आयाहि देवि !
आयाहि देवि ! जगतां परिपात्रि ! सौख्यदा
दुर्गे ! महेश्वरि ! मृगेश्वर-पृष्ठ-मण्डना ।
वन्दे सुरम्य-चरणाम्बुजमम्बिके ! सदा
त्वं शङ्करी भगवती हर सर्व-सङ्कटम् ॥ १॥
दुर्नीति-दैत्य-कबलै-र्वसुधा मलीमसा
कात्यायनि ! प्रमथिता व्यथितास्ति नीरसा ।
तामुद्धर त्वमिह वै शरण-प्रदायिनी
त्रायस्व देवि ! सुतरां तुहिनाद्रि-नन्दिनी ॥ २॥
आतङ्क-दुःख-विपदां हननी शुभङ्करी
त्वं सर्व-जीव-जगतां जननी सुधा-झरी ।
पाह्येव धर्ममखिलं शमनी दुरात्मनां
मातर्गृहाण सुमनोरचितां समर्चनाम् ॥ ३॥
दुर्धर्ष-दानव-कुलं प्रबलं मदोद्धतं
ध्वस्तं कुरुष्व सकलं कलि-पङ्कमस्त्रिणी ।
रुद्रे ! त्वदीय-करुणा-सुरभि-र्महीयतां
विश्वोदरे त्वमसि नो दुरितापहारिणी ॥ ४॥
शान्तिं प्रदेहि मुदितं हृदये सुपूजिता
सद्भावना च भुवने लसतु प्रभान्विता ।
त्वां शक्ति-रूपिणि ! भुवां प्रिय-भक्त-वत्सलां
दिव्यां च नौमि महतां सुनुतां सुमङ्गलाम् ॥ ५॥
-- रचयिता : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher