श्रीव्यासराजस्तोत्रम्
वन्दे मुकुन्दमरविन्दभवादिवन्द्यं
इन्दिन्दिराप्रततमेचकमाकटाक्षम् ।
बन्दीकृतामरममन्दमतिं विदध्या-
दानन्दतीर्थहृदयाम्बुजमत्तभृङ्गः ॥ १॥
श्रीव्यासयोगी हरिपादरागी
भक्तातिपूगी हितदक्षसद्गीः ।
त्यागी विरागी विषयेषु भोगी
मुक्तौ सदा गीतसुरेन्द्रसङ्गी ॥ २॥
लक्ष्मीशपादाम्बुजमत्तभृङ्गः
सदा दशप्रज्ञनयप्रसङ्गः ।
अद्वैतवादे कृतमूलभङ्गः
महाव्रतीशो विषयेष्वसङ्गः ॥ ३॥
सदा सदायत्तमहानुभावः
भक्ताघतूलोच्चयतीव्रदावः ।
दौर्जन्यविध्वंसनदक्षरावः
शिष्याश्च यो यच्छति दिव्यगावः ॥ ४॥
आद्वैतदावानलकालमेघः
रमारमस्नेहविदारिताघः ।
वाग्वैखरीनिर्जितसज्जनौघः
मायामतव्रातहिमे निदाघः ॥ ५॥
मध्वसिद्धान्तदुग्धाब्धिवृद्धि पूर्णकलाधरः ।
व्यासराजयतीन्द्रो मे भूयादीप्सितसिद्दये ॥ ६॥
यन्नामग्रहणादेव पापराशिः पलायते ।
सोयं श्रीव्यासयोगीन्द्रो निहन्तु दुरितानि नः ॥ ७॥
यन्मृत्तिकादर्शनमात्रभीतः
क्वचित्पिशाचस्तदनुव्रतेभ्यः ।
दत्टा धनं वाञ्छितमाप्य तस्य
तैर्वा जितोयादचिरेण मुक्तिम् ॥ ८॥
यत्कौशिकानासिकाक्तजलान्निःशङ्किते नरे ।
व्याघ्रो महानपि स्प्रष्टुं नाशकत्त्वामिहाश्रये ॥ ९॥
द्वात्रिंशत्सप्तशतकमूर्तीर्हनुमतः प्रभोः ।
प्रतिष्ठाता स्मृतिख्यातस्तं भजे व्यासयोगिनम् ॥ १०॥
सीमानं तत्र तत्रैत्य क्षेत्रेषु च महामतिः ।
व्यवस्थाप्यात्र मर्यादां लब्धवांस्तमिहाश्रये ॥ ११॥
मध्वदेशिकसिद्धान्तप्रवर्तकशिखामणिः ।
सोयं श्रीव्यासयोगीन्द्रो भूयादीप्सितसिद्धये ॥ १२॥
भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ।
पलायन्ते श्रीनृसिंहस्थानं तमहमाश्रये ॥ १३॥
वातज्वरादिरोगाश्च भक्त्या यमुपसेविनः ।
दृढव्रतस्य नश्यन्ति पिशाचाश्च तमाश्रये ॥ १४॥
तारपूर्णं बिन्दुयुक्तप्रथमाक्षरपूर्वकम् ।
चतुर्थ्यन्तं च तन्नाम नमःशब्दान्तभूषितम् ॥ १५॥
पाठयन्तं मध्वनयं मेघगम्भीरया गिरा ।
ध्यायन्नावर्तयेद्यस्तु भक्त्या मेधां स विन्दते ॥ १६॥
रत्नसिंहासनारूढं चामरैरभिवीजितम् ।
ध्यायन्नावर्तते यस्तु महतीं श्रियमाप्नुयात् ॥
प्रह्लादस्यावतारोसाविन्द्रस्यानुप्रवेशवान् ।
तेन तत्सेविनां नॄणां सर्वमेतद्भवेद्ध्रुवम् ॥ १८॥
नमो व्यासमुनीन्द्राय भक्ताभीष्टप्रदायिने ।
नमतां कल्पतरवे भजतां कामधेनवे ॥ १९॥
व्यासराजगुरो मह्यं त्वत्पादाम्बुजसेवनात् ।
दुरितानि विनश्शन्तु यच्छ शीघ्रं मनोरथान् ॥ २०॥
यो व्यासत्रयसंज्ञकान् दृढतरान्ग् मध्वार्यशास्त्रार्थकान्
रक्षद्वज्रशिलाकृतीन् बहुमतान्ग् कृत्वा परैर्दुस्तरान् ।
प्रायच्छन्निजपादपद्मसरसीजासक्त नॄणां मुदा
सोयं व्यासमुनीश्वरो भवतु मे तापत्रयक्षान्तये ॥ २१॥
मध्वभक्तो व्यासशिष्यपूर्णप्रज्ञमतानुगः ।
व्यासराजमुनिश्रेष्ठः पातु नः कृपया गुरुः ॥ २२॥
व्यासराज व्यासराज इति भक्त्या सदा जपन् ।
मुच्यते सर्वदुःखेभ्यस्तदन्तर्यामिणो बलात् ॥ २३॥
स्तुवन्ननेन मन्त्रेण व्यासराजाय धीमते ।
अभिषेकार्चनादीन्यः कुरुते स हि मुक्तिभाक् ॥ २४॥
गुरुभक्त्या भवेद्विष्णुभक्तिरव्यभिचारिणी ।
तया सर्वं लभेद्धीमांस्तस्मादेतत्सदा पठेत् ॥ २५॥
इति श्रीपरमहंसपरिव्राजकाचार्याणां श्रीसुरेन्द्रतीर्थ पूज्यपादानां
शिष्येण विजयीन्द्रभिक्षुणाविरचितं श्रीव्यासराजस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar