अक्षमालास्तुतिः
श्रीगायत्रीं त्रयीं विद्यां प्रणम्य परमेश्वरीम् ।
``अक्षमाला-स्तुतिं'' दिव्यां करोमि सुखदां सताम् ॥ १॥
अथाऽव्यक्ताऽऽदिशक्तिर्या महादेवीन्दिरेश्वरीम् ।
उमोर्ध्वकेशी ऋग्वेदा ``ऋ''रूपा ऋद्धिदायिनी ॥ २॥
ऌप्तधर्माऽस्ति ``ऌ''नाम्नी त्वेकाक्षरविहारिणी ।
ऐन्द्री ह्योङ्काररूपा या चौपासनफलप्रदा ॥ ३॥
अण्डमध्यस्थिता देवी ``अ''कारमनुरूपिणी ।
षोडशीं लोकपूज्यां तां सर्वदा संस्मराम्यहम् ॥ ४॥
ततो व्यञ्जनवर्णस्थां कमलां खगवाहनाम् ।
गङ्गां च धर्मदां देवीं ``ङ''क्षरां प्रणमाम्यहम् ॥ ५॥
चण्डिकां सततं वन्दे देवीं छन्दोऽनुगां पराम् ।
जयन्तीं क्षणनिर्घोषां ``ञ''रूप-वृषवाहनाम् ॥ ६॥
टङ्कवर्णान्वितां दिव्यां ``ठ-ठ''शब्द-निनादिनीम् ।
डमरूभूषणां देवीं ढक्काहस्तां नमाम्यहम् ॥ ७॥
``ण''वर्णरूपिणीं दिव्यां तप्तकाञ्चनभूषणाम् ।
थावरां सततं वन्दे दण्डकारण्यवासिनीम्! ॥ ८॥
धर्मशीलां नदीरूपां परब्रह्मात्मिकां तथा ।
फलदां बहुनेत्रां च भवानीं प्रणतोऽस्म्यहम् ॥ ९॥
मालिनी तां महामायां पञ्चविंशतिवर्णिकाम् ।
नत्वा पुनः स्मराम्यत्र यक्षवर्णात्मिकाद्भुताम् ॥ १०॥
यक्षिणां योगमायां तां रामां लक्ष्मीं सुखप्रदाम् ।
वरदां शारदां दिव्यां षण्मुखीं च सरस्वतीम् ॥ ११॥
हरि-रुद्रप्रियां देवीं क्षमाशीलां नवात्मिकाम् ।
पञ्चाशद्वर्णरूपां तां स्मरामि सर्वदा शुभाम् ॥ १२॥
यस्य स्मरणमात्रेण प्रसन्नां वर्णमात्रिका ।
सम्भूयात् सा सदा लोके सर्वमङ्गलकारिणी ॥ १३॥
नेत्रद्वयखयुग्मेऽब्दे श्री द्विजेन्द्रविनिर्मिता ।
ज्येष्ठमासेऽत्र काश्यां वै प्रोद्गता साऽक्षमालिका ॥ १४॥
इति रत्नमयीं देवीं गायत्रीतुष्टिकारिणीम् ।
स्तुतिं पठेन्नरो नित्यं ब्रह्मसायुज्यमाप्नुयात् ॥ १५॥
इति श्रीगार्ग्यमुनि द्विजेन्द्रकविकृता अक्षमालास्तुतिः सम्पूर्णा ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com