श्रीवादिराजस्तुतिः
चन्द्रार्ककोटिलावण्यलक्ष्मीशकरुणालयम् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ १॥
इन्द्रादिदेवताराध्यमध्वंशजमादरात् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ २॥
श्रीहयास्यार्चनरतं साधुवेदार्थबोधकम् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ ३॥
दुर्वादिवमत्तविध्वंसकण्ठीरवमहर्निशम् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ ४॥
सर्वकामप्रदं श्रीमद्द्विजेन्द्रकुलशेखरम् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ ५॥
मन्त्रक्रमविचारज्ञं तन्त्रशास्त्रप्रवर्तकम् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ ६॥
ज्ञानादिगुणसम्पन्नमशेषाघहरं विभुम् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ ७॥
प्रदक्षिणीकृतभुवं स्वक्षमालाधरं विभुम् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ ८॥
विचित्रमुकुटोपेतमचिन्त्याद्भुतदर्शनम् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ ९॥
पुरतो वासुदेवस्य निवसन्तं महाद्युतिम् ।
वन्दिताङ्घ्रियुगं सद्भिर्वादिराजं नतोऽस्म्यहम् ॥ १०॥
॥ इति श्रीवेदवेद्यतीर्थकृता श्रीवादिराजगुरुस्तुतिः समाप्ता ॥