वेदव्यासलघुस्तोत्राणि
१. श्रीहरिवंशे श्रीवेदव्यासस्तोत्रम्
जयति पराशरसूनुः सत्यवती हृदयनन्दनोव्यासः ।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥
२. श्रीमद्भागवते श्रीवेदव्यासस्तोत्रम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
३. श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितं श्रीवेदव्यासस्तोत्रं
नमो भगवते तस्मै व्यासायामित तेजसे ।
यस्य प्रसादाद् वक्ष्यामि नारायण कथामिमाम् ॥ १
(श्रीम. भा. ता. नि. २-६७) श्रीमद्महाभारत तात्पर्य निर्णयः
जयत्यजोखण्डगुणोरुमण्डलः
सदोदितो ज्ञानमरीचिमाली ।
स्वभक्त हार्दोच्चतमोनिहन्ता
व्यासावतारो हरिरात्म भास्करः ॥ २
(श्रीम. भा. ता. नि. ३-१)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जय मुदीरयेत् ॥ ३
(श्रीम. भा. ता. नि. ३-४)
तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।
विशेषतो मे परमाख्यविद्या व्याख्यां करोम्यन्वपि चाहमेव ॥ ४
(अनुव्याख्यान १-२)
द्वीपे भगिन्याश्च यमस्य विश्वकृत् प्रकाशते ज्ञानमरीचि मण्डलः ।
प्रभासयन्नण्ड बहिस्तथान्तः सहस्रलक्षामित भानुदीधितिः ॥ ५
(श्रीम. भा. ता. नि. १०-५१)
अगण्य दिव्योरुगुणार्णवः प्रभुः समस्त विद्याधिपतिर्जगद्गुरुः ।
अनन्तशक्तिर्जगदीश्वरेश्वरः समस्त दोषातिविदूरविग्रहः ॥ ६
(श्रीम. भा. ता. नि. १०-२२)
शुभमरकतवर्णो रक्तपादाब्बनेत्रा
धरकरनखरसनाग्रश्चक्र शङ्खाब्जरेखः ।
रविकरवरगौरं चर्मचैणंवसान
स्तटिदमलजटा सन्दीप्तचूडं दधानः ॥ ७
(श्रीम. भा. ता. नि. १०-५३)
विस्तीर्ण वक्षाः कमलायताक्षो
बृहद्भुजः कम्बु समानकण्ठः ।
समस्त वेदान्मुखतः समुद्गिरन्
अनन्त चन्द्राधिक कान्ति सन्मुखः ॥ ८
(श्रीम. भा. ता. नि. १-५४)
प्रबोध मुद्राभयदोर्द्वयान्वितो
यज्ञोपवीताजिनमेखलोल्ल सन् ।
दृशा महाज्ञान भुजङ्गदष्ट
मुजीवयानो जगदत्यरोचत ॥ ९
(श्रीम. भा. ता. नि. १०-५५)
४. श्रीमज्जयतीर्थ पूज्यचरणविरचितं श्रीवेदव्यासस्तोत्रम्
येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः
प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्वं परम् ।
ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गगः
तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् ॥ १
(श्रीमन्न्यायसुधा)
याञ्च्नामन्दरलोलिताद्यत उदैद्विद्यैँदिरा निर्जरै-
र्जातो भारत पारिजातसुतरुः सद्ब्रह्म सूत्रामृतम् ।
आसीत्तन्त्रपुराणसन्मणिगणो जातः शुकेन्दुः सदा
सोयं व्याससुधा निधिर्भवतु मे भूत्यै सतां भूतिदः ॥ २
(तत्त्व प्रकाशिका)
दुरन्त दुरितध्वान्त विध्वंसन पटीयसे ।
बादरायणसंज्ञाय परस्मै महसे नमः ॥ ३
(न्यायविवरण टीका)
गुणगणनिलयं पतिं रमाया
जगदघदहनं च वासवीसूनुम् ।
मुनिकुलतिलकं च पूर्णबोधं
गुरुमपि परमं गुरुं च मे वन्दे ॥ ४
(गीताभाष्य टीका)
५. श्री श्रीसत्यधर्मतीर्थविरचितं श्रीवेदव्यासस्तोत्रम्
दशमेदिशमेम्बोधौ धीतर्यातरितुर्यतः ।
पाराशर्यपरम्पारमसिदाशसुतासुतः ॥ १॥
(श्रीमद्भागवत दशमस्कन्ध टिप्पणी)
आचार्योपास्य हे वेदव्यास मत्सेवयानया ।
तदन्तस्थः भव प्रीतो वीतदोष नमोऽस्तु ते ॥ २॥
(श्रीमद्भागवत द्वादशस्कन्ध टिप्पणि)
वासवीनन्दन हरे व्याससारसलोचन ।
दासस्य मे दिश ज्ञानं श्रीसत्यधिषणार्चित ॥ ३॥
(रामायण व्याख्यान)
ऋतबोधहृदावास शतमन्यु मुखस्तुत ।
सुतसत्यवतीदेव्या वितराजित सन्मतीः ॥ ४॥
(रामायण व्याख्यान)
६. श्रीराघवेन्द्रतीर्थविरचितं श्रीवेदव्यासस्तोत्रम्
श्रीशोब्द्युन्मथनाभिरामचरितं देवैर्गृणद्भिः स्तुतः
सद्ज्ञानाय पराशराख्यमुनिना यः सत्यवत्यामभूत् ।
व्यासत्वेन विधाय वेदविवृतिं शास्त्राणि सर्वाण्यपि
ज्ञान सत्सु निधाय तद्गतकलिं निघ्नन् सनोव्याद्दरिः ॥
(श्रीमन् महाभारत ता. नि. भावसङ्ग्रहः)
७. श्रीविजयध्वजतीर्थविरचितं श्रीवेदव्यासस्तोत्रम्
यदीयकृतिरञ्जसा सुमनसां सुमानं सतां
सती सकलसन्नता सकलवेदवाणीनिधिः ।
सचित्सुखपयोनिधिः सरसिजेक्षणः श्रीपतिः
पराशरशरीरजः शरणमस्तु मे सन्ततम् ॥ १॥
(श्रीमद्भागवत प्रथम स्कन्ध आदि)
वेदव्यासमहं वन्दे वेदव्यासैकवेदिनम् ।
वेदव्यास जनारातिं वेदव्यासमुनीनपि ॥
(श्रीमद्भागवत एकादश स्कन्ध आदि)
८. श्रीछलारी शेषाचार्यकृतं श्रीवेदव्यासस्तोत्रं
वेदान्यो व्यभजद्विष्णुर्भारतब्रह्मसूत्रकृत् ।
कर्ता भागवतादेश्च वेदव्यासं नतोऽस्मि तम् ॥
(श्रीमद्भागवत प्रथमस्कन्ध टिप्पणि तात्पर्य बोधिनि)
९. श्रीअहोबल नरसिंहाचार्यकृतं श्रीवेदव्यासस्तोत्रं
व्यासं योगि मनोवासं मध्वदास सुसेवितम् ।
श्रीशं सम्पत्प्रदं नौमि सदा दासेप्सितप्रदम् ॥
(श्रीमद्भागवत विजयध्वज टीका आद्यन्त श्लोक व्याख्यान)
१०. शर्करा श्रीनिवासाचार्यविरचिता श्रीवेदव्यासस्तुतिः
ज्ञानभाक् हृतमोहर्ता श्रुतिपङ्कजबोधकः ।
व्यासांशुमान् दर्शयतु सन्मार्गं गुणमण्डलः ॥
(वाक्यार्थ मञ्जरि)
इति वेदव्यासलघुस्तोत्राणि समाप्ता ।
Encoded and proofread by Krishnananda Achar