अम्बावन्दना
आदावेकां लोक-सिसृक्षा-रसजुष्टां,
द्वन्द्वाध्युष्टां,भूत-निकायान् कलयन्तीम् ।
माया-मुख्यैर्नामभिराद्यैरुपदिष्टां,
वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ १॥
मूलाधारादा च विशुद्वेः प्रविभक्तां,
शाब्दीं सृष्टिं,पात्रविशेषाद् घटयन्तीम् ।
श्रौतैः स्मार्तैः पौरुष-सूक्तैरुपगीतां,
वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ २॥
ऐन्द्रीं भूतिं भक्तजनेभ्यो वितरन्तीं,
ह्रीङ्कुर्वाणां,तद्विमुखेषु प्रतिवेलम् ।
श्रीं निर्दोलां तद्भवनान्ते विदधानां,
वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ३॥
किं बन्धूकैः,किं नु जपाभिः,किमु रक्तै-
रब्जैरुद्यदभास्कर-रागैरुत सृष्टैः ।
अङ्गैरिङ्गत्कान्तिवितानैरभिरामां,
वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ४॥
याऽपर्णाहो ताप-निरासाय सपर्णा,
वर्णातीता वर्ण-विशेषाञ्जुषमाणा ।
तां वैचित्र्योद्भासन-सूनावलि-वल्लीं
वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ५॥
नीप-श्रेणी-शालिनि चिन्तामणि-गेहे,
पीठासीनामावृतिचक्रैरुपगूढाम् ।
ब्रह्मादिभ्यो वाञ्छितमर्थं प्रथयन्तीं,
वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ६॥
स्फूर्जत्सान्द्रामोद-तरङ्गावलि-लीनै-
रर्चामाप्तां,षोडश-मुख्यैरुपचारैः ।
उद्यन्नानालङ्कृति-रत्न-द्युति-पुञ्जां,
वन्देऽमन्द-द्योत-कदम्बां जगदम्बाम् ॥ ७॥
माद्यद्देवारब्ध-नमस्या-निकुरम्बां,
व्यापच्छैलच्छेद-विलक्षीकृत-शम्बाम् ।
आज्ञा-दानान्दोलन-हृद्याधर-बिम्बां,
वन्देऽमन्द द्योत कदम्बां जगदम्बाम् ॥ ८॥
ब्रह्म-विष्णु-महेशांश्च गमयन्ती महर्षिताम् ।
यन्त्रात्मना परिणता पुनातु परमेश्वरी ॥
॥ इत्यम्बा-वन्दना समाप्ता ॥
Encoded by ShivaraM Bharadwaj
Proofread by ShivaraM Bharadwaj, Rajani Arjun Shankar