श्रीयतिराजविंशतिः
श्रीमते रामानुजाय नमः ।
यः स्तुतिं यतिपतिप्रसादिनीं व्याजहार यतिराजविंशतिम् ।
तं प्रपन्नजनचातकाम्बुदं नौमि सौम्यभवयोगिपुङ्गवम् ॥
श्री माधवाङ्घ्रिजलज द्वयनित्यसेवा-
प्रेमाविलाशयपराङ्कुशपादभक्तम् ।
कामादिदोषहरमात्मपदाश्रितानां
रामानुजंयतिपतिं प्रणमामि मूर्ध्ना ॥ १॥
श्रीरङ्गराजचरणाम्बुजराजहम्सं
श्रीमत्पराङ्कुशपादाम्बुजभृङ्गराजम् ।
श्रीभट्टनाथ परकालमुखाब्जमित्रं
श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २॥
वाचा यतीन्द्र मनसा वपुषा च युष्मत्-
पादारविन्दयुगलं भजतां गुरूणाम् ।
कूराधिनाथ कुरुकेशमुखाद्य पुंसां
पादानुचिन्तनपरः सततं भवेयम् ॥ ३॥
नित्यं यतीन्द्र तव दिव्यवपुःस्मृतौ मे
सक्तं मनो भवतुवाग्गुणकीर्तनेऽसौ ।
कृत्यञ्च दास्यकरणं तु करद्वयस्य
वृत्त्यन्तरेऽस्तु विमुखं करणत्रयञ्च ॥ ४॥
अष्टाक्षराख्यमनुराजपदत्रयार्थ-
निष्ठां ममात्र वितराद्य यतीन्द्रनाथ ।
शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे
हृष्टाऽस्तु नित्यमनुभूय ममास्य बुद्धिः ॥ ५॥
अल्पाऽपि मे न भवदीयपदाब्जभक्तिः
शब्दादिभोगरुचिरन्वहमेधतेहा ।
मत्पापमेव हि निदानममुष्य नान्यत्-
तद्वारयार्य यतिराज दयैकसिन्धो ॥ ६॥
वृत्त्या पशुर्नरवपुस्त्वहमीद्रुशोऽपि
शृत्यादिसिद्धनिखिलमात्मगुणाश्रयोऽयम् ।
इत्यादरेण कृतिनोऽपि मिथः प्रवक्तुम्-
अद्यापि वञ्चनपरोऽत्र यतीन्द्र वर्ते ॥ ७॥
दुःखावहोऽहमनिशं तव दुष्टचेष्टः
शब्दादिभोगनिरतश्शरणागताख्यः ।
त्वत्पादभक्त इव शिष्टजनौघमध्ये
मिथ्या चरामि यतिराज ततोऽस्मि मूर्खः ॥ ८॥
नित्यं त्वहं परिभवामि गुरुं च मन्त्रं
तद्देवतामपि न किञ्चिदहो विभेमि ।
इत्थं शठोऽप्यशठवद्भवदीय सन्धे
हृष्टश्चरामि यतिराज ततोऽस्मि मूर्खः ॥ ९॥
हा हन्त हन्त मनसा क्रियया च वाचा
योऽहञ्चरामि सततं त्रिविधापचारान् ।
सोऽहं तवाऽप्रियकरः प्रियकृद्वदेव
कालं नयामि यतिराज ततोऽस्मि मूर्खः ॥ १०॥
पापे कृते यदि भवन्ति भयानुताप-
लज्जाः पुनः करणमस्य कथं घटेत ।
मोहेन मे न भवतीह भयादिलेश-
स्तस्मात्पुनः पुनरघम् यतिराज कुर्वे ॥ ११॥
अन्तर्बहिस्सकलवस्तुषु सन्तमीशम्-
अन्धः पुरस्स्थितमिवाहमवीक्षमाणः ।
कन्दर्पवश्यहृदयस्सततं भवामि
हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ १२॥
तापत्रयीजनितदुःखनिपातिनोऽपि
देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ ।
एतस्य कारणमहो मम पापमेव
नाथ त्वमेव हर तद्यतिराज शीघ्रम् ॥ १३॥
वाचामगोचर महागुण देशिकाग्र्य
कूराधिनाथ कथिताऽखिलनैच्यपात्रम् ।
एषोऽहमेव न पुनर्जगतीदृशस्तद्-
रामानुजार्य करुणैव तु मद्गतिस्ते ॥ १४॥
शुद्धात्मयामुनगुरूत्तम कूरनाथ
भट्टाख्यदेशिकवरोक्तसमस्तनच्यम् ।
अद्याऽस्त्यसङ्कुचितमेव मयीह लोके
तस्माद्यतीन्द्र करुणैव तु मद्गतिस्ते ॥ १५॥
शब्दादिभोगविषया रुचिरस्मदीया
नष्टा भवत्विह भवद्दयया यतीन्द्र ।
त्वद्दासदासगणनाचरमावधौ य-
स्तद्दासतैकरसताऽविरता ममास्तु ॥ १६॥
श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः
प्रत्यक्षतामुपगतस्त्विह रङ्गराजः ।
वश्यस्सदा भवति ते यतिराज तस्मात्-
छक्तः स्वकीयजनपापविमोचने त्वम् ॥ १७॥
कालत्रयेऽपि करणत्रयनिरमिताति-
पापक्रियस्य शरणम् भगवत्क्षमैव ।
सा च त्वयैव कमलारमणेऽर्थिता यत्-
क्षेमः स एव हि यतीन्द्र भवच्छ्रितानाम् ॥ १८॥
श्रीमन् यतीन्द्र तवदिव्यपदाब्जसेवां
श्रीशैलनाथकरुणापरिणामदत्ताम् ।
तामन्वहं मम विवर्धय नाथ तस्याः
कामं विरुद्धमखिलं च निवर्तयत्वम् ॥ १९॥
विज्ञापनं यदिदमद्य तु मामकीनम्-
अङ्गीकुरुष्व यतिराज दयाम्बुराशे ।
अज्ञोऽयमात्मगुणलेशविवर्जितश्च
तस्मादनन्यशरणो भवतीति मत्वा ॥ २०॥
इति यतिकुलधुर्यमेधमानैः श्रुतिमधुरैरुदितै प्रहर्षयन्तम् ।
वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययं प्रसादम् ॥ २१॥
इति श्रीयतिराजवीम्शतिः सम्पूर्णा ।
The numbers in some prints are shifted since the first one is not numbered here.
Encoded and proofread by Ankur Nagpal ankurnagpal108 at gmail.com, NA