अम्बिकात्रिशती

अम्बिकात्रिशती

गङ्गाधरमखिविरचिता । परमाभरणं शम्भोः पर्वतनाथस्य पुण्यपरिपाकः । निजलोचनवीक्षणतो रक्षितलोकत्रयं च तद्रत्नम् ॥ १॥ निगमान्तपरमविद्या दद्यादद्य प्रमोदमिह नमताम् । निखिलचराचरचिन्मयरूपं रक्षाकरं च लोकानाम् ॥ २॥ आदृतशिववामान्तामार्यामार्याभिमान्यमहिमानम् । आगममौलिवतंसां वन्दे चिद्रूपकन्दलां जननीम् ॥ ३॥ परमशिवभागधेयं सुरमुनिमनुजादिभिः सदा ध्येयम् । यन्नाम कर्णपेयं पातु सदा वेदमौलिकामेयम् ॥ ४॥ जयति तवाम्ब कटाक्षे को वा सेवेत कल्पभूमिरुहम् । कामादिहानिदोऽसौ नमतां सम्पत्प्रदानकृतदीक्षः ॥ ५॥ भुवनजननी पुरारेः महिषी भूषायितामृतमयूखा । कलिकलुषितजनमेनं पातु सुधाकारमञ्जुलापाङ्गैः ॥ ६॥ निखिलनिगमान्तवेद्या विद्या परमा पुरारिसर्वस्वम् । यमपाशभीतमेनं रक्षतु जनमेनमद्रिपतिकन्या ॥ ७॥ धुतपदनतजनपापा परचिद्रूपाप्रेमयनिजरूपा । शशिमौलिभागधेयं जयति नगेशानकन्यका मान्या ॥ ८॥ तव भूधरेन्द्रतनये पादाब्जं निगमदीर्घिकाफुल्लम् । उत्तंसयन्ति पुरुषा धन्याः केचित् त एव सुरमान्याः ॥ ९॥ शतमखनीलमणीनां प्रभयाच्छुरिता तवाक्षियुगलश्रीः । तारकविभेदिवाहं नृत्तोन्मुखमातनोति शरदि पथि ॥ १०॥ कुवलयसम्पत्प्रदमिह विलोचनं मातरचलतनये ते । मम मानसं तु चन्द्रं कलयति तापप्रशान्तिदं समये ॥ ११॥ निजगतिजितकादम्बामम्बामम्भोजलोचनां वन्दे । सम्भावयति महेशो यां किल कालेषु हृद्यनव्यरसैः ॥ १२॥ ललितगुणरत्नभूषापेटी शुकमान्यनैजवाग्धाटी । आश्रितकदम्बवाटी जयति परानन्दजातपरिपाटी ॥ १३॥ कुसुमशरवैरिकान्ता कान्तालकभारललिताफालान्ता । निखिलनिगमान्तसारा सा रजति शम्भुभाग्यधारा हि ॥ १४॥ करकमलकलितचापे परमानन्दैककन्दले शम्भोः । कनकमणिललितकण्ठे त्वामेवाहं भजामि परवृत्त्यै ॥ १५॥ चिन्तितफलदे पुंसां प्रबलतरामोदकन्दले शम्भोः । पुण्यानां परिपाकं त्वत्पदपद्मं प्रफुल्लमिह चित्ते ॥ १६॥ निजमौलिलसनशशिकरविलासिधम्मिल्लकुवलयामोदैः । ततमधुकरगीतीनां दम्भादम्ब त्वदीयवाग्रक्षा ॥ १७॥ ललितकुटिलालकान्ता कान्ता शम्भोरमेयविभवान्ता । सम्पदमिह नस्तनुते कुलभूधरनाथभाग्यपरिणामः ॥ १८॥ जनताचिरतरविरचितसुचरितपरिपाकरूपममरेड्यम् । कुसुमशरवैरिभाग्यं लसतु कलिक्षोभहानये मनसि ॥ १९॥ विनतालिविभवदा ते कटाक्षधारा विभाति लोकाम्ब । कुसुमशरशास्त्रसिद्धिप्रदा गिरीशस्य योगिहृद्दीपा ॥ २०॥ नित्यकुमारी काले कापि पयोजासनादिनुतितुष्टा । शितिकण्ठभाग्यरक्षासूत्रं तनुते स्ववैभवैर्हृद्यैः ॥ २१॥ निखिलनिगमान्तसारं यावद्रूपं मदम्ब पश्यामि । सा तु नियमितदूतगणो दूरे यात्यमितकोपकोपकोऽपि यमः ॥ २२॥ शिववामभागभूषा काचिद् योषा नतालिकृतभाषा । ताटङ्करत्नभूषारुचिभरकाषायितात्ममुखवेषा ॥ २३॥ वाणीशविनुतमहिमा परमा च कला सतां समाराध्या । हिमभूधरवरकन्या कृतभूसुरसौख्यसम्पदारान्मे ॥ २४॥ शिथिलितभवभीतिततिं भूधरकन्यामहं सदोपास्याम् । आनन्दाद्वैतकलां भजे कलिक्षोभहानये निभृतम् ॥ २५॥ नवरत्नखचितभूषाततिभानीराजिताखिलाङ्गीं ताम् । कामपि कलामुपासे सततानन्दैककन्दलीं जननीम् ॥ २६॥ मम हृदयकेलिभवने विलसति तद्रूपमिष्टदं पुंसाम् । यदिहादरेण शम्भुर्लोकत्रयरक्षणाय चकमे च ॥ २७॥ गङ्गाधरवरभूषा भङ्गायास्माकमखिलदुरितानाम् । श‍ृङ्गारसारवेषा तुङ्गानन्दप्रदास्तु जगदम्बा ॥ २८॥ तेन वयं परतन्त्राः यच्छशिशेखरमनश्वरैश्वर्यम् । शम्भोरिह लोकानां चिन्तामणिरादिमः सुलभ्यश्च ॥ २९॥ नयनाञ्जनकलिकेयं शम्भोरम्भोजलोचना चपला । श्रुतिसुदतीसूत्रकला मम हृदि भवने विकासमुपयाति ॥ ३०॥ कुचकुम्भाङ्कितशम्भुं करपद्मादृतपयोजमणिमालाम् । नतजनभरणासक्तामम्बामम्भोजलोचनां नौमि ॥ ३१॥ बालमरालीलीलां बालां बलिवैरिवासवादिनुताम् । जगदम्बामालम्बां निबिडनितम्बां हितार्थमवलम्बे ॥ ३२॥ ध्यानैर्वेद्यं तत्त्वं मीनध्वजवैरिमहितभाग्यं तत् । भूधरकन्यारूपं विहरति मम मानसे हततमस्के ॥ ३३॥ मुनिजनमान्यचरित्रा नानादेशेषु लसितबहुपीठा । सर्वस्वसम्प्रदायः शम्भोरम्बा ममाञ्जलिप्रीता ॥ ३४॥ वाचामगोचरं तत् पुरातनीनामपीह नतसुलभम् । गिरिजारूपं तेजो भातु गिरीशार्धमादरादक्ष्णोः ॥ ३५॥ मन्दस्मितेन मधुरा मधुरापीठस्थिता च हरभाग्यम् । शीतलनयनासारैः सिञ्चति मामञ्जसा जगन्माता ॥ ३६॥ भाति पुरन्ध्री शम्भोरिह पुरतोऽस्माकमात्तसुमबाणा । सुमबाणवैरिचित्ताकर्षणकुलिका च चिन्मयी परमा ॥ ३७॥ लोचनपाते शीता पाता पादाम्बुजात्तचित्तानाम् । श्वेता च मन्दहसिते श्वेतारण्यस्थिरप्रदीपकला ॥ ३८॥ पुरमथनमहिषि चित्ते कुरु पदविन्यासमात्तकुतुका त्वम् । तेनैवाहं धन्यः कुरवै पुरवैरिपादपूजां च ॥ ३९॥ शतमखमुखसुरवन्द्ये कान्ताश्लेषेण पुलकिताङ्गि त्वाम् । मनसा स्मरामि दयसे तेनैवाहं कलौ युगे धन्यः ॥ ४०॥ पुरमथनस्यापि वपुः पुनतीमम्बां निजाक्रमणशक्त्या । चिरपुण्यदर्शनीयां स्मरामि मनसा परां सुतामद्रेः ॥ ४१॥ कुङ्कुमकणलसिताङ्गीं कुवलयदृशमब्जलोचनां वन्दे । लोचनजितसारङ्गीं भवमहिषीमर्धचन्द्रशेखरिणीम् ॥ ४२॥ नानालीलाखेलां हररतिलोलां हितैकपरिशीलाम् । वन्दे बालां भूमिधरपतिकन्यां सुरेशबहुमान्याम् ॥ ४३॥ सरसिजमृदुलपदाब्जं पदाब्जविन्यासधन्यभूभागम् । मनसि नयने च वाचि स्फुरतु महेशानमान्यसाम्राज्यम् ॥ ४४॥ शम्भोः कुटुम्बिनी सा मधुकरमालालसत्स्वधम्मिल्ला । सौभाग्यदा सदा मे लसतु कृपापूरलालितापाङ्गा ॥ ४५॥ ऊरीकृतपुरमथना दूरीकृतदुष्टराक्षसादिगणा । नारी परमा सैषा भेरीभास्वत्करोरुहा भाति ॥ ४६॥ निखिलोपनिषद्विद्यासारं संसारबन्धमोहहरम् । हरमान्यं तत् तेजो भाति सुरेशादिरक्षणोपायम् ॥ ४७॥ शम्भोरुत्सवधारा नवनवहारा समाश्रिताधारा । संविद्रूपारूपा कोपार्दितदुर्जना च सा जयति ॥ ४८॥ पुण्यसमुदायसरणिं पुरहूतमुखैरभिष्टुतामम्बाम् । भज मानस भो नित्यं नित्यानन्दाद्वयात्मिकां देवीम् ॥ ४९॥ जीवितसर्वस्वमिदं शम्भोरम्भोजलोचनं रत्नम् । यच्चिन्तनेन धन्या वैमानिकवन्यकलितविश्रामाः ॥ ५०॥ अन्तस्तमोनिहन्त्री संध्यापूर्वा विभाति गिरितनया । उदये यस्या विदुषां विलसन्ति कराम्बुजानि नक्तमपि ॥ ५१॥ कुलगिरिनाथनूजे लोकाम्ब त्वत्पदाम्बुजं जन्तुः । भक्त्या स्मरति हृदि स्वे तत्पदयुगलं वहन्ति शिरसान्ये ॥ ५२॥ महिषासुरमर्दनि ते भीमं रूपं तदस्तु रिपुनेत्रे । सादरकटाक्षापातं पुरतो मम भातु सौम्यरूपं ते ॥ ५३॥ आदृतशुकादिवाणी वाणीशसुरेशहरिमुखैः स्तुत्या । सुमलसितमृदुलवेणी विलसति कैलासपीठिकामध्ये ॥ ५४॥ दयमानमानसं तत् स्मयमानमुखं निरीक्ष्य तत्तेजः । नियमादिविधुतपापा वयमानन्दाश्रुझरपरीताङ्गाः ॥ ५५॥ ललितगतिं सुरविनुतिं लसितमतिं किञ्च यतिमनोजुष्टाम् । तव मूर्तिमम्ब पार्वति कदा नु पश्यन् नयामि कलिकालम् ॥ ५६॥ कुरुते मनसि मदीये विहारलीलां नगेन्द्रवरकन्या । तावद् विलसति चिन्मयतत्त्वं तत्त्वार्थिभिः समाराध्यम् ॥ ५७॥ शङ्करमिश्रितदेहं श्रुतिसुदतीमौलिभूषणं तेजः । मुखजितचन्द्रं तन्मे प्रसीदतु क्षिप्रनम्रपापहरम् ॥ ५८॥ विधुमौलिविभ्रमश्रीर्विद्रुमरुचिसोदरात्मतनुकान्तिः । सिञ्चत्यमृतमिहाक्ष्णोश्चिरपुण्यवशादिहासेव्यम् ॥ ५९॥ परकैवल्यानन्दप्राप्तिस्तेषां ध्रुवं हि तनुभजाम् । येषां चित्ते वित्ताधिपमुखसेव्या विहारभाग् गौरी ॥ ६०॥ गौरि तव पादपद्मं शशधरकलयाङ्कितात्ममौलितले । मम चान्तिमप्रयाणे विलसतु नेत्रे स्मृतौ च हृदि वाचि ॥ ६१॥ शङ्करसुकृतसमूहा किङ्करदेवादिरङ्कवीणा च । शङ्कादिमोहहन्त्री लसतु ममाक्ष्णोः शशाङ्कमौलितला ॥ ६२॥ कुचकुम्भाश्लेषवशादाहृतहरचित्तवृत्तिरमराणाम् । मनुजानामपि नित्यं दैवतमेषा चकास्ति गिरिकन्या ॥ ६३॥ परितुष्टा हरभजने निजगलकलगीतिविजितपरपुष्टा । सूचितसुररिपुकष्टा परमकलत्रं हरस्य तज्जयति ॥ ६४॥ सततालोलितदयया दृशाम्ब मां पश्य सरसिजातरुचा । परमशिवे निर्वृत्तिमहमवाप्य तेनैव तावको भक्तः ॥ ६५॥ सरसकविता च सम्पच्चाक्षोभ्यं मण्डलाधिपत्यं च । ननु जायते नृणां किल तव वीक्षावैभवेन भवकान्ते ॥ ६६॥ त्वन्मौलिचन्द्रविसृमरकरधाराभिः कृताभिषेका त्वम् । द्विगुणितदयार्द्रहृदया परिपुष्यसि मङ्गलानि भक्तानाम् ॥ ६७॥ गौरि नगाधिपतनये शशिशेखरदिव्यमहिषि मां पाहि । इति किल कलिताञ्जलयः सेवन्ते सुरनरादयो नित्यम् ॥ ६८॥ परमेश्वरदयिते त्वत्पदपद्मयुगार्चनारताः सन्तः । कलयन्ति गाङ्गसलिलं पुष्पाण्यपि भक्तिभारसम्पन्नाः ॥ ६९॥ श‍ृङ्गारागमसारा तव लीला जयति चेतसि भवस्य । अत एव स्वाङ्गे त्वामारोपयदाशु विजितकामोऽपि ॥ ७०॥ ननु मातरम्ब मन्दस्मितलीलादिकमुदीक्ष्य शशिमौलिः । विरहासहिष्णुरनिशं वहति त्वां नैजवपुषि सानन्दम् ॥ ७१॥ तव शङ्करि भूषोरगलसदुरुमणिदम्भतः शिवः काले । नीराजनमातनुते भक्तहितार्थी सुमङ्गलावाप्त्यै ॥ ७२॥ तव पादभक्तिरम्ब क्षितिधरतनये तनोति कविसूक्तिम् । अमरश्रियमथ सहसा धराधिपत्यादिकं नृणाम् ॥ ७३॥ आलोकनेन मातस्तव मनुजानां हृदि स्थितं च तमः । गलति हठात् पापालिः सहसामरलोकसम्पदाभाति ॥ ७४॥ यः सूक्तिमालिकाभिस्तव पादयुगं समर्चयति जन्तुः । तत्पदयुग्मं तु सुराः कल्पमहीरुहसुमैश्च गाङ्गजलैः ॥ ७५॥ पार्वति तव मुखकमलालोकनतो गलितसंशयाः सन्तः । कैवल्यरूपकन्दलमासाद्य विधानतो जना भान्ति ॥ ७६॥ नन्वद्रिसुते मन्दस्मितकान्तिमिषात् त्वदीयकीर्तिझरी । दिक्सौधाञ्चलभागे विलसति नतरक्षणोत्थिता जगति ॥ ७७॥ करणविहीनान् मूढान् नरान् सुरान् पासि योगिनोऽपि तथा । लोकाम्ब भावनाद्यैः काले काले नगेन्द्रतनये त्वम् ॥ ७८॥ नगराजवंशसम्पद् दिव्या काचिद् विभाति हरमान्या । गणपतिमयूरवाहौ यत्तनयौ लोकसम्पदे जयतः ॥ ७९॥ प्रतिदिनकलितामेनामञ्जलिकलिकामगाधिपतनूजे । अङ्गीकुरुष्व दयया तेनैव वयं कृतार्थाः स्मः ॥ ८०॥ कल्याणकेलिभाजनमिह शर्वस्याप्रेमयतुष्टिकला । चन्द्रकलाविलसितनिजमौलितला भातु मानसे कापि ॥ ८१॥ विनतजनबन्धहारिणि कल्याणि पुरारिसुकृतपरिपाके । बध्नीमो वयमञ्जलिमनुदिनममितात्मचित्सुखावाप्त्यै ॥ ८२॥ कंदर्पागमसारा लसदुरुहारा च मङ्गलाकारा । ताराधिपवासलसन्मौलितला भातु मानसे देवी ॥ ८३॥ नतहंसावलिरेषा गतिजितहंसावली च गिरितनया । शिशिरीकरोति लोचनमालामालापविजितशुकवाणी ॥ ८४॥ शुकवाणीसदृशीयं मम वाणी हरकुटुम्बिनीनिकटम् । न खलु करोति प्राप्ता मुदमस्या मधुरमन्दहासजुषः ॥ ८५॥ शशिशकलकलितमौलिस्त्रिलोचना कुङ्कुमच्छाया । पाति जननी जनानां किंनरयक्षादिगेयमाहात्म्या ॥ ८६॥ निजतनुतेजःप्रसरौरिन्दुकलोत्तंसलसितमौलितला । पूरयति लोकमाता त्रिभुवनमिदमात्तकौतुका पीठे ॥ ८७॥ तव मातरङ्घ्रिसरसिजभक्तिविशेषात्तवैभवा हि नराः । वैमानिकपदवीष्वप्याशारहिता विशन्ति ते धाम ॥ ८८॥ तव हारमणिप्रभया पार्श्वस्थितशम्भुचन्द्रमौलिकला । सम्प्राप्तपूर्णमण्डलशोभा सततं विराजते मातः ॥ ८९॥ अर्धाङ्गशम्भुभूषणफणामणिप्रचुरकान्तिवीचीभिः । तव हस्तहरिणपोतः शश्वद् धावति नवीनतृणबुद्ध्या ॥ ९०॥ नाथकलानुगुणं ते रूपं जगदम्ब सर्वबुधवन्द्यम् । पर्वतराजसुते नः श्रेयःश्रेण्यै तदस्तु कलितदयम् ॥ ९१॥ कैरातो वेषो वा भिक्षाटनरूपमन्यदपि शम्भोः । सर्वं तत् त्वत्कलया लसितं भात्यत्र भूधरेन्द्रसुते ॥ ९२॥ त्रिपुरविजयश्च मातस्त्वत्कोपादरिषु चन्द्रमौलेस्तु । आसीत् सुलभकलः किल ते कीर्तिः कीर्तिता दिशां वलये ॥ ९३॥ तव पादाम्बुजसेवादरेण मातस्तव स्तुत्याम् । यैः कलिता मतिरेषां चरणौ पूज्यौ हि नाकिनां वृन्दैः ॥ ९४॥ तव पादभक्तिभूम्ना पाण्डित्यं सर्वसंमान्यम् । कीर्तिं च सुखं लभते भक्तस्ते मातरचलसुते ॥ ९५॥ परिफुल्लकमलसुषमासंमान्यैस्ते कटाक्षैर्यः । भात्यङ्कितो धरण्यां स तु धनदो वा महेन्द्रो वा ॥ ९६॥ कमलाक्षमुखैर्देवैः फक्कृतगीर्भिस्तव स्तुतौ मातः । कथमम्ब मानुषोऽहं स्तोतुं त्वां शक्नुयां मन्दः ॥ ९७॥ तव पादपद्मभक्तिर्धरणिधरेन्द्रस्य कन्यके काले । वाचालीकुरुते मां मन्दमपि स्तोतुमादराज्जननि ॥ ९८॥ जननि विना पुण्यानां खण्डं त्वामीक्षितुं नयनैः । शक्ता नैव हि मनुजास्ते रूपं तत् परं जयति ॥ ९९॥ नाकिनगराम्बुजाक्षीनिटिलसुमामोदवासितं मातः । तव चरणपङ्कजं मे कृन्तति मोहादिकं हृदये ॥ १००॥ परमेश्वरस्य दयितापादपयोजातपांसवो धन्याः । कृतपुण्यानां मूर्तिषु भासन्ते सर्वशुद्धये ह्येते ॥ १०१॥ तव पादजलजरेणुस्पर्शनसञ्जातवैभवा मनुजाः । धिक्कृतनाकेशपदास्तव सारूप्यादिसम्पदुल्लसिताः ॥ १०२॥ जननि तवालकरत्नप्रभाप्ररोहैर्गिरीशशिरसि कला । चान्द्रमसी सा भजते जपाप्रभालेपनं रम्यम् ॥ १०३॥ काञ्च्यां वा कैलासे मेरौ वा भक्तमानसाम्भोजे । परमशिववामभागे राजति कालेऽम्बिका ख्याता ॥ १०४॥ ध्यानपरीवाहाङ्कुरकलितं ते कुसुमकोमलं हि वपुः । योगिहृदयाम्बुजान्तर्जननि विभाति स्फुटाकारम् ॥ १०५॥ येषामञ्जलिकलिकालसितं करयुगमिदं काले । न प्रेरयति कृतान्तो निजदूतान् तेषु ते परं गुरवः ॥ १०६॥ कारुण्याकुलितहृदा तयाम्बया भक्तपापालिः । न हि गण्यते गिरीशोऽप्यस्मिन् सततं कृतप्रसादश्च ॥ १०७॥ जगतः पितरावेतौ रक्षाहेतोर्निजाङ्घ्रिभक्तानाम् । राजत इह बहुरूपौ जनदृक्दृश्यौ च देववन्द्यौ च ॥ १०८॥ सा भगवती पुरस्तादास्तां नः शाङ्करी जननी । यद्वीक्षालवहीनाः पीड्यन्ते तप्तगात्राश्च ॥ १०९॥ जातपराक्रमकलिका दिशि दिशि किंनरसुगीतनिजयशसः । धन्या भान्ति हि मनुजा यद्वीक्षालवविशेषतः काले ॥ ११०॥ वाचां सनातनीनां विश्रान्तिस्थानकं हि यत् स्थानम् । करुणापालितलोकत्रितयं तद् भाति सुकृतिहृदयतटे ॥ १११॥ श्रुतिमौलिभूषणं ते पदारविन्दं जनः काले । भक्त्या प्रणम्य बहुजननगरे सिंहासने लसति ॥ ११२॥ श्यामा चन्द्रकलोज्ज्वलमौलिरियं शाङ्करी काले । ध्यानजपादौ पुण्यात्मनां हृदि प्रस्फुरत्यमले ॥ ११३॥ त्रिभुवनरक्षाहेतोरङ्गीकृतगिरिशदेहयष्टिरियम् । राजति राजतपीठे त्रिभुवनसुन्दररुचात्तबहुकोणे ॥ ११४॥ निश्चलदीपकला सा रक्षितमरुदौष्ण्यहीननिजरूपा । शूलिस्नेहोल्लसिता जनहृत्तमसां निहन्त्री च ॥ ११५॥ निगमान्तमध्यवीथीमहामणिः सर्वमूल्या च । भक्तिक्रया च काले केयूरमणिश्च शूलिनो जयति ॥ ११६॥ कल्याणसंततेर्या कलिता जन्मस्थलीति विबुधेशैः । नः कल्याणाय स्यात् सा गौरी मेदुरा दयया ॥ ११७॥ तव केशकान्तिविसरै राहोः शङ्का शिरःस्थेन्दोः । ग्रसनादिदैन्यहारिप्रभावमालोच्य ते सौम्यः ॥ ११८॥ मन्दस्मितरुचिभरिते पुरःस्थले तेऽर्चनाहेतोः । न्यस्तानि हि पुष्पाणि भ्रमराक्षेपात् स्फुटं भान्ति ॥ ११९॥ क्षीरसहोदरमन्दस्मितरुचिनिरसितनतालिहृत्तिमिरा । सा जयति शाङ्करी किल शङ्करसंस्तूयमानविभवा च ॥ १२०॥ मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी । कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ १२१॥ तापहरसविवर्षणकृतकुतुका कापि नीलनलिनरुचिः । कादम्बिनी पुरस्तादास्तां नः संततं जननी ॥ १२२॥ करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा । गौर्या गिरिपतिमान्या सत्सुखदाने भृशं ख्याता ॥ १२३॥ ऐक्यमनीयत नितरां यदादरेणेन्दुमौलिना पूर्वम् । तत् तेजो हृदि लसतु स्थिरे च निष्कल्मषेऽस्माकम् ॥ १२४॥ यत्पदरेखा मान्या लेखादीनां शुभोदये निभृतम् । सा लोचने पुरस्तादास्तां नः शशिकलोल्लसन्मौलिः ॥ १२५॥ यस्याविर्भाववशान्मान्योऽभूद् भूधरेन्द्रोऽपि । तत् पार्वतीति संज्ञं गौरी दाक्षायणी च लोकाम्बा ॥ १२६॥ मारारातिमनोहरलावण्या कुसुममृदुशरीरेयम् । निजकरुणापाङ्गसुधापूरणकृतवैभवा भाति ॥ १२७॥ धनधान्यकीर्तिकविताललनासुतहर्म्यमुख्यकामपरैः । तैर्नूनमर्चिताचलसुताङ्घ्रिजलजैस्तथाभूतैः ॥ १२८॥ गिरिश्शरीरविहारि त्रातजगत् तत् परं ज्योतिः । शारदसरसिजनयनं मम गौरीरूपमाविरस्तु हृदि ॥ १२९॥ अचलसुतया सनाथा वयमेते धूतपापकलाः । शशिशिखरं चर्मधरं गङ्गाधरमीक्ष्य मोदन्ते ॥ १३०॥ प्रौढान्धकारनिरसनचणमेतत् पार्वतीरूपम् । परमं ज्योतिर्लसति स्फुटं च सद्गणसमावृतं हृदये ॥ १३१॥ दहराकाशविहारि ज्योत्स्नालसदुत्तमाङ्गमिदमाद्यम् । चिन्तारत्नं गिरिशप्रकामभाग्यं च लोकदीपकला ॥ १३२॥ पुण्याङ्कुरवृद्धिकरं गौरीरूपं सदा ध्याये । यच्छिवनेत्रमहोत्सवनिभृतं रक्षितजगत्त्रितयम् ॥ १३३॥ सूर्यसुताकल्लोलोल्ललनदशारम्यनेत्रलहरीभिः । श्रेयःसंततिमचिरात् तरङ्गयति नः सदा देवी ॥ १३४॥ भूधरकन्या सेयं सादरदत्तार्हणादिबहुतोषा । वादरसविजयदाः नः पादरसासक्तकलितबहुभाषा ॥ १३५॥ प्रौढतमालवनालीरुचिभरकमनीयनेत्रविस्फारैः । दिशि दिशि कलिता सम्पद् यया तया नः कुलं जयति ॥ १३६॥ निजतारुण्यविहारैर्मोहकरं शूलिनोऽपि यत् तेजः । तत् कुमुदिनीशखण्डस्फुरच्छिरःकरलसद्धनुर्वर्यम् ॥ १३७॥ शङ्करपुण्याङ्कुरकृतरूपं पाथोजनयनं च । पृथुजघनकुचयुगं च त्रातजगत् दग्धदैत्यचयम् ॥ १३८॥ नीलनलिनीसुमालीललितकचं शङ्करार्हललितकुचम् । कैलासपीठमध्ये भाति सदा ध्येयमाराध्यम् ॥ १३९॥ स्मरणदशयापि कापि प्रदीपिका नाशिनी तमसाम् । निगमततिसौधवलभीप्रकाशिनी नित्यतेजस्का ॥ १४०॥ पुरारिपुवामाङ्कतलोद्भासितगात्रं महः किमपि । हृदि लसतु संततं मे निरस्तसंसृतितमोराशि ॥ १४१॥ निगमान्तमध्यपञ्जरशुकी शुकाद्यैः समाराध्या । करधृतपुण्ड्रेक्षुकला श्रेयःसंतानदायिनी नमताम् ॥ १४२॥ तव पादपद्मशोभाच्छुरितं पुरतः स्थलं गौर्याः । कृतपल्लवसंस्तरणं मत्वा तूष्णीं बभूव ते दासः ॥ १४३॥ नवजलधरनीलरुचा संमान्यैस्ते कटाक्षकान्तिभरैः । सङ्कलितनित्यतोरणशोभं ते मण्टपास्थानम् ॥ १४४॥ राकाचन्द्रनिभास्या सा काश्यादिषु कृतात्मबहुपीठा । नाकादिराजविनुता शोकादिहरप्रभावजन्मकला ॥ १४५॥ पारावारसुताद्यैरारात्कलनीयनैजविभवा सा । वीराढ्यनैजरूपा दाराः कैलासवासिनो जयति ॥ १४६॥ धीरात्महृदयकमले धाराधरनीलचिकुरभारवती । क्षीरादिहृद्यवाणी धारा सा भाति पार्वतीरूपा ॥ १४७॥ परमशिवभाग्यधाटी काञ्चनशाटी ममास्तु हृदि सततम् । परिमलितवक्त्रवीटी कृतनतिघोटी गजादिपरिपाटी ॥ १४८॥ सन्मानसकासारे कृतपरमानन्दसंततिर्जननी । शङ्करतत्त्वोन्मेषं कल्यति काले दयासारात् ॥ १४९॥ एणाङ्कलसितमौलिः क्षीणानां रक्षिणी परमा । पाणावादृतहरिणा वीणानुतिलालिता च सा जयति ॥ १५०॥ मूकादीनां पुरहरमौल्यान्दोलनकरोज्ज्वला वाचः । यत्कारुण्यात् काले समुल्लसन्तीह सा मदीयधनम् ॥ १५१॥ सर्वेषां देवानामपि मर्त्यानां तथा गिरीशस्य । एका पुण्यश्रेणी गौरीरूपा हि सर्वदा जयति ॥ १५२॥ पशुपतिपुण्यश्रेणीपरिपाकं पार्वतीरूपम् । निजदृग्रक्षितलोकत्रयमिदमाराद् विराजते तेजः ॥ १५३॥ शीतलभूधरजनिता दयया च पुनस्तथा शीता । शीतलललयकटाक्षा सा जननी नः सदा जयति ॥ १५४॥ स्मृतिमात्रतापहान्यै कलितप्तानां जनानां सा । कृतसङ्कल्पानल्पाभरणा भरणाय हृदि लसति ॥ १५५॥ सुकृतिजनदृश्यरूपं दुष्कृतिजनदूरगं च तत् तेजः । कारुण्यपूर्णहृदयं तद्भावनतां तथा जयति ॥ १५६॥ तापिञ्छस्तबकरुचिर्जननी सा शाङ्करी भजताम् । निजदृक्पातप्रशमितदारिद्र्यादिर्लसति पीठे ॥ १५७॥ परमशिवास्थानतले नित्यं खेलनकृतादरं तेजः तद् राजते मुनीनां हृदये निगमान्तसौधे च ॥ १५८॥ निश्चलभावभृतां तन्निश्चलरूपं विराजते तेजः । हंसीव मानसे मे मञ्जुलगतिदायिनी सुदृशाम् ॥ १५९॥ माधुर्यं वचसि गतौ गाम्भीर्यं नेत्रयोस्तैक्षण्यम् । शैतल्यं हृदि च सदा यत्र हि दृश्यं तदेव जननी नः ॥ १६०॥ निजशोभाजितकन्दुककुचयुगलश्रीजितेशहृदया सा । मनसि मम संनिधत्तां दत्तात्रेयादिभिर्वन्द्या ॥ १६१॥ निजमौलिचन्द्रकिरणप्रसारणेऽप्युल्लसत्सरोजयुगम् । दधती श्रवसोरेषा चकास्ति हृदये परा देवी ॥ १६२॥ मुखजिततारानाथा मखभुग्गणसेव्यचरणजलजाता । नखकान्तिपटलदम्भाद् गतिजितहंसावली विभातु हृदि ॥ १६३॥ कविताभाग्यविधात्री परिमलसङ्क्रान्तमधुपगणकेशा । मम नयनयोः कदा वा कर्णेजपलोचनं दिव्यम् ॥ १६४॥ शशिखण्डवतंसश्रीः पशुपतिभाग्यं च तत् तेजः । मम नयनयोः कदा वा कर्णेजपलोचनं दिव्यम् ॥ १६५॥ तत् तेजः शाश्वतमिह सामान्यं भूनिवासकृताम् । द्युसदामपि जयति कृतादरं तदस्तु श्रियै काले ॥ १६६॥ शतमखनीलमणीनां प्रभाविसारप्रलोभतनुकान्त्या । श्रुतिमौलिसौधदीपश्रिया तया नाथवानहं काले ॥ १६७॥ कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा । सा देवी मम हृदये कृतसांनिध्या कृतत्राणा ॥ १६८॥ पुष्पेष्वागमसारा पुरभिन्मानसविभेदिनिजकेलिः । विश्वविमोहनमूर्तिः सा देवी शाङ्करी जयति ॥ १६९॥ काशीकाञ्च्यादितटस्थिरासना मेखलाभिरामकटिः । मुग्धस्मेरमुखी सा या गौरी सम्पदां जननी ॥ १७०॥ मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः । ध्याने जपे च जपतां चकास्ति हृदये कवीश्वराणां च ॥ १७१॥ मञ्जुलकवितासंततिबीजाङ्कुरदायिनी रसालोका । जननि तवापाङ्गश्रीर्जयति जगत्त्राणकलितदीक्षेयम् ॥ १७२॥ अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती । पुरहन्तुर्हृदि जयति व्रीडामदमोहकामसारकरी ॥ १७३॥ दिनकरसुतातरङ्गावलिशोभाकृतकचाकचिश्रीश्च । शशिखण्डवतंसशिराः सा देवी शरणमर्थिनां परमम् ॥ १७४॥ कलकलनिनदत्काञ्ची काञ्च्यादितलस्थिरासना देवी । पुरहरभूषणमूर्तिः सा देवी शरणमस्माकम् ॥ १७५॥ पुरहरसहधर्मचरीं कचभारलसन्निशीथिनीशकलाम् । कविकुलमान्यचरित्रां पवित्रितक्षोणिभृत्कुलां वन्दे ॥ १७६॥ भक्तजनावलिकथितस्तुतिशतदत्तादरामिमां देवीम् । सरसकवनप्रदात्रीं भूषितशिववामभागरेखान्ताम् ॥ १७७॥ मङ्गलमूर्तिं किंनरकीर्तितनिजकीर्तिवल्लरीं जननीम् । मूर्तिमतीं कामकलां शम्भोरम्भोजलोचनां नौमि ॥ १७८॥ जितमन्मथमारकलादात्रीं शिवगात्रदिव्यभूषां ताम् । त्रिजगत्सुखजनयित्रीमम्बामम्बुदमनोज्ञतनुमूर्तिम् ॥ १७९॥ खण्डितसुरवैरिगणां चण्डकराद्यैः सुरैश्च नुतसदनाम् । मण्डितपुरहरदेहां ताण्डविनः सर्वमङ्गलां देवीम् ॥ १८०॥ निजलोचनकृतसम्पदमजकमलेक्षणशचीशसुरवन्द्याम् । भजनकृदन्तर्ज्योतिषमजतनयाद्यैश्च नित्यसेव्यकलाम् ॥ १८१॥ भरितभुवनामपर्णां सरिदुरुवीचीविलोलितात्मकचाम् । गिरिशकृतनित्यलीलां वरिवस्यादानतुष्टनिजहृदयाम् ॥ १८२॥ जननुतनित्यविभूतिं कनदुरुभूषावलीलसितदेहाम् । मनसाप्यगण्यतत्त्वां वनवासिध्यानगोचरात्मकलाम् ॥ १८३॥ नीलाम्बुजकान्तिमुषं बालार्कनिभात्मकर्णपूरवतीम् । मालालङ्कृतकण्ठां बालां स्कन्दस्य मातरं वन्दे ॥ १८४॥ शरणागतजनरक्षणकृतदीक्षावीक्षणेन जितशम्भुः । कुलभूधरवरतपसां परिपाकः कोऽपि विजयते लोके ॥ १८५॥ कुसुमशरमथनमनसाप्यादरणीयात्मकामकेलिरियम् । जननी कल्याणततिं भजतां नः सादरात् तरङ्गयति ॥ १८६॥ मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा । मन्दस्मेरमुखाब्जा गौरी मम हृदयसारसे लसतु ॥ १८७॥ पुरहरनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः । ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसंदोहा ॥ १८८॥ कारुण्यपूर्णनयना कलिकल्मषहारिणी च सा गौरी । मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु काले ॥ १८९॥ शूलिमनोरथपात्रं संतप्तस्वर्णकाम्यनिजगात्रम् । आश्रितहिमवद्गोत्रं रक्षितनतबाहुजच्छात्रम् ॥ १९०॥ कविकुलजिह्वालोलं शशिशेखरकलितरम्यबहुलीलम् । निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ १९१॥ कमलसुषमानिवासस्थानकटाक्षं चिराय कृतरक्षम् । रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ १९२॥ कुमुदवनीशक्रीडास्थानायितकेशभारायै । नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ १९३॥ बालकुरङ्गविलोचनधाटीरक्षितसुरादिमनुजान्तम् । नयनयुगासेव्यं तद् भातीह धरातले नियतम् ॥ १९४॥ कुशलविधये तदस्तु प्रसूनविशिखारिकृतलीलम् । कबलितपदनतदैन्यं तरुणाम्बुदमेचकं धाम ॥ १९५॥ जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः । निमिषमिव हन्त दिवसान् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ १९६॥ कविवाग्वासन्तीनां वसन्तलक्ष्मीः पुरारिदयिता नः । परमां मुदं विधत्ते काले काले महाभूत्यै ॥ १९७॥ त्रिभुवनसुन्दररूपं तेजस्तद् भक्तितः समभ्यर्च्य । गरुडेन याति कुतुकादथवा हंसेन सुरसेव्यः ॥ १९८॥ तव पदपद्मे भक्तिर्न मे तथापि तवदीयकृपयाहम् । ध्यायाम्यन्वहमम्ब त्वामारादादरात् सिद्ध्यै ॥ १९९॥ यो देव्याः पदसरसिजनतिभाक् तस्येह सिध्यन्ति । स्थिरविभुता सत्सङ्गः सायुज्यं चापि कालेन ॥ २००॥ हिमगिरितपःफलं तन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् । करुणालोलापाङ्गं तत् तेजो भातु निःसमं वदने ॥ २०१॥ जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे । तेन वयं तु कृतार्था नातः परमस्ति नः प्रार्थ्यम् ॥ २०२॥ मुनिहृदयपद्महंसी शिवकेलीसदनरत्नदीपकला । हिमवत्पुत्री कृपया मामवति महौषधी कलिव्याधेः ॥ २०३॥ प्रतिफलतु भावनायामस्माकं सा स्फुरत्कृपाधारा । पुरहरदृक्साफल्यं कैलासे किमपि निश्चितं तेजः ॥ २०४॥ सज्जनमानसधाम्ने नम उक्तिर्मे श्रुतीड्यनिजभूम्ने । शिववामभागधाम्ने महाविभूत्यै हि शङ्करीनाम्ने ॥ २०५॥ देशिकमानसविहरणकलाजुषे भक्तिरस्तु मे तस्मै । यच्चन्द्रमौलिलोचनचापल्यं रक्षितस्वभक्तौघम् ॥ २०६॥ निजलोचनकेलिकलावशीकृतप्रसबाणरिपुहृदयम् । दयया लोलितहृदयं तदस्तु तेजः पुरोऽस्माकम् ॥ २०७॥ सततं बद्धाञ्जलिपुटमुपास्महे तच्छुभप्रदं तेजः । यन्मरकतकान्तिलसत् प्रसूनशरवैरिपुण्यपरिपाकम् ॥ २०८॥ तीरं संसृतिजलधेः पूरं शङ्करविलोचनप्रीतेः । सारं निगमान्तानां दूरं दुर्जनततेर्हि तत् तेजः ॥ २०९॥ नगराजकन्यका सा लसतु पुरोऽस्माकमादरकृतश्रीः । यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडितो लसति ॥ २१०॥ सन्नयनसारसालीपूषा भूषा च हरशरीरस्य । हिमगिरितनया योषा भाषास्तोत्रप्रिया च सा भाति ॥ २११॥ सफलयतु नेत्रयुगलं हतनतदुरिता हि सा परा देवी । धरणिधरनायकप्रियसुता च सोमार्धभूषितात्मकचा ॥ २१२॥ सुमनोवाञ्छादाने कृतावधानं धनं शम्भोः । धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ २१३॥ को वा न श्रयति बुधः श्रेयोऽर्थी तामिमामम्बाम् । यामर्धचन्द्रशेखरसधर्मिणीमर्चयन्ति सुरनाथाः ॥ २१४॥ शमितनतदुरितसङ्घा हराय निजनेत्रकल्पितानङ्गा । कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ २१५॥ कवितारसपरिमलितं करोति वदनं नतानां या । स्तोतुं तामहमारात् सा देवी सुप्रसन्नास्तु ॥ २१६॥ पुरहरवामोत्सङ्गे भजामि लसितं तु तत् तेजः । सृष्टिस्थितिलयकार्यं यज्जनयति कालभेदेन ॥ २१७॥ कल्याणदानकलनात् ख्याता सा शाङ्करी लोके । तद्वैभवकीर्तनतो वयमत्रासाः परानन्दाः ॥ २१८॥ मन्दहसितैर्वशीकृतशाङ्करहृदया हि भक्तानाम् । रक्षणकार्याय परं साम्बा कुम्भोद्भवादिभिर्वन्द्या ॥ २१९॥ निजमौलिचन्द्रकिरणप्रसारणाद्गाङ्गवीचिकापवनैः । तत्क्षणनिरसितसुरतश्रमा भवानीह राजते भूत्यै ॥ २२०॥ मम गाहते हि हृदयं नयनयुगं त्रिपुरदमयितुर्भाग्यम् । यदकृत्रिमवाग्गुम्भैः स्तुत्यं ध्येय सदाभ्यर्च्यम् ॥ २२१॥ करधृतशूलाद्यायुधजालनिरस्ताखिलारिवृन्देयम् । कुन्दाभदन्तवदनानन्दायास्तु प्रकाममिह नमताम् ॥ २२२॥ कुचभारनम्रगात्रं निजजनिपरिपूतजनकवरगोत्रम् । सुरवैरिकलितकोपं गौरीरूपं तदस्तु हततापम् ॥ २२३॥ निटिलात्तवह्निनेत्रं लोलालकमेतदादृतं तेजः । निजकेल्यधीनशङ्करमस्माकं चाक्षयं स्थानम् ॥ २२४॥ तव मन्दस्मितलहरीविशेषितरुचिर्गिरीशशशिशकलः । तव रूपं गिरिशस्य स्वरूपमपि भाति योगिनां हृदये ॥ २२५॥ नीलारविन्दलोचनयुगलामम्बामहं नौमि । कालारिचित्तहरणे यल्लीलाः पाटवं नीताः ॥ २२६॥ शशधरभूषितमकुटी कविकुलवागब्जशरदियं देवी । आर्तत्राणपरायणविलोचना हिमवतः पुत्री ॥ २२७॥ श्रुतिपञ्जरकेलिशुकी शङ्करपरिरम्भणोत्सुका माता । बहिरप्यन्तयर्मिनां चकास्ति लोकाम्बिका कृतत्राणा ॥ २२८॥ चिन्तितवस्तुविधात्री संततमपि लोकरक्षणैकरता । संदानितनाकिलसत्संतानसुमप्रगल्भधम्मिल्ला ॥ २२९॥ कलितत्रिवर्गपदवीमपवर्गदकल्यसेवनामम्बाम् । गाङ्गजलैर्नलिनदलैरारग्वधपत्रजालकैरर्च्याम् ॥ २३०॥ शशिशेखरसर्वस्वं पूर्वाचार्यैः पुरस्कृतं तेजः । मामकचक्षुर्विषयं कदा नु कैलासकलितचङ्क्रमणम् ॥ २३१॥ मोहितभुवना देवी सा हितकरनित्यचिन्तना भजताम् । ताडितरिपुजनमान्या पीडितनिजभक्तभवभया जयति ॥ २३२॥ प्रत्यङ्गलसितभूषा सत्यं माता हि शरणमस्माकम् । क्क्त्यं यमभयमस्याः स्तुत्यं जगतीह वैभवं मनुजैः ॥ २३३॥ अम्ब त्वमेव कमलासनादिवैभवविधात्री च । तां त्वां शरणं प्राप्ताः लोकेऽमुष्मिन् किमाशास्यम् ॥ २३४॥ कुङ्कुमरुचिलसिताङ्गं कमलासनमात्तकमलं च । हस्ताम्बुजधृतपुस्तकरुद्राक्षादि च तथा रूपम् ॥ २३५॥ जितमन्मथवरिवस्यासक्तं रूपं च ते मातः । कालानुकूलकलितं परतत्वविदां चकास्ति हृदयतटे ॥ २३६॥ हिमवन्नगेन्द्रकन्ये भूसुरकृतबहुलपूजया धन्ये । मान्ये सुमनःसङ्घैस्त्वां कलये हृदि सदा हि कटिशून्ये ॥ २३७॥ निरसितनिष्कञ्चनजनदैन्या कन्या धराधरेशस्य । दृक्कान्तिविजितहरिणा हरिणाराध्या च सा जयति ॥ २३८॥ विनतजनितापवर्गा सर्गादिकरी च सा देवी । निजलीलाहृतभर्गा दुर्गादिश्रेयसां जननी ॥ २३९॥ कवनकृतां तोषकृते जगदवनादिक्रियापेषु भवतु । शाङ्करिरूपाय परं नम उक्तिर्ज्योतिषेऽस्माकम् ॥ २४०॥ फणिपतिभूषितदेहा हरभजनानन्दसंदोहा । तत्त्वैर्हतसंदेहा चकास्तु हृदये विधूतजनमोहा ॥ २४१॥ जयति जननि त्वदीयं रूपं रविकोटितुलितमिदम् । एतन्नानाकारं काले कृतरक्षणं च भुवनेड्यम् ॥ २४२॥ मदनारिकण्ठसुषमासाक्षीभूतस्वबाहुयुगला सा । कुङ्कुमपङ्काङ्किततनुरेषा देवी चकास्ति बहुरूपा ॥ २४३॥ काञ्चीमणिलसितकटिः काञ्चीपुरभूषणं च तद्धाम । यन्मन्मथरिपुमान्यं निजलीलाकलितबहुरूपम् ॥ २४४॥ करपङ्कजधृतमाला सृष्टिस्थित्यादिबहुलीला । वीटीविलसितवदना विरचितनतहर्म्यवरसदना ॥ २४५॥ विसृमरतानुकम्पा तं पातकिवर्गमादरादम्बा । रक्षति तनुजितशम्पा सा नः शरणं पुरः स्फुरतु ॥ २४६॥ शूलिनि सुरजनपालिनि कात्यायनि देवि मां पाहि । सुरलोककुसुममालिनि शिवखेलिनि चण्डिके पाहि ॥ २४७॥ भारति भैरवि शाङ्करि कपालिनि नमोऽस्तु ते नित्यम् । स्तुत्वैवमम्ब वाचा मनसाराध्यं नमामि ते पादम् ॥ २४८॥ कुटिलकचं लिकुचकुचं मृदुबाहुलतं च कङ्कुमच्छायम् । विलसति शशधरमौलेः सर्वस्वं सुकृतपरिपाकः ॥ २४९॥ उन्मूलयति शुभेतरवार्तामप्यम्ब ते नाम । भजनादपि कीर्तनतः किं वा भाग्यं त्वदीयभक्तानाम्। ॥ २५०॥ परमशिवपुण्यकोटी निजगतिजितसन्मरालगतिधाटी । कृतनित्यकामकोटी कोटीरोल्लसितचन्द्रपरिपाटी ॥ २५१॥ चन्द्राभरणवतंसा कंसारिमुखैः सुरैश्च नुतचरिता । गजमुखषण्मुखजननी सास्माकं मानसे कृतास्थाना ॥ २५२॥ परमशिवदिव्यजाया मायामोहितसुरासुरा जननी । कुङ्कुमविलसितकायापायान्मां रक्षतीह कविगेया ॥ २५३॥ भूषितरत्नाभरणा शरणर्थिजनालिकल्पिताभरणा । मुदितनिजान्तःकरणा मरणादिध्वंसिनी सदावरणा ॥ २५४॥ श्रुतिसुदतीस्तबकायितचरणाम्भोजा च भोजाद्यैः । कृतपरिचरणा विस्तृतकरुणाम्बा शैलराजवरतनया ॥ २५५॥ अधरे लसितारुण्यं तनौ तु हरमान्यपूर्णतारुण्यम् । लोचनधृतकारुण्यं करे कुसुम्भादिसम्भृतारुण्यम् ॥ २५६॥ तत्तेजो लसति हृदि स्मरारिसंमान्यबहुलीलम् । सृणिपाशाङ्कुशहस्तं प्रशस्तमस्तोदयादिहीनं च ॥ २५७॥ कलितचराचररक्षणमक्षीणोद्दामवैभवं किमपि । निखिलागमयन्त्रकलासारं तल्लसति पुरभिदा मान्यम् ॥ २५८॥ भवचित्तराजहंसी भवभयमोहादिभेदिनी शरणम् । सवरक्षणकृतदीक्षा शिववामाङ्गोल्लसितमूर्तिः ॥ २५९॥ तव चरणन्यासवशात् परिपूता भूरियं भूत्यै । देवेशमौलिसेव्या तां त्वामाराधयामि गिरितनये ॥ २६०॥ क्षणमिह मातर्दूरे स्याद् यदि दृष्टिः शुभङ्करी मान्या । अष्टैश्वर्योऽपि तदा विनष्टशोभो विकल्यश्च ॥ २६१॥ अत एव हि कारुण्याल्लोकाम्ब त्वं सदादृतभवाङ्गा । क्रीडसि रक्षसि काले जनयसि मोहादिकानथवा ॥ २६२॥ परमशिवकेलिरसिके यः कोऽपि जनस्तव स्तवं कुर्वन् । निरसितनाकेशपदस्तव सारूप्यं क्रमाद् भजति ॥ २६३॥ तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु । निरसितनरकादिभयो विराजते नाकिसदसि सुरवन्द्यः ॥ २६४॥ बालमरालीगत्यै सुरगिरिधानुष्कमहितकलगीत्यै । विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ २६५॥ वितरणकलाप्रसक्तौ चिन्तामणिकामधेनुसुरवृक्षाः । ते दूरे तां त्वामहमाराधयितुं कृतप्रयत्नोऽस्मि ॥ २६६॥ विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् । तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ २६७॥ तव हरपुरंध्रि मातश्चरणपयोजं क्रमार्चितं येन । तेनैन्द्रपदमपि द्राग् विराजते तत् समाक्रान्तम् ॥ २६८॥ तव पदसरोजपांसुन्यासाद्धन्योत्तमाङ्गलसिताश्च । गायन्ति च नृत्यन्ति प्रमोदकृतनुतिचयाश्च राजन्ते ॥ २६९॥ यत्प्रणयकलहवार्ताभीतो निरसितसिमेषुरपि विनयी । मदनं तमपि वसन्तं मानयितुं सम्प्रवृत्तहृदयोऽभूत् ॥ २७०॥ कुसुमैर्गाङ्गैर्वारिभिरनुनयवाग्भिश्च नम्रमुखः । सा पुरहरभूषा नो मनसि विहरतां किरीटलसदिन्दुः ॥ २७१॥ पुरहरपरतन्त्रं तद् गततन्द्रं वस्तु निस्तुलमुपासे । तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ २७२॥ मुखसुषमाजितपद्मं पद्मजहरिवासवादिबुधसेव्यम् । काव्यार्थसारमेतद् गौरीरूप हि विजयते तेजः ॥ २७३॥ यस्याः पदसरसिजयोर्विबुधकिरीटावलिर्गौर्याः । नीराजनविधिकलिता सा मे कुलदैवतं लसतु ॥ २७४॥ कविहृत्कैरविकसनचन्द्रिकया शमिततापभराः । मन्दस्मितश्रिया किल यस्याः सा भाति हिमवतः पुत्री ॥ २७५॥ निरसिततमःप्रचारा पूर्वा संध्येव नगपतेस्तनया । द्विजसङ्घोदयकलना सा मे कुलदैवतं लसतु ॥ २७६॥ रचयामि नमंसि भृशं शङ्करमण्डितनिजाङ्कवल्लर्यै । पुण्यात्मने पुरारेः पर्वतकुलराजतनयायै ॥ २७७॥ पुरमथनभाग्यधाटी कविलोकसमीड्यसूक्तिरसधाटी । मुखलसितसारवीटी विहरतु हृदि मे कृपौघपरिपाटी ॥ २७८॥ अम्ब तव करुणयाहं रक्षितसंतानवैभवो नित्यम् । एतादृशी तुमहती कीर्तिस्ते जृम्भते प्रतिदिशं हि ॥ २७९॥ मदनपरिपन्थिमहिषी मम मानसकल्पितासना जयति । श्रुतिमौलिविहितचरणा योगिहृदम्भोजलालितापि मुहुः ॥ २८०॥ पशुपतिपुरंध्रि मातस्तव पादयुगं प्रणम्य जन्तुरिह । विधुतयमदूतभीतिस्त्रिदिशैरपि मान्यते कलितसेवः ॥ २८१॥ सुरसुदतीलोलालकमकरन्दरसवासितं तव पदाब्जम् । मम मानसे तु फुल्लं भवतु हि काले वयं तु धन्याः स्मः ॥ २८२॥ तव नाम यस्य वक्त्रे फाले च पदाब्जकुङ्कुमच्छाया । स भवति मान्यस्त्रिदशैरपि धुतसमस्तदुरितजालः सन् ॥ २८३॥ आस्तां हि मे पुरस्तात् पुरजयिनः पुण्यपरिमलोल्लासि । जननीरूपं संततमाश्रितरक्षैकक्लृप्तदीक्षं तत् ॥ २८४॥ हरिणाङ्कमौलिदयिते यदि ते दृष्टिस्तदादरात् कविता । आलिङ्ग्य मोदति चिरं तेन हि सर्वज्ञता लोके ॥ २८५॥ डम्भादिदुर्गुणौघो धावति दूरे त्वदीयपदभक्तम् । त्यक्त्वा यदि ते दृष्टिस्तेन हि सर्वाः श्रियः काले ॥ २८६॥ तव मातर्मुनिमान्यं पदमाराध्य प्रसूनौघैः । लभते सहस्रनयनान्यथवाष्टौ पुण्यसंवृतः पुरुषः ॥ २८७॥ निर्धूततमःकन्दे मुकुन्दपद्मासनादिसेव्यपदे । भक्तिर्मम हि सदा स्यात् तेनाहं धन्यचरितोऽस्मि ॥ २८८॥ नूपुरमनिगणरञ्जितपादाब्जं मातरम्बिके हृदये । मम लसतु तव कटाक्षान्नातः परमर्थनीयं हि ॥ २८९॥ मुक्तामणिभूषितया कोकिलशुकमान्यवाग्विभूषितया । हिमगिरिसुतयाहं किल सनायको धूतपापादिः ॥ २९०॥ निर्धूततमसि रूपं तव मातर्मामके हृदये । स्फुरति तवैव हि दयया न मामकैः कर्मभिश्च व्रतगुम्भैः ॥ २९१॥ निगमान्तवेद्यवैभवमेतत् ते रूपमम्बिके मातः । स्फुरति मम नयनयोरिह तत्र तु हेतुस्त्वदीयकरुणा हि ॥ २९२॥ त्रिणयनसाम्राज्यमिदं तव रूपं निखिलदेवतोपास्यम् । ननु मातः स्फुरतु सदा नातः परमर्थनीयं हि ॥ २९३॥ हरिणाङ्कमौल्यधीना कापिपरा शक्तिरम्बिका क्षेत्रे । मौलौ च नित्यवचसां मम चित्ते भजतु नित्यलीलादिम् ॥ २९४॥ परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः । कृतनीराजनविधि ते मम तु शिरोभूषणं पदसरोजम् ॥ २९५॥ भागीरथीव वाणी तव नुतिरूपा विराजते परमा । इह मातर्यद्भजनं सर्वेषां सर्वसम्पदां हेतुः ॥ २९६॥ नगपतितनये मातः शाङ्करि माहेस्वरीति नामानि । नित्यं जपन्नहं तु त्वदीयदासोऽस्मि मुक्तये सिद्धः ॥ २९७॥ निखिलचराचररक्षां वितन्वती शाङ्करी दयया । मम कुलदैवतमेषा जयति सदाराध्यमान्यपदकमला ॥ २९८॥ सर्वजनैः संसेव्ये संततमपि वाञ्छितप्रदे देवि । अम्ब त्वमेव शरणं तेनाहं प्राप्तसर्वकार्यार्थः ॥ २९९॥ शाङ्करि कथं नु वर्ण्यस्तव महिमा वेदमौलिगणवेद्यः । इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ ३००॥ त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः । अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ ३०१॥ इति गङ्गाधरमखिविरचिता अम्बिकात्रिशती समाप्ता । Encoded and proofread by Sridhar Seshagiri
% Text title            : ambikA trishati
% File name             : ambikA300.itx
% itxtitle              : ambikAtrishatI
% engtitle              : ambikAtrishatI
% Category              : shatI, devii, pArvatI, devI, trishatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Author                : Gangadharamakhin
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Proofread by          : Sridhar  Seshagiri seshagir at engineering.sdsu.edu
% Latest update         : July 14, 2003
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org