श्रीवैश्वानराष्टकम्

श्रीवैश्वानराष्टकम्

समुद्भूतो भूमौ भगवदभिधानेन सदयः समुद्धारं कर्तुं कृपणमनुजानां कलियुगे । चकार स्वं मार्गं प्रकटमतुलानन्दजननं स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ १॥ निजानन्दे मग्नः सततमथ लग्नश्च मनसा हरौ भग्नासक्तिर्जगति जगदुद्धारकरणः । कृपापारावारः परहृदयशोकापहरणः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ २॥ महामायामोहप्रशमनमना दोषनिचया- प्रतीतः श्रीकृष्णः प्रकटपदविद्वेषसयुजाम् । मुखध्वंसं चक्रे निगमवचनैर्मायिकनृणां स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ३॥ प्रसिद्धैस्तैर्दोषैः सहजकलिदोषादिजनितो- यतः स्वीयैर्धर्मैरपि च रहितः सर्वमनुजः । कृतः सम्बन्धेन प्रभुचरणसेवादिसहितः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ४॥ विभेदं यश्चक्रे हरिभजनपूजादिविधिषु स्वमार्गीयप्राप्यं फलमपि फलेभ्यः समधिकम् । विना वैराग्यादेरपि परममोक्षैकफलदः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ५॥ परिक्रान्ता पृथ्वीचरणकमलैस्तीर्थमहिम- प्रसिद्ध्यर्थं स्वीयस्मरणसमवाप्त्यै निजनृणाम् । तथा दैवाञ्जीवाञ्जगति च पृथक्कर्तुमखिलान् स मे मूर्धन्यस्तां हरिवदनवैश्वानरविभुः ॥ ६॥ हरिं भावात्मानं तदखिलविहारानपि तथा समस्तां सामग्रीं मनुजपशुपक्ष्यादिसहितान् । कृपामात्रेणात्र प्रकटयति दृक् पारकरुणः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ७॥ परेषामासक्तिं सुतधनशरीरादिषु दृढां द्रुतं भस्मीचक्रे बहुलमपि तूलं ज्वलन इव । स्वसान्निध्यादेव व्यसनमपि कृष्णोऽपि विदधत् स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ८॥ इति श्रीमत्प्रोक्तं हरिचरणदासेन हरिणा- ऽष्टकं स्वाचार्यणां पठति परमप्रेमसहितः । जनस्तस्य स्याद्वै हरिवदनवैश्वानरपदे परो भावस्तूर्णं सकलफलरूपस्तदधिकः ॥ ९॥ इति श्रीहरिरायजीविरचितं श्रीवैश्वानराष्टकं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : vaishvAnarAShTakam
% File name             : vaishvAnarAShTakam.itx
% itxtitle              : vaishvAnarAShTakam (harirAyajIvirachitam)
% engtitle              : vaishvAnarAShTakam
% Category              : deities_misc, puShTimArgIya, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : harirAyajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org