श्रीविवेकानन्दप्रशस्तिः
वर्षं भारतमार्षगौरवभरं लब्ध्वापिकालक्रमात्
स्वातन्त्र्यापचयाद्विचाररुचिराचारप्रचारात्ययात् ।
दैन्यालस्यविलासदास्यमभजत् त्रासं च सञ्चारयत्
प्राच्याशामुखमन्धकारविधुरी कृत्येव दुःखं दधौ ॥ १॥
भ्रातृद्वेषमनैक्यशेषमभितो मोहम्मदाः सम्मदा-
दालोक्याखिल भारतं निजपदाधीनत्वमानिन्यिरे ।
श्वेताङ्गास्तदनन्तरं प्रहरणप्रावीण्यतो जित्वरा
विश्वग्रासकृतत्वरा भरतभूराज्येश्वरा रेजिरे ॥ २॥
प्रातः सूरसमः समस्तभुवनं सम्पूरयन्नोजसा
तत्कालोचितभावविग्रहधरः श्रीरामकृष्णोऽभवत् ।
हित्वा काञ्चनकामकाञ्चनरुचिं देवीपदाब्जद्वये
मग्नोऽनग्नयतीन्द्रभातिरकृत श्री सम्भृतं भारतम् ॥ ३॥
तत्तेजोभरयोग सुन्दरतरः श्रीमान्नरेन्द्रः सुधीः
शुद्धः श्री गुरुवैभवानुभवतो लब्ध्वा विवेकोदयम् ।
संन्यासव्रतमादधद्दिशि दिशि स्वाधीनचेताःखलु
भ्राम्यनैश्वर भावभास्वररसैरासिञ्चदाशाचयम् ॥ ४॥
आनन्दं च विवेकमण्डितमहो नामाक्षरं धारयन्
यः पाश्चात्य विपश्चितां मनसि चिद्रूपां द्युतिं दीपयन् ।
सप्तद्वीपा वसुन्धरातलमधि श्री भारतस्याद्भुतं
गौरं गौरवसङ्गतं शुभयशः प्रकाशयत् सन्ततम् ॥ ५॥
वेदान्ते च गुरौ दृढ़ स्थितिरपि प्रोद्दामकर्मप्रियो
वैराग्येऽर्पितमर्मधर्मपरमो देशानुरागानुगः ।
वीरत्वे पुरुषोत्तमोऽपि न रुषा ध्वंसक्रियासाधकः
सङ्घं सङ्घटयन्नसौ विजयते संसारसङ्गच्युतः ॥ ६॥
यन्माहात्म्यहिमांशुराशुतिरयन्त्रासं तमोमावजं
प्राच्यानां पर शृङ्खलस्खलनकृत् सन्धाय सत्साहसम् ।
स्वैरं कैरव कोरकायितजनस्वापं चकार स्फुटं
सोऽयं भारतगर्व पर्वतसमो जीयाद्विवेको यति ॥ ७॥
स्फूर्तिमूर्तिमती भिवाद्य मतिदां जाड्यापहां यद्गिरां
व्याप्तां सप्तसमुद्रपारगमनस्फारां जुषन्ते जनाः ।
आनन्दान्तविवेकनाम रचयन् पृथ्वीतले सार्थकं
जीयाज्जीवगणैकजीवनसुधा श्रीधाम सोऽयं सुधीः ॥ ८॥
इति भट्टपल्लीनिवासीश्रीश्रीजीवन्यायतीर्थभट्टाचार्येणविरचिता
``श्रीविवेकानन्दप्रशस्तिः'' समाप्ता ।
Proofread by Aruna Narayanan