श्रीविवेकानन्दस्मरणम्
यदा धर्मोग्लानिं बहति बहुधा दुर्गतिवशा-
दधर्मा वर्धन्ते जगतिजनदुःखाय महते ।
तदा दीप्तप्रेमा किमपि वपुराधाय भगवान्
विनेतुं दौर्गत्यं चरति सुचिरं क्षौणिवलये ॥ १॥
स्वदेशप्रीत्या यो विमलतमनीत्या प्रथितया
कयाचिद् विख्यातो जगति बहुमानं खलु भजन् ।
प्रियो नः सौभाग्यादजनि धरणौ भारतनृणां
विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥ २॥
विदित्वा वेदान्तं विविधविधिशान्तं सुमनसां
तपः स्मारं स्मारं मुनिनियमसारं परिचरन् ।
चरन् देशे देशे निरदिशदहो तत्त्वमतुलं
विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥ ३॥
यदीयो वेदान्तः प्रथमनवसिद्धान्तमहिमा
हिमार्तानां दीप्तो रविरिव ददौ शान्तिमसमाम् ।
य एकः प्रोद्दीप्तः प्रतिभयजडं धर्ममतनोद्
विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥ ४॥
पवित्रे चारित्रे निरवधिविनीतेन विधिना
सुविज्ञातो लोके विविधविधिमार्गानुपदिशन् ।
महामोहध्वान्तं सपदि लयमानीय महसा
विवेकानन्दोऽसौ जयति यतिवृत्तान्तविबुधः ॥ ५॥
गुणानामाधारः शुभचरितसारो यतिवरः ।
प्रसारं धर्माणां विदधदपि पारे जलनिधेः ।
निधिं शास्त्राम्भोधेरनुगुणगणं यः समतनोद्
विवेकानन्दोऽसौ जयति यतिवृतान्तविबुधः ॥ ६॥
बहूनां शिष्याणां गुरुरमरधामातिथिरभूत्
समुद्देश्यंलोके सुचिरमुपदेष्टुं व्यवसितः ।
तमादर्शीकृत्य प्रचरति सतीशिष्यसमिति
स्ततो जीयादेषा सकल शुभसम्पादनपरा ॥ ७॥
जीयात् स्वामिवरस्य भूमिवलये धर्मोपदेशावलि-
र्जीयाद् गौरवदीप्त तत्त्वविभवः प्राचीनशास्त्राश्रयः ।
जीयात् स्वामिविनीतशिष्यसमितिः सर्वोच्चभावप्रिया
जीयाद्भारतभूतलं सुविपुलं जन्मावनिः स्वामिनः ॥ ८॥
इति श्रीकालीपदतर्काचार्यविरचितं
``स्वामिपादश्रीविवेकानन्दस्मरणम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan