवतीव गोदे भक्तिं निजां प्रणय भावनया गृणन्तः । उच्चावचैर्विरह सङ्गमजैरुदन्तैः श‍ृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥ ८ ॥ मातः समुत्थितवतीमधि विष्णुचित्तं विश्वोपजीव्यममृतं वचसा दुहानाम् । तापच्छिदं हिम रुचेरिव मूर्तिमन्यां सन्तः पयोधि दुहितुः सहजां विदुस्त्वाम् ॥ ९ ॥ तातस्तु ते मधुभिदः स्तुति लेश वश्यात् कर्णामृतैः स्तुति शतैरनवाप्त पूर्वम् । त्वन्मौलि गन्ध सुभगामुपहृत्य मालां लेभे महत्तर पदानुगुणं प्रसादम् ॥ १० ॥ दिक् दक्षिणाऽपि परि पक्त्रिम पुण्य लभ्यात् सर्वोत्तरा भवति देवि तवावतारात् । यत्रैव रङ्गपतिना बहुमान पूर्वं निद्रालुनापि नियतं निहिताः कटाक्षाः ॥ ११ ॥ प्रायेण देवि भवती व्यपदेश योगात् गोदावरी जगदिदं पयसा पुनीते । यस्यां समेत्य समयेषु चिरं निवासात् भागीरथी प्रभृतयोऽपि भवन्ति पुण्याः ॥ १२ ॥ नागे शयः सुतनु पक्षिरथः कथं ते जातः स्वयंवर पतिः पुरुषः पुराणः । एवं विधाः समुचितं प्रणयं भवत्याः सन्दर्शयन्ति परिहास गिरः सखीनाम् ॥ १३ ॥ त्वद्भुक्त माल्य सुरभीकृत चारु मौलेः हित्वा भुजान्तर गतामपि वैजयन्तीम् । पत्युस्तवेश्वरि मिथः प्रतिघात लोलाः बर्हातपत्र रुचिमारचयन्ति भृङ्गाः ॥ १४ ॥ आमोदवत्यपि सदा हृदयं गमाऽपि रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि । मौलि स्रजा तव मुकुन्द किरीट भाजा गोदे भवत्यधरिता खलु वैजयन्ती ॥ १५ ॥ त्वन्मौलि दामनि विभोः शिरसा गृहीते स्वच्छन्द कल्पित सपीति रस प्रमोदाः । मञ्जु स्वना मधु लिहो विदधुः स्वयं ते स्वायंवरं कमपि मङ्गल तूर्य घोषम् ॥ १६ ॥ विश्वायमान रजसा कमलेन नाभौ वक्षःस्थले च कमला स्तन चन्दनेन । आमोदितोऽपि निगमैर्विभुरङ्घ्रि युग्मे धत्ते नतेन शिरसा तव मौलि मालाम् ॥ १७ ॥ चूडा पदेन परिगृह्य तवोत्तरीयं मालामपि त्वदलकैरधिवास्य दत्ताम् । प्रायेण रङ्गपतिरेष बिभर्ति गोदे सौभाग्य सम्पदभिषेक महाधिकारम् ॥ १८ ॥ तुङ्गैरकृत्रिम गिरः स्वयमुत्तमाङ्गैः यं सर्वगन्ध इति सादरमुद्वहन्ति । आमोदमन्यमधिगच्छति मालिकाभिः सोऽपि त्वदीय कुटिलालक वासिताभिः ॥ १९ ॥ धन्ये समस्त जगतां पितुरुत्तमाङ्गे त्वन्मौलिमाल्य भर सम्भरणेन भूयः । इन्दीवर स्रजमिवादधति त्वदीयानि आकेकराणि बहुमान विलोकितानि ॥ २० ॥ रङ्गेश्वरस्य तव च प्रणयानुबन्धात् अन्योन्य माल्य परिवृत्तिमभिष्टुवन्तः । वाचालयन्ति वसुधे रसिकास्त्रिलोकीं न्यूनाधिकत्व समता विषयैर्विवादैः ॥ २१ ॥ दूर्वा दल प्रतिमया तव देह कान्त्या गोरोचना रुचिरया च रुचेन्दिरायाः । आसीदनुञ्झित शिखावल कण्ठ शोभं माङ्गल्यदं प्रणमतां मधुवैरि गात्रम् ॥ २२ ॥ अर्च्यं समर्च्य नियमैर्निगम प्रसूनैः नाथं त्वया कमलया च समेयिवांसम् । मातश्चिरं निरविशन् निजमाधिराज्यं मान्या मनु प्रभृतयोऽपि महीक्षितस्ते ॥ २३ ॥ आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं रङ्गेश्वरस्य रमया विनिवेद्यमाने । पार्श्वे परत्र भवती यदि तत्र नासीत् प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ २४ ॥ गोदे गुणैरपनयन् प्रणतापराधान् भ्रूक्षेप एव तव भोग रसानुकूलः । कर्मानुबन्धि फल दान रतस्य भर्तुः स्वातन्त्र्य दुर्व्यसन मर्म भिदा निदानम् ॥ २५ ॥ रङ्गे तटिद्गुणवतो रमयैव गोदे कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या । दौर्गत्य दुर्विष विनाश सुधा नदीं त्वां सन्तःप्रपद्य शमयन्त्यचिरेण तापान् ॥ २६ ॥ जातापराधमपि मामनुकम्प्य गोदे गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः । वात्सल्य निर्भरतया जननी कुमारं स्तन्येन वर्धयति दष्ट पयोधराऽपि ॥ २७ ॥ शतमख मणि नीला चारु कल्हार हस्ता स्तन भर नमिताङ्गी सान्द्र वात्सल्य सिन्धुः । अलक विनिहिताभिः स्रग्भिराकृष्ट नाथा विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥ २८ ॥ इति विकसित भक्तेरुत्थितां वेङ्कटेशात् बहुगुण रमणीयां वक्ति गोदास्तुतिं यः । स भवति बहुमान्यः श्रीमते रङ्गभर्तुः चरण कमल सेवां शाश्वतीमभ्युपैष्यन् ॥ २९ ॥
॥ चतुःस्लोकी ॥ कान्तस्ते पुतुषोत्तमः फणिपतिः शय्याऽसनं वाहनं वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी । ब्रह्मेशादिसुरव्रजः सदयितः त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् ॥ १ ॥ यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः । तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयः लोकैकेश्वरि ! लोकनाथदयिते ! दान्ते दयां ते विदन् ॥ २ ॥ ईषत् त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते नष्टं प्राक् तदलाभतस्त्रिभुवनं सम्प्रत्यनन्तोदयम् । श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित् ॥ ३ ॥ शान्तानन्तमहाविभूति परमं यद् ब्रह्म रूपं हरेः मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम् । यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता - न्याहुः स्वैरनरूपरूपविभवैर्गाढोपगूढानि ते ॥ ४ ॥
॥ नन्दनन्दन श्रीकृष्णाष्टकम् ॥ भजे व्रजैकमंडनं समस्तपापखण्डनं स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् । सुपिच्छगुच्छ-मस्तकं सुनादवेणुहस्तकं अनंगरंगसागरं नमामि कृष्ण-नागरम् ॥ १ ॥ मनोज-गर्वमोचनं विशाल-लोल-लोचनं विधूतगोपशोचनं नमामि पद्मलोचनम् । करारविन्दभूवरं स्मितावलोकसुन्दरं महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥ २ ॥ कदम्बसूनकुण्डलं सचारुगण्डमण्डलं व्रजाङ्गनैकवल्लभं नमामि कृष्ण-दुर्लभम् । यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम् ॥ ३ ॥ सदैव पादपंकजं मदीयमानसे निजं दधानमुत्तमालकं नमामि नन्दबालकम् । समस्तदोष-शोषणं समस्तलोकपोषणं समस्तगोप-मानसं नमामि कृष्णलालसम् ॥ ४ ॥ भुवो भरावतारकं भवाब्धिकर्णधारकं यशोमती-किशू-रकं नमामि दुग्धचोरकम् । दृगन्तकान्तभंगिनं सदासदालसंगिनं दिनेदिने नवं नवं नमामि नन्दसम्भवम् ॥ ५ ॥ गुणाकरं सुखाकरं कृपाकरं कृपावरं सुरद्विष-न्निकन्दनं नमामि गोपनन्दनम् । नवीनगोपनागरं नवीनकेलि-लम्पटं नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥ ६ ॥ समस्तगोपनन्दनं हृदम्बुजैकमोहनं नमामि कुंजमध्यगं प्रसन्नभानुशोभनम् । निकाम-कामदायकं दृगन्तचारु-सायकं रसालवेणु-गायकं नमामि कुंजनायकम् ॥ ७ ॥ विदग्ध-गोपिका-मनो-मनोज्ञतल्प-शायिनं नमामि कुंजकानने प्रवृद्ध-वह्नि-पायिनम् । यदा तदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गीयतां तथा कृपा विधीयताम् । प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान् भवेत् स नन्दनन्दने भवे भवे सुभक्तिमान् ॥ ८ ॥
॥ गजेन्द्र मोक्षम् ॥ ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्य मारुह्य धावन् व्याघूर्णन् माल्यभूषा वसन परिकरो मेघ गम्भीर घोषः । आबिभ्राणो रथाङ्गं शरमसि मभयं शङ्ख चापौ सखेटौ हस्तैः कौमोदकी मप्यवतु हरिरसा वंहसां संहतेर्नः ॥ नक्राक्रान्ते करीन्द्रे मुकुळित नयने मूल मूलेतिखिन्ने नाहं नाहं नचाहं न च भवति पुनस्तादृशो मादृशेषु इत्येवं त्यक्तहस्ते सपदि सुरगणे भाव शून्ये समस्ते मूलं यत्प्रादुरासीत् स दिशतु भगवान् मङ्गळं सन्ततं नः ॥
॥ श्लोकत्रयम् ॥ प्रातः स्मरामि भवभीति महार्ति शान्त्यै नारायणं गरुड वाहन मञ्जनाभम् । ग्राहाभि भूत मदवारण मुक्ति हेतुं चक्रायुधं तरुण वारिज पत्रनेत्रम् ॥ प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्द युगळं परमस्य पुंसः । नारायणस्य नरकार्णव तारणस्य पारायण प्रवण विप्र परायणस्य ॥ प्रातर्भजामि भजता मभयं करं तं प्राक् सर्व जन्म कृत पाप भयापनुत्यै । यो ग्राहवक्त्र पतितान्घ्रि गजेन्द्र घोर शोक प्रणाशन करो धृत शङ्ख चक्रः ॥ श्लोकत्रयमिदं पुण्यं प्रातरुत्थाय यः पठेत् लोकत्रय गुरुस्तस्मै दध्यादात्मपदं हरिः ॥ सर्वं श्री कृष्णार्पणमस्तु From Sri T. R. Chari's Stotra site at http://www.geocities.com/Athens/Delphi/2627/indextml These pages are maintained as a small step in fostering sanAtana sAmpradAyam. ITRANS transliteration scheme has been generally followed for all Sanskrit words written in Roman script, and adapted where appropriate, for easy reading. As with any work of this nature, there is always scope for improvement. Suggestions and any typographical corrections in the stotram texts may be forwarded to trchari at hotmail.com
% Text title            : stotraadi
% File name             : tstotra.itx
% itxtitle              : stotrAdi
% engtitle              : Sri T R Chari's stotra collection
% Category              : deities_misc, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Collection T. R. Chari trchari at hotmail.com
% Proofread by          : T. R. Chari trchari at hotmail.com
% Indexextra            : (Sri T R Chari Stotra Collection)
% Latest update         : November 29, 1998
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org