श्रीवल्लभगीतम्
(अथ श्रीवल्लभगीतग्रन्थांशः)
श्रीमद्गोकुलमण्डनं वरतनुं कल्याणवारान्निधिं
विध्नौघोन्मदनागकुम्भदलनातिप्रौढसिंहाक्रमम् ।
भक्तापत्तितमःसमूहहरणे श्रीसूर्यकोटिप्रभं
वन्देऽहं कमलाधवं द्विजवरं श्रीवल्लभं सत्प्रियम् ॥ १॥
यो भक्तप्रियमादरेण कुरुते विन्दन्ति यं नामरा
येनैवापहृतं जनस्य कलुषं तस्मै नमो नित्यशः ।
यस्मात्सौख्यपदं गता हि सुजना यस्यास्त्यनन्ता गति-
स्तस्मिन्मे मतिरस्तु गोकुलपतौ श्रीवल्लभे सर्वदा ॥ २॥
नाहं काव्यविचक्षणः सुविमला बुद्धिर्न मे स्वोद्भवा
नालङ्कारगतिर्न मे गणिगतिर्नैवान्यदेवाश्रयः ।
श्रीमद्गोकुलनाथ विठ्ठलसुत श्रीविप्ररूपाकृते
श्रीमद्वल्लभनाथ ते पदसरोजस्यास्ति वै मे बलम् ॥ ३॥
क्वाहं मन्दमतिस्तथाल्पविषयासक्तो मनुष्योऽप्यथ
क्वेदं क्षीरसमुद्रकस्य मथनं सद्रत्नकोत्पादकम् ।
पङ्गुर्मेरुगिरेस्तु हीच्छति यथाप्युल्लङ्घनं मन्दधीः
श्रीमद्वल्लभवर्णनं खलु तथेतीच्छामि मोहाश्रितः ॥ ४॥
तथापि वै गोकुलनाथपादपङ्केरुहस्यातिबलं प्रगृह्य च ।
तस्याज्ञया वल्लभगीतमुद्रसं करोति सङ्क्षेपत एव माहबः ॥ ५॥
अथ प्रथमः प्रबन्धः कल्याणरागेण गीयते ।
श्रीमल्लोलविलोचनलोकनलज्जितकोटिमनोजम् ।
आनन्दितममराजभवादिविनम्य सुपादसरोजम् ॥ १॥
नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥
श्रीगोकुलमण्डितललितानहासविमोहितविश्वमजम् ।
आनन्दाम्बुजमुखवचनामृतजीवितकलिग्रसिताखिलमनुजम् ॥ २॥
नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् । ध्रु०॥
आजानुभुजयुगजनाभयदं शरणागतकालभयापहरम् ।
स न कलिमलतूलकदम्बसमग्रविदाहकरं नृवरम् ॥ ३॥
नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥
श्रीवल्लभकुलकुमुदावलिसुखराशिकरामलचन्द्रमसम् ।
कोटिमदनबलदर्पहरं मधुराधरहासविलासरसम् ॥ ४॥
नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥
हीरकमणिगणजटितकुण्डलरुचिशोभितलोलकपोलवरम् ।
कलिकालार्तिजनितभवतापजनामृतपूरकपद्मकरम् ॥ ५॥
नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥
वेदागम्यमनङ्गालयहृदयाम्बुजमद्भुतकेलिकरम् ।
त्रिभुवननिरुपमविमलोदरहृतमानिनीमानसमतिमधुरम् ॥ ६॥
नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥
शीतलसुभगचरणकमलाश्रितवल्लभनिजसुखराशिमलम् ।
निर्मलचामीकरवरकलेवररूपविमर्दितकामखलम् ॥ ७॥
नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥
मनुजाकृतिधारिणमतिललितं द्विजकुलमण्डनमङ्गनिवासम् ॥
मन्मथमन्मथललितगतिं चरणाम्बुजरक्षितमाहवदासम् ॥ ८॥
नमामि श्रीवल्लभमेकरसं रमते सततं वै सरसम् ॥ ध्रु०॥
श्रीमद्वल्लभवारिधिं ह्यगणितानन्दोदकालङ्कृतम् ।
वगृमि खलु मुक्तिशुक्तिममलोद्भवाहुसद्भोगिनम् ॥ १॥
मुक्ताभक्तिमलं हि मीननयनं चावर्तनाभिं ॥॥।??दीम् ।
भक्तश्रेणिममोघनामतरणं स्वेच्छागतिं तं भजे ॥ २॥
इति श्रीमाधवदासविरचितं श्रीवल्लभगीतं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com