अम्बास्तवम्
अम्बिके! प्रणमामि ``त्वामायरे'' ग्रामदेवते ।
सर्वशक्ते, प्रसीद त्वं सच्चिदानन्दरूपिणि ॥ १॥
ग्रामरक्षाबद्धदीक्षे, ग्रामपुष्टिप्रदायिनि! ।
आपन्निवारके देवि! दयामयि, नमोऽस्तु ते ॥ २॥
प्रसन्नकरुणापूर्णविलोलनयनाम्बुजाम् ।
आकुञ्चितमनोहारिस्फुरच्चिल्लीमत्लिकाम् ॥ ३॥
सिन्दूरतिलकोद्भासिविशालनिटिलाञ्चिताम् ।
कपोलबिम्बितारम्यमणिकुण्डलभूषिताम् ॥ ४॥
मन्दस्मितमनोहारि मधुराधरशोभिताम् ।
आनीलपट्टवसनसमावृतकलेवराम् ॥ ५॥
प्रशान्तदिव्यमहसा परिवेषितविग्रहाम् ।
ध्यायामि त्वां महादेवीं श्रीविद्याशक्तिरूपिणीम् ॥ ६॥
प्रसीद त्वं शिवे, देवि, लक्ष्मि, दुर्गे, सरस्वति ।
रम्यं भवद्रूपमिदं भासतां हृदये सदा ॥ ७॥
विपदस्त्राहि नो देवि! सम्पदो देहि नः शिवे! ।
अस्मासु धेहि करुणां भक्तान् नः पाहि सर्वदा ॥ ८॥
ग्रामाम्बिकास्तोत्रमिदं ये पठन्ति समाहिताः ।
शृण्वन्ति वा तथा तेषु प्रसीदति महेश्वरी! ॥ ९॥
इति श्रीवासुदेवन् एलयथेन विरचितं अम्बास्तवं सम्पूर्णम् ।