श्रीवेदव्यासाष्टकम्
सुजने मतितो विलोपिते निखिले गौतम शापतोमरैः ।
कमलासनपूर्वकैस्स्ततो मतिदो मेस्तु स बादरायणः ॥ १॥
विमलोऽपि पराशरादभूद्भुवि भक्ताभिमतार्थ सिद्धये ।
व्यभजद् बहुधा सदागमान् मतिदो मेस्तु स बादरायणः ॥ २॥
सुतपोमतिशालि जैमिनि प्रमुखानेकविनेय मण्डितः ।
उरुभारतकृन्महायशा मतिदो मेस्तु स बादरायणः ॥ ३॥
निखिलागम निर्णयात्मकं विमलं ब्रह्मसुसूत्रमातनोत् ।
परिहृत्य महादुरागमान् मतिदो मेस्तु स बादरायणः ॥ ४॥
बदरी तरुमण्डिताश्रमे सुखतीर्थेष्ट विनेयदेशिकः ।
उरुतद्भजन प्रसन्नहृन्मतिदो मेस्तु स बादरायणः ॥ ३॥
अजिनाम्बर रूपया क्रिया परिवीतो मुनिवेषभूषितः ।
मुनिभावित पादपङ्कजो मतिदो मेस्तु स बादरायणः ॥ ६॥
कनकाभजटो रविच्छविर्मुखलावण्य जितेन्दुमण्डलः ।
सुखतीर्थदया निरीक्षणो मतिदो मेस्तु स बादरायणः ॥ ७॥
सुजनोद्धरण क्षणस्वकप्रतिमाभूत शिलाष्टकं स्वयम् ।
परिपूर्णधिये ददौ हि यो मतिदो मेस्तु स बादरायणः ॥ ८॥
वेदव्यासाष्टक स्तुत्या मुद्गलेन प्रणीतया ।
गुरुहृत्पद्मसद्मस्थो वेदव्यासः प्रसीदतु ॥ ९॥
इति श्रीमुद्गलाचार्यकृतं श्रीवेदव्यासाष्टकं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar