श्रीव्यासराजनवरत्नपद्यमाला

श्रीव्यासराजनवरत्नपद्यमाला

श्रीनववृन्दावनस्थगुरुपरम्परास्तोत्रसहितम् श्रीवेदव्यासाय नमः ॥ हरिः ॐ ॥ गोपालकृष्णो जयति सत्यारुक्मिणिसंयुतः । ब्रह्मण्यतीर्थसम्भूतव्यासराजवरप्रदः ॥ १॥ कल्याणं वितनोतु कंसमथनो गोपालकृष्णोऽनिशं सत्यापाण्डवपूजितो यदुपतिस्स व्यासतीर्थाग्रतः । भैष्मीसेवितदक्षिणाघ्रिकमले विन्यस्य वामं पदं बालस्सुन्दरभङ्गिभावमधुरो यो नृत्यति स्माद्भुतम् ॥ २॥ पातु ब्रह्मण्यतीर्थव्रतिवरतिलकस्तत्वविद्याप्रदाता ध्यायन् ब्रह्मण्यदेवं प्रकटितमहिमा भूसुरैर्वन्धपादः । सर्वाभीष्टप्रदाता सकलभयहरः सर्वरोगापहर्ता भास्वान्स्वांशावतीर्णो महितमहिमभाक् व्यासराजस्तुतोऽस्मान् ॥ ३॥ कण्वापगातटगुहोदितगर्जितेन प्रोद्वेजिता निखिलवादिगजा हि येन । विद्राविताः सपदि सङ्करदुर्मतान्धाः तं व्यासतीर्थमृगराजमिमं नमामि ॥ ४॥ श्रीकृष्णदेवपृथिवीपतिना स्वराज्य लक्ष्म्याश्रितश्च गुरुवत्प्रभुणा सुराणाम् । विद्याधिराट् विजयविठ्ठलभक्तिभाग् यः स व्यासराट् दिशतु शं सततं प्रसन्नः ॥ ५॥ श्रीवेङ्कटेशपदपङ्कजदिव्यगन्ध- संसेवनात्समुदितप्रतिभाप्रभाय । ब्रह्मण्यतीर्थचरणाम्बुजबम्भराय श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ६॥ योगीश्वराय सुखतीर्थकरार्चितश्री योगासनस्थनृहरेः समुपासकाय । शान्ताय शश्वदपरोक्षितशौरयेऽस्मै श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ७॥ गोपालकृष्णकृतनर्तनरञ्जिताय । रागादिदोषरहिताय दृढव्रताय । स्वस्थापितान्धुहनुमत्परवेङ्कटार्च- श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ८॥ श्रीशप्रसादकरमानसपूजनाय सज्ज्ञानभक्तिसुविरक्तिसुखप्रदाय । प्रह्लादकाय भजतां हि सुरद्रुमाय श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ९॥ श्रीमत्समीरसमयाब्धिसुधाकराय मिथ्याकुशास्त्रतमसो हि विभाकराय । व्यासत्रयामृतदुहे भुवि देवताभ्यः श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ १०॥ अक्षादिसिद्धजगतोऽस्य यथोर्णनाभि- जन्मादिमोक्षदहरेः परमप्रियाय । श्रीमज्जयीन्द्रपदवीपरिवर्धकाय श्रीव्यासराजगुरवेऽस्तु नमश्शुभाय ॥ ११॥ क्षेत्रेऽब्बुरौ ह्युपगुहं पुरुषोत्तमाख्ये ब्रह्मण्यतीर्थगुरुभिर्द्विकविठ्ठलाचैः । वेदान्तराज्यनिजराज्यपदेऽभिषिक्त राजाधिराजगुरवेस्तु नमो नमस्ते ॥ १२॥ वैय्याघ्रपादपुरमध्यसुशोभमान श्रीव्यासराजहृदयाब्जसुमध्यवर्ती । लक्ष्मीनिवासगुरुणा प्रणुतस्सलक्ष्मी- नारायणश्च हनुमान् मुदितोऽस्तु कृष्णः ॥ १३॥ श्रीव्यासराजमुनिगायनतृप्तचेता नृत्यन्सुरेन्द्रसुतपूजितपादपद्मः । कुन्दापुरीयमठभिक्षुवरार्च्यमान भैष्मीसमेतमुरलीधरमाधवोऽव्यात् ॥ १४॥ श्रीमद्ब्रह्मण्यतीर्थव्रतिवरतिलकालब्धजन्मापरोक्ष्यः लक्ष्मीनारायणार्यान्निजगुरुचरणात्प्राप्तविद्याधिलक्ष्मीः । सोऽयं श्रीव्यासराजो विजयसखहरि पूजयन्भावपुष्पैः अग्र्ये वृन्दावनेऽस्मिन् सुखयति सुजनान् सर्वदाऽभीष्टवृष्ट्या ॥ १५॥ ब्रह्मण्यार्यस्ततोऽभून्नरहरिमनिशं पूजयन्कण्वनद्यां स्नायन्शिष्याहृतान्नं युदजगमुदकं प्रोक्ष्य तप्तं विधाय । स्नात्वा भुक्त्वा पुनश्च क्वचिदुपगतवान् भूस्थितां विठ्ठलार्चा शिष्येभ्यो मध्वशास्त्रं ह्यनिशमुपजगौ विठ्ठलप्रीतिमिच्छन् ॥ १६॥ अर्थिकल्पितकल्पोऽयं प्रत्यर्थिकरिकेसरी । व्यासतीर्थगुरुभूयादस्मदिष्टार्थसिद्धये ॥ श्रीः ॥ पद वाक्यप्रमाणज्ञान् संप्रदायार्थकोविदान् । व्यासतीर्थमुनीन्वन्दे दुर्वादिफाणिपक्षिपान् । इति श्रीवेङ्कटरमणाचार्यविरचितं श्रीव्यासराजकोमलकरकमलार्चितश्रीरुक्मिणी- सत्यभामासमेतश्रीवेणुगोपालकृष्णः प्रीयताम् ॥ अथ श्रीनववृन्दावनस्थगुरुपरम्परास्तोत्रम् । प्रीतो वरदो भवतु । श्रीकृष्णार्पणमस्तु । श्रीशं मध्वं पद्मनाभं वादिद्विपमृगाधिपम् । कवीन्द्र कुमतारण्यपावाकं तत्त्वदीपपकम् ॥ १॥ समीरशास्त्रवागीशं वागीशाख्यं गुरुं परम् । ब्रह्मण्यतीर्थसम्भूतं ज्ञानवैराग्यदायकम् । जगद्गुरुं व्यासराजं वादिराजगुरुं भजे ॥ २॥ रघुवर्यं सुधीन्द्रं च श्रीनिवासं परं गुरुम् । दुर्वादिफणिविद्वेषे गुरुमन्तं तपोनिधिम् ॥ ३॥ रामतीर्थगुरुं वन्दे गोविन्दाख्यं यतिं पुनः । तुङ्गभद्रामध्यगतं नववृन्दावनस्थितम् ॥ ४॥ रमणोपपदेनेयं वेङ्कटेन कृता शुभा । व्यासराजस्तुतिर्भूयात्प्रीत्यै माधवमध्वयोः ॥ ५॥ इति श्रीवेङ्कटरमणाचार्यविरचितं श्रीनववृन्दावनस्थगुरुपरम्परास्तोत्रं सम्पूर्णम् ॥ ॥ श्रीकृष्णार्पणमस्तु ॥ ॥ इति ॥ Encoded and proofread by Mandar Mali aryavrutta at gmail.com
% Text title            : Vyasaraja Tirtha Navaratna Padya Mala
% File name             : vyAsarAjanavaratnapadyamAlA.itx
% itxtitle              : vyAsarAjanavaratnapadyamAlA navavRindAvanasthaguruparamparAstotram sahitam
% engtitle              : vyAsarAjanavaratnapadyamAlA
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Venkataramanacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at gmail.com
% Proofread by          : Mandar Mali aryavrutta at gmail.com
% Description/comments  : Vyasaraja Tirtha of 13th century AD
% Indexextra            : (Scan, Info 1, 2)
% Latest update         : September 20, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org