श्रीअम्बिकास्तवनम्

श्रीअम्बिकास्तवनम्

महामात्यश्रीवस्तुपालविरचितं पुण्ये गिरीशशिरसि प्रथितावतारामासूत्रितत्रितजगतीदुरिनापहाराम् । दौर्गत्यपातिजनताजनितावलम्वामम्वामहं महिमहैमवतीं ! महेयम् ॥ १॥ यद्वक्त्रकुञ्जरहरोदूगतसिंहनादोऽप्युन्मादिविघ्नकरियूथकधाममाथम् । कृऽष्माण्डि खण्डयतु दुर्विनयेन कण्ठः कण्ठीरवः स तव भक्तिनतेषु भीतिम् ॥ २॥ कृष्माण्डि ! मण्डनमभूत्तव पादपद्मयुग्मं यदीयहृदयावनिमण्डलस्य । पद्मालया नवनिवासविशेपलाभलुब्धा न धावति कुतोऽपि ततः परेण ॥ ३॥ दारिद्र्यदुर्दमतमःशमनप्रदीपाः सन्तानकाननघनाघनवारिधाराः । दुःखोपतप्तजनबालमृणालदण्डाः कृष्माण्डि ! पातु पदपद्मनस्वांशवस्ते ॥ ४॥ देवि ! प्रकाशयति सन्ततमेष कामं वामेतरस्तव करश्चरणानतानाम् । कुर्वन् पुरः प्रगुणितां सहकारलुम्बिमम्बे ! विलम्बविकलस्य फलस्य लाभम् ॥ ५॥ हन्तुं जनस्य दुरितां त्वरिता त्वमेव निन्ये त्वमेव जिनशासनरक्षणाय । देवि ! त्वमेव पुरुषोत्तममाननीया कामं विभासि विभया सभया त्वमेव ॥ ६॥ तेषां मृगेश्वरगरज्वरमारिवैरिदुर्वार्वारणजलज्वलनोद्भवा भीः । उच्छुरङ्खलं न खलु खेलति येषु धत्से वात्सल्यपल्लवितमम्बकमम्बिके ! त्वम् ॥ ७॥ देवि ! त्वदूर्जितजितप्रतिपन्थितीर्थयात्राविधौ बुधजनाननरङ्गसङ्गि । एतत्वयि स्तुतिनिभाद्भुतकल्पवल्लीहल्लीसकं सकलसङ्घमनोमुदेऽस्तु ॥ ८॥ वरदे ! कल्पवल्लि ! त्वं स्तुतिरूपे ! सरस्वति !। पादाग्रानुगतं भक्तं लम्भयस्वातुलैः फलैः ॥ ९॥ स्तोत्रं श्रोत्ररसायनं श्रुतसरस्वानम्बिकायाः पुर- श्चक्रे गूर्जरचक्रवर्तिसचिवः श्रीवस्तुपालः कविः । प्राप्तः प्रातरधीयमानमनघं यच्चित्तवृत्तिं सता- माधत्ते विभुतां च ताण्डवयति श्रेयःश्रियं पुष्यति ॥ १०॥ इति महामात्यश्रीवस्तुपालविरचिता अम्बिकास्तुतिः सम्पूर्णा । Proofread by DPD
% Text title            : ambikAstavanam
% File name             : ambikAstavanam.itx
% itxtitle              : ambikAstavanam (vastupAlavirachitam)
% engtitle              : ambikAstavanam
% Category              : devii, devI, jaina, stava
% Location              : doc_devii
% Sublocation           : devii
% Author                : Vastupala
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 30, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org